r/yugala

​I have an intense obsession and a deep attachment to Radhika, the princess of Vrishbhanu and the Queen of Barsana. I adore you madly, my Queen! O Queen of Braj, I bow at your lotus feet forever and ever. I repeat your name without ceasing; please grant me the grace to never forget you,
▲ 22 r/yugala+2 crossposts

​I have an intense obsession and a deep attachment to Radhika, the princess of Vrishbhanu and the Queen of Barsana. I adore you madly, my Queen! O Queen of Braj, I bow at your lotus feet forever and ever. I repeat your name without ceasing; please grant me the grace to never forget you,

even for a single second.

I chant "Radha" in my heart, my mind, my tongue, my thoughts, and my dreams. When I wake up, I repeat "Radhey Radhey." When I rise, I say "Radhey Radhey." I offer all my food to Radhika, and I pronounce the name of Radha over everything I eat and drink.

When I am happy, I run to Radha, share my joy with her, repeat her name, and thank her. When I am sad, I go to Radhika, thank her, cry near her, and share my grief and worries with her. When I sit and meditate, I contemplate nothing but Radhika's feet and eyes. When I am excited about something, I share my excitement with her and tell her my ideas.

I share my entire life with her. Even when I work, I only work in her presence, and I only exercise in front of her, repeating her name in every single moment. Her name is like my inhalation and exhalation—something completely involuntary, to the point that while speaking, I almost pronounce Radha's name instead of words. When I want to sleep, I focus on her eyes until I drift off.

I am deeply obsessed with Radhika, the daughter of Vrishbhanu. My whole life belongs to Radhey; I am Radha's servant, I am Radha's own, I belong to Radha, and Radha is my Queen, my beloved, my adoration, and my entire life and breath.

Radhey Radhey. 🙏

u/Fitckberry — 18 hours ago
▲ 17 r/yugala+1 crossposts

अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः ॥ (in vrindavan she's shree Lalit sakhi ,in vishva she's maha lalita devi , in dvaraka she's shree satyabhama !)

अस्य श्रीललितासहस्रनामस्तोत्रमहामन्त्रस्य वशिन्यादिवाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललितापरमेश्वरी देवता । श्रीमद्वाग्भवकूटेति बीजम् । मध्यकूटेति शक्तिः । शक्तिकूटेति कीलकम् । मूलप्रकृतिरिति ध्यानम् । मूलमन्त्रेणाङ्गन्यासं करन्यासं च कुर्यात् । मम श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः ॥

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।

पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥

अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् ।

अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥

ध्यायेत्पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।

सर्वालङ्कारयुक्तां सतताभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्तमूर्तिं सकलासुरनुतां सर्वसम्पत्प्रदात्रीम् ॥

सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।

अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥

लमित्यादि पञ्चपूजा ।

लं पृथिवितत्त्वात्मिकायै श्रीललितादेव्यै गन्धं परिकल्पयामि ।

हं आकाशतत्त्वात्मिकायै श्रीललितादेव्यै पुष्पं परिकल्पयामि ।

यं वायुतत्त्वात्मिकायै श्रीललितादेव्यै धूपं परिकल्पयामि ।

रं अग्नितत्त्वात्मिकायै श्रीललितादेव्यै दीपं परिकल्पयामि ।

वं अमृततत्त्वात्मिकायै श्रीललितादेव्यै नैवेद्यं परिकल्पयामि ।

सं सर्वतत्त्वात्मिकायै श्रीललितादेव्यै ताम्बूलादि सर्वोपचारान् परिकल्पयामि ॥

अधुना राधिके राज्ञि ललितारूपिणि प्रिये ।

नाम्नां ध्यानं करिष्यामि पवित्राणां च सर्वदा ॥ ८७१।९२ ॥

आश्चर्यं परमं प्राप्तं ललितासखिका प्रिये ।

ललितादेविरूपा सा साक्षात् शक्तिस्त्वदीयका ॥ ८७१।९३ ॥

तस्माद् वै द्वारकापुर्यां ललितासखिका प्रिये ।

योद्धा वै सत्यभामेति नाम्ना सा परिगीयते ॥ ८७१।९४ ॥

यतः सा साहसेनैव सत्येन च प्रकाशते ।

सत्यभामास्वरूपेण राजते सा महेश्वरि ॥ ८७१।९५ ॥

त्वं च रुक्मिणिनाम्ना वै ख्याता स्वर्णत्वचा प्रिये ।

रुक्मेति स्वर्णवर्णाभा तस्मात् त्वं रुक्मिणी स्मृता ॥ ८७१।९६ ॥

विशाखा मे महामातर्या कलिन्दसुता स्मृता ।

कालिन्दी यमुनामूलं कलिन्दगिरिनन्दिनी ॥ ८७१।९७ ॥

ललिताया विशाखाया अष्टसखीपदाम्बुजे ।

अष्टभार्यापदे चैव ते पादे प्रणमाम्यहम् ॥ ८७१।९८ ॥

आशीर्वादं गृहीत्वाहं युष्माकं चरणाम्बुजात् ।

आज्ञां देहि रहस्यानि पवित्राणि वदाम्यहम् ॥ ८७१।९९ ॥

श्रीमती ललिता राज्ञि प्रथमा श्रीमातेति वै ।

त्वदुदरात् समुद्भूतं सर्वमस्तित्वमेव च॥ ८७१.१०० ॥

जगन्माता त्वमेवासि दुर्गामाता त्वमेव हि।

अस्तित्वे सर्वमातॄणां त्वमेव विस्तरो मतः॥ ८७१.१०१ ॥

त्वच्छक्तेश्चैव भागेन प्रजायन्ते हि मातरः।

ललितादेवि साक्षात् त्वं करुणा परमार्थिका॥ ८७१.१०२ ॥

सर्वभूताश्रया माता यस्त्वां शरणमागतः।

तस्मै ददासि सर्वं वै पुत्री तवाहं राधिके॥ ८७१.१०३ ॥

अपराधान् क्षमस्वाशु पतितास्मि ह्यशक्तिका।

संसारनरकाद् राधे त्राहि मां शरणागताम्॥ ८७१.१०४ ॥

स्वक्रोडे मां गृहाणाशु वृन्दावनसुपावने।

श्रीमती राधिके मातः साष्टाङ्गं प्रणमाम्यहम्॥ ८७१.१०५ ॥

त्वमेव सा महाशक्तिः क्रूरा भवति या प्रिये।

पुत्राणां रक्षणार्थाय सर्वमातृषु संस्थिता॥ ८७१.१०६ ॥

नारीणां बलभूता त्वं रक्षन्तीनां स्वबान्धवान्।

पतिं पुत्रं तथा तातं नारी वै गृहरक्षिका ॥ ८७१.१०७ ॥

साम्राज्यरक्षिका नारी त्वच्छक्त्या हि प्रजायते।

महाकालीस्वरूपा त्वं पुत्राणां परिपालिनी॥ ८७१.१०८ ॥

असुराणां विनाशाय संहाराय च सक्षमा।

दुर्गामाता त्वमेवासि महिषासुरमर्दिनी॥ ८७१.१०९ ॥

सर्वदेवगणानां च रक्षिका त्वं हि राधिके।

सर्वलक्ष्मीप्रसूतिस्त्वं सर्वसरस्वतीप्रसूः॥ ८७१.११० ॥

सर्वदेवानामपि त्वं मूलभूता सनातनी।

सर्वमूलकृतिः साक्षात् सर्वसृष्टिप्रकाशिनी॥ ८७१.१११ ॥

रेफवर्णस्वरूपा त्वं ककारवर्णरूपिणी।

त्वत्त एव प्रजायन्ते ह्यनन्ता विस्तराः प्रिये॥ ८७१.११२ ॥

योगमाया त्वमेवासि दुर्गा काली सरस्वती।

लक्ष्मीस्वरूपा देवेशि त्वं शक्तिः सर्वधारिणी॥ ८७१.११३ ॥

त्वदुदरात् समुद्भूता ब्रह्माण्डकोटयोऽनघाः।

कृष्णस्य च तवाप्येवं योगादेतद्विराजते॥ ८७१.११४ ॥

परमा मातृरूपा त्वं कुलशक्तेः प्रदायिनी।

पारिवारिकमूर्त्तिस्त्वं सुसन्तानप्रसूतिनी॥ ८७१.११५ ॥

नारीणां गौरवं त्वं हि मर्यादा शीलमेव च।

चरित्रं च सतीत्वं च त्वमेव परमेश्वरि॥ ८७१.११६ ॥

अस्तित्वस्य च मूलं त्वं ह्लादिनीशक्तिरूपिणी।

नित्यानन्दस्वरूपा त्वं नित्या नन्दप्रदायिनी॥ ८७१.११७ ॥

पवित्रज्ञानरूपा त्वं सर्वविद्यामयी प्रिये।

तस्मात् ते पादपद्मेषु साष्टाङ्गं प्रणमाम्यहम्॥ ८७१.११८ ॥

पवित्रपादपद्मेषु साष्टाङ्गं प्रणिपत्य च।

भजामि चरणाम्भोजं सर्वदा राधिके प्रिये॥ ८७१.११९ ॥

ललितादेवि-रूपेऽपि र-क-कारौ बिभर्षि वै।

श्यामसुन्दर-देवेन योगस्ते ह्यत्र विद्यते॥ ८७१.१२० ॥

सर्वत्रास्ति हि वां योग-स्तस्माद् वन्दे पदाम्बुजम्।

द्वितीयं नाम ते राज्ञि 'महाराज्ञी'ति कीर्त्यते॥ ८७१.१२१ ॥

अखिलाण्डेश्वरी साक्षात् सर्वोपरि विराजसे।

तस्मात् त्वं 'ठाकुरानी'ति भक्तानां गीयते मुखैः॥ ८७१.१२२ ॥

तव नाम्नो ह्यारम्भो वै रेफवर्णेन वह्निना।

वह्निमान् एष वर्णो हि रामदेव-स्वरूपकः॥ ८७१.१२३ ॥

तदनन्तरमग्निर्वै नाम्नि तेऽस्ति सुसंस्थितः।

अग्नये दीयते यत्तु हविर्यज्ञे कृपामयि॥ ८७१.१२४ ॥

तत् सर्वं श्यामदेवाय तुभ्यं चैव निवेद्यते।

यतो वह्निस्त्वमेवासि साक्षादग्नि-स्वरूपिणी॥ ८७१.१२५ ॥

स्वाहा त्वं यज्ञरूपा त्वं सर्वोर्जामूलरूपिणी।

सर्वशक्ति-प्रसूतिस्त्वं साम्राज्ञी जगदम्बिके॥ ८७१.१२६ ॥

अखिलाण्डस्य राज्ञी त्वं पूर्णकामा सनातनी।

त्वत्त एव प्रजायन्ते सर्वा राज्ञ्यो जगत्त्रये॥ ८७१.१२७ ॥

कृष्णराज्ञी त्वमेवासि कृष्णस्य च नियन्त्रिका।

मोहन-श्याम-संमोहा तस्माद् राज्ञीति गीयते॥ ८७१.१२८ ॥

राजराजेश्वरी त्वं हि राजाधिराज-राज्ञिका।

ईश्वरीश्वरेस्वरी त्वं देवेश्वर-नियन्त्रिका॥ ८७१.१२९ ॥

विश्वरज्ञी श्याममोहा देवकीनन्दनं प्रिये।

कटाक्षेणैव मोहय्य वशीकरोषि राधिके॥ ८७१.१३० ॥

विना त्वां पुरुषो नैव प्राप्यते जगदम्बिके।

अस्तित्वस्य महाराज्ञी मूलमाता त्वमेव हि॥ ८७१.१३१ ॥

जयस्तु ललितादेव्यै राधिकायै जयो जयह।

विश्वस्य मूलरूपायै सर्वदायै नमो नमः॥ ८७१.१३२ ॥

दुष्टराज्ञां विनाशिन्यै साष्टाङ्गं प्रणमाम्यहम्।

शुभराज्ञां भद्रदायै ते पादे प्रणमाम्यहम्॥ ८७१.१३३ ॥

मनुराजस्य राज्ञ्यै वै मनुस्मृति-विधायिनि।

हयग्रीव-प्रियायै ते मुनीनां वल्लभे नमः॥ ८७१.१३४ ॥

आज्ञां देहि महाराज्ञि ते पादे प्रणमाम्यहम्।

किङ्करीं दासिकामेव पादयोस्तव राधिके॥ ८७१.१३५ ॥

श्यामसुन्दरदेवस्य पादयोरपि मादृशीम्।

स्वीकुरुष्व महाराज्ञि भजे चरणपङ्कजम्॥ ८७१.१३६ ॥

युवयोः पादपद्मेषु क्षुद्रधूलिकणास्म्यहम्।

साष्टाङ्गं प्रणिपातेन वन्दे वां चरणाम्बुजम्॥ ८७१.१३७ ॥

ललितादेवि-रूपेऽपि रककारौ बिभर्षि वै ।

श्यामसुन्दरदेवेन योगस्ते ह्यत्र विद्यते ॥ ८७१।१२० ॥

सर्वत्रास्ति हि वां योगस्तस्माद् वन्दे पदाम्बुजम् ।

द्वितीयं नाम ते राज्ञि महाराज्ञीति कीर्त्यते ॥ ८७१।१२१ ॥

अखिलाण्डेश्वरी साक्षात् सर्वोपरि विराजसे ।

तस्मात् त्वं ठाकुरानीति भक्तानां गीयते मुखैः ॥ ८७१।१२२ ॥

तव नाम्नो ह्यारम्भो वै रेफवर्णेन वह्निना ।

वह्निमान् एष वर्णो हि रामदेवस्वरूपकः ॥ ८७१।१२३ ॥

तदनन्तरमग्निर्वै नाम्नि तेऽस्ति सुसंस्थितः ।

अग्नये दीयते यत्तु हविर्यज्ञे कृपामयि ॥ ८७१।१२४ ॥

तत् सर्वं श्यामदेवाय तुभ्यं चैव निवेद्यते ।

यतो वह्निस्त्वमेवासि साक्षादग्निस्वरूपिणी ॥ ८७१।१२५ ॥

स्वाहा त्वं यज्ञरूपा त्वं सर्वोर्जामूलरूपिणी ।

सर्वशक्तिप्रसूतिस्त्वं साम्राज्ञी जगदम्बिके ॥ ८७१।१२६ ॥

अखिलाण्डस्य राज्ञी त्वं पूर्णकामा सनातनी ।

त्वत्त एव प्रजायन्ते सर्वा राज्ञ्यो जगत्त्रये ॥ ८७१।१२७ ॥

कृष्णराज्ञी त्वमेवासि कृष्णस्य च नियन्त्रिका ।

मोहनश्यामसंमोहा तस्माद् राज्ञीति गीयते ॥ ८७१।१२८ ॥

राजराजेश्वरी त्वं हि राजाधिराजराज्ञिका ।

ईश्वराणामीश्वरी त्वं देवेश्वरनियन्त्रिका ॥ ८७१।१२९ ॥

विश्वराज्ञी श्याममोहा देवकीनन्दनं प्रिये ।

कटाक्षेणैव संमोह्य वशीकरोषि राधिके ॥ ८७१।१३० ॥

u/Initial_Fold_420 — 3 days ago
▲ 6 r/yugala+1 crossposts

अथ श्री राधा रमण तत्वातीतधारा प्रथमोध्यायः। श्रीराधारानी-अनुज्ञा-याचना ॥(Radhe Rani Kripa)

॥ श्रीराधाचरणरेणुरुवाच ॥

हे स्वामिनि महाराज्ञि पादतलसमाश्रिताम् ।

धूलिकां मां कृपयस्व त्वत्पदाब्जे प्रलम्बिताम् ॥ १ ॥

राधिके त्राहि मां देवि याचे त्वां हि मुहुर्मुहुः ।

कृपां कुरुष्व मे राज्ञि कारुण्यं तेऽभिलाषये ॥ २ ॥

तव कृपां विना देवि को मां हि समनुज्ञयेत् ।

भाषणार्थं हि पत्यौ ते श्यामसुन्दरसंज्ञके ॥ ३ ॥

हे देवि कुरु कारुण्यं कोऽन्यो मां हि कृपायते ।

अहं दीना च दासी वै न समर्थास्मि किञ्चन ॥ ४ ॥

विना तव कृपां राज्ञि विना श्यामकृपां तथा ।

न किञ्चित् कर्तुमीशास्मि क्षुद्रदासी नमोऽस्तु ते ॥ ५ ॥

हे राधिके हरे श्रीजि याचे त्वां परमेश्वरि ।

पवित्रौ ते पदौ नौमि साष्टाङ्गं विनतानना ॥ ६ ॥

रोदिमि त्वां मुहुर्याचे ठकुरानि कृपां कुरु ।

नम्रभावेन ते पादौ प्रणमामि पुनः पुनः ॥ ७ ॥

अहं क्षुद्रा हि दासी वै को मां हि कृपते वद ।

यदि त्वं न कृपां कुर्या बर्सानेश्वरि ते नमः ॥ ८ ॥

धूलिकास्मि पदाधस्तात् त्वत्पादौ शरणं गता ।

कृपया मां हि रक्षस्व राधारानि नमोऽस्तु ते ॥ ९ ॥

दीना दासी च भ्रान्तास्मि दिङ्-मूढास्मि च सर्वदा ।

त्वां विना को दयां कुर्यात् राधिके परमेश्वरि ॥ १० ॥

क्रन्दन्तीं रुदतीं चैव कृपामेवाभिकाङ्क्षिणीम् ।

धूलिकां मां कृपयस्व ठकुरानि नमोऽस्तु ते ॥ ११ ॥

क्षुधितः शुकपोतोऽस्मि भावं भोजय मां प्रिये ।

वृन्दावनेश्वरि राधे पाहि मां शरणागताम् ॥ १२ ॥

श्रीकृष्णस्य हरेः पादे गोविन्दस्य मुरारिणः ।

नय मां कृपया देवि मथुरेश्वरि ते नमः ॥ १३ ॥

द्वारकेश्वरि तं ब्रूहि श्यामसुन्दरमेव हि ।

दीना दासी कृपां वाञ्छेत् कान्हाजि करुणां कुरु ॥ १४ ॥

विष्णुकान्ते विष्णुप्रिये विष्णुपत्नि कृपामयि ।

मातृस्नेहेन मां मातर्नयस्व पितुरन्तिकम् ॥ १५ ॥

वद तं रुदती पुत्री त्वामेव हि प्रवाञ्छति ।

मधुसूदन हे नाथ भक्तवत्सल पाहि माम् ॥ १६ ॥

किं नास्ति स्थानमेवात्र धूलिकायै पदाम्बुजे ।

तव श्यामस्य च पत्युः सर्वेश्वरि हि राधिके ॥ १७ ॥

राधारानि महाराज्ञि पादाधस्तात् क्षिपस्व माम् ।

शाश्वतं कुरु मां दासीं राधा राधेति याचये ॥ १८ ॥

पुनः पुनस्त्वां याचेऽहं दासी निजधनास्मि वाम् ।

केवलं यन्त्ररूपास्मि युवयोः परिचारिका ॥ १९ ॥

हे राधे ते पदाम्भोजे याचेऽहं च मुहुर्मुहुः ।

करुणां कुरु मे देवि त्राहि मां शरणागताम् ॥ २० ॥

मन्मनश्चिन्तयेन्नित्यं वामेव राधिके प्रिये ।

करौ कुरुत एवात्र युगलसरकारसेवाम् ॥ २१ ॥

हे राधे नेत्रयुग्मं मे पश्यति त्वां पतिं तथा ।

श्यामसुन्दरमेवात्र नान्यं किञ्चित् कदाचन ॥ २२ ॥

कर्णौ शृणुत एवात्र युवयोर्महिमाकथाम् ।

जिह्वा गायति वां कीर्तिं देहो यन्त्रमिदं तयोः ॥ २३ ॥

यथेच्छथ तथा वां वै कुरुतं यन्त्ररूपके ।

देहेऽस्मिन्मम हे राधे न ममेच्छास्ति काचन ॥ २४ ॥

नाहं न मेऽस्ति किञ्चिद्वै न ममाधिकारोऽस्ति हि ।

क्रीता दासी न शक्नोति वस्तु किञ्चिद्धि धारितुम् ॥ २५ ॥

तस्मात्ते चरणाम्भोजं प्रपन्नास्मि हि राधिके ।

न गर्वो न च मे मानं पदं नास्ति हि कुत्रचित् ॥ २६ ॥

वर्णाश्रमव्यवस्थाया अधमास्मि न संशयः ।

भावैर्विचारैः कामैश्च हीना व्यक्तेः स्वरूपतः ॥ २७ ॥

ममैकः परिचयो वै तव पादरजो हि तत् ।

लग्नां तां पदतले वै क्षुद्रां पश्यस्व धूलिकाम् ॥ २८ ॥

कृपां कृत्वा नयस्वैमां श्रीकृष्णस्य पदान्तिके ।

राधिके त्वां मुहुर्याचे कोऽन्यो मां हि कृपायते ॥ २९ ॥

त्वां विना क्षुद्ररेणुं वै राधिके को दयिष्यति ।

पापिनीं क्षुद्रदासीं मां को वा राज्ञि कृपायते ॥ ३० ॥

न शक्नोमि विना पूजाम् राधारानि च किञ्चन ।

ईश्वरी स्वामिनी राज्ञी त्वमेवासि हि मे प्रिये ॥ ३१ ॥

अहं सम्पत्तिरूपा ते ह्यधीनास्मि च सर्वदा ।

अनन्तकालं सेवे त्वां राधारानि नमोऽस्तु ते ॥ ३२ ॥

सर्वसृष्टेर्मूलरूपा त्वमेवासि महेश्वरि ।

तस्माच्छ्यामस्य पादाधः क्षिप मां वै कृपामयि ॥ ३३ ॥

वद तं क्षुद्रदासीयं त्वत्कृपामभिकाङ्क्षते ।

तव श्यामस्य च कृपां याचेऽहं करुणाकरि ॥ ३४ ॥

कृपां कुरु महाराज्ञि कामं नाशय मेऽधुना ।

शुद्धां कुरु सतीं योग्यां तव श्यामस्य राधिके ॥ ३५ ॥

श्यामासुन्दरि राधान्ते त्वां भजामि मुहुर्मुहुः ।

त्वां भजामि च राधे वै कृष्णं भजामि चानिशम् ॥ ३६ ॥

कृष्णभक्त्या तु त्वां देवि भजामि च पुनः पुनः ।

अनन्तभावतो देवि भजामि त्वां महेश्वरि ॥ ३७ ॥

तस्मात्त्वं पाहि मां देवि याचेऽहं करुणाकरि ।

पदाम्बुजे प्रणौमीति प्रसीद मे प्रियेऽधुना ॥ ३८ ॥

चिन्माधुर्यमये राधे शरणं पाहि रक्ष माम् ।

कृष्णानन्दमये देवि त्वत्पादौ शरणं मम ॥ ३९.१ ॥

प्रेमानन्दमये राधे कृपया पाहि रक्ष माम् ।

श्रीकृष्णप्रेममये देवि कृपां कुरु ममोपरि ॥ ३९.२ ॥

चिन्माधुर्यमये राधे दीनं तु पाहि रक्ष माम् ।

श्यामानन्दमये देवि कटाक्षं कुरु मे शुभम् ॥ ३९.३ ॥

प्रेमानन्दमये राधे त्वां वन्दे पाहि रक्ष माम् ।

वृन्दावनमये देवि त्वत्पादौ शरणं मम ॥ ३९.४ ॥

चिन्माधुर्यमये राधे कृपया पाहि रक्ष माम् ।

श्रीकृष्णप्रेममये देवि मामुद्धर दयामयि ॥ ३९.५ ॥

हे राधे जगतामीशे महान्ते परमेश्वरि ।

तव नामप्रसादेन कृष्णपूजामहं लभे ॥ ४० ॥

तथा कृष्णस्य नाम्नैव तव पूजामहं लभे ।

अत्यन्तं वां हि प्रीणामि जगदीश्वरि राधिके ॥ ४१ ॥

तस्मात् कृपां कुरुष्वैव दीनां दासीं कृपाय माम् ।

क्षुद्रदासीं कृपयस्व त्वत्पदौ मे गतिः परा ॥ ४२ ॥

नान्यं स्थानं हि मे राज्ञि नान्यो मे शरणं प्रिये ।

अतीव क्षुद्रदासीं मां रक्षस्व नय मां सह ॥ ४३ ॥

त्वत्पादच्छायमाश्रित्य राधिके हे महाराज्ञि ।

सर्वदा त्वत्पदाब्जं वै शरणं प्रगतास्मि हि ॥ ४४ ॥

सर्वसृष्टेस्त्वमेवासि महाराज्ञी हि राधिके ।

श्रीमति राधारानि त्वं नय मां निजसन्निधौ ॥ ४५ ॥

u/Initial_Fold_420 — 6 days ago
▲ 10 r/yugala+1 crossposts

श्री अष्टसखी नित्यप्रेमतारिणी प्रथमोध्यायः - वृन्दावनभजनम् (shree tungavidya sakhi stotram )

दीनदास्यां कृपां कृत्वा सर्वदा रक्ष सन्निधौ ।

तुङ्गविद्ये महादेवि वन्दे ते चरणाम्बुजम् ॥ ५९६ ॥

ज्ञात्वा ते महिमां दिव्यां भक्त्या प्रेम्णा च गाढतः ।तुङ्गविद्ये महादेवि स्तोत्रमेतल्लिखाम्यहम् ॥ ५९७ ॥

तुङ्गविद्ये महाराज्ञि दीनदास्या वचः शृणु ।तव माहात्म्यसम्मूढा प्रणमामि पदे तव ॥ ५९८ ॥

तुङ्गविद्याध्यानामृत-नाम्ना स्तोत्रमिदं मया ।कथितं ते पदाम्भोजे सस्नेहं खलु चार्पितम् ॥ ५९९ ॥

ध्यायामीति सुवर्णकुङ्कुमरुचं श्रीतुङ्गविद्यापदं प्राणेभ्योऽपि प्रियं हि जीवनधनं सर्वस्वरूपं हि मे । त्वां देवीं श्रुतिसामगीतनिरतां विश्वप्रकाशात्मिकां विद्यानामधिदेवतां हृदि सदा ते पादपद्मं वरम् ॥ ६०० ॥

साक्षात् त्वं विमला सरस्वति महावाग्देवता लक्ष्मणा त्वत्तः श्रीसकलजगच्छ्रुतिवरं ज्ञानं हि जग्राह वै । तस्मात् ते चरणाम्बुजं हि सततं नौमि प्रपञ्चेश्वरि कामाद्यैः पतितां भवार्णवगतां मां पाहि दीनाम् इमाम् ॥ ६०१ ॥

राधाकृष्णयुगप्रिया सुमधुरा ध्यायामि ते पद्मकं कृष्णे प्रेम यदा भवेत् तदनु वै राधानुरागोदयम् । राधायाम् अनुरागतो हि भवतीप्रेम्नां प्रवर्धो भवेत् द्वारेशीं मम स्वामिनीं भुवि सदा हे तुङ्गविद्येश्वरि ॥ ६०२ ॥

हे विश्वेश्वरि सर्वज्ञाननिधिके राधास्यवागीश्वरि राधा स्तोभमयी प्रभुस्तु विदितः सामस्वरूपो मुदे । त्वं साम्नः स्वरच्छन्दमानरुचिरा केकीकुरङ्गेश्वरि श्रीराधाललिताविशाखसखिके वन्दे पदाम्भोजकम् ॥ ६०३ ॥

पापात्मिकाहं कृपणा विमूढा

न वेद्मि किञ्चित् खलु दासिका अहम् ।

कथं नु यास्ये परमां हि सिद्धिं

विना कृपां ते वृषभानुजायाः ॥ ६०४ ॥

कृपां विना वो मम का गतिर्हि

कृपां कुरुष्वाद्य महेश्वरि त्वम् ।

शिशुर्यथाहं कृपणासहाया

कथं प्रपद्येत प्रपञ्चमार्गे ॥ ६०५ ॥

कथं वदेद् वा स कथं विचिन्त्येत्

कथं स वृद्धिं लभतामनाथः ।

तस्माद् विपोष्यां शिशुरूपिणीं मां

पादे निपन्नां कुरु रक्षणं मे ॥ ६०६ ॥

पापादशेषात् परिपाहि मां द्राक्

पवित्रमूर्तीं कुरु मामथाद्य ।

हे तुङ्गविद्ये कुरु दासिकां मां

शुद्धा कथं स्यामिति मे प्रशिक्ष ॥ ६०७ ॥

कामोऽभिमानश्च तथा हि गर्वः

क्रोधस्तथा लोभविकारभावाः ।

एतैर्विमुक्ता कथमित्र भूयां

कामं कथं वा वशगं करोमि ॥ ६०८ ॥

यस्मात् पतन्तीह महामुनीन्द्राः

कामात् कथं स्यादबला विमुक्ता ।

दीना वराकी कथमेतमुग्रं

कामं जयेद् दीनबला हि दासी ॥ ६०९ ॥

क्रोधेन ग्रस्ता ऋषयो भवन्ति

कथं निरुन्ध्यामहमेव क्रोधम् ।

गर्वेण युक्ता मुनयोऽपि यत्र

कथं प्रमथ्याममुमेव गर्वम् ॥ ६१० ॥

न वेद्मि किञ्चिज्जडबुद्धिरस्मि

स्खलन्ति यद्यत्र महामुनीन्द्राः ।

का तस्य वार्ता मम मन्दबुद्धेः

प्रज्ञाविहीना सुमतिच्युतास्मि ॥ ६११ ॥

न वेद्मि किञ्चिद् भ्रमितास्मि लोके

हस्तं गृहीत्वा कुरु मे कृपां द्राक् ।

हे राधिकाकृष्णप्रियेऽनुकम्पे

कृपां विदध्या मयि दीनदास्याम् ॥ ६१२ ॥

धृत्वा करं मे निजराजहर्म्ये

प्रवेशयास्मां शुभराजहर्म्ये ।

शिक्षस्व राधाहरितोषणं मे

गोलोकधाम्ने कथमर्हता स्याम् ॥ ६१३ ॥

जेयानि चाक्षाणि मया कथं हि

गोस्वामीभावं कथमवाप्नुयां द्राक् ।

नेत्रं प्रपूतं कथमेव कुर्यां

श्रुतिस्तथा स्यात् कथमेव शुद्धा ॥ ६१४ ॥

मुखं च शुद्धं कथमेव स्यान्मे

चित्तं तथा वा कथमेव पूतम् ।

दीनास्म्यबुद्धीरहितास्मि मात:

कृपां कुरुष्वाद्य महेश्वरि त्वम् ॥ ६१५ ॥

वन्दे पदाब्जं जगदीश्वरि ते

वेदस्य विद्यामयि दिव्यरूपे ।

रक्षस्व मां दीनजनं प्रपन्नं

हे तुङ्गविद्ये कृपयाव दीनाम् ॥ ६१६ ॥

राधामहाविग्रहरूपिणि त्वं

हे तुङ्गविद्ये वरगोपिके ते ।

पादाब्जयुग्मं नवबालसूर्य-

प्रफुल्लरक्तोत्पलतुल्यकान्तिम् ॥ ६१७ ॥

कौशेयवस्त्रादपि कोमलं तत्

मृदुप्रकृत्या सुविराजते हि ।

अलक्तकेनैव हि रञ्जितानि

पार्श्वानि पादस्य तलानि तेऽद्य ॥ ६१८ ॥

पृष्ठं पदस्यातिसितं विभाति

प्रान्तेषु रक्ताभमनोहरं तत् ।

नखानि भान्तीन्दुसमानि देवि

पूर्णेन्दुखण्डानि यथैव राज्ञि ॥ ६१९ ॥

मुक्तासमानं नखकान्तिजालं

वृन्दावनश्रीप्रतिबिम्बरूपम् ।

चिन्मयधाम्नः खलु रश्मिपुञ्जं

प्रकाशते ते चरणाग्रभागे ॥ ६२० ॥

चिह्नानि चत्वारि पदे पवित्रे

वीणा झषो दक्षिणपादमध्यै ।

वामे च पद्माम्बुजशङ्खचिह्नं

विराजते ते चरणारविन्दे ॥ ६२१ ॥

चलत्यहो मञ्जुरवं करोति

सुवर्णमञ्जीरयुगं पदे ते ।

माणिक्यरत्नैर्मरकतैश्च बद्धं

नृत्यत्यहो वेपते मञ्जुनादम् ॥ ६२२ ॥

नृत्यप्रचारे सति नूपुरं ते

सप्तस्वराणां प्रकटीकरोति ।

सङ्गीतविद्याध्वनिकम्पनानि

सामश्रुतीनां खलु गानरूपम् ॥ ६२३ ॥

रासस्य लीला त्वयि पूर्तरूपा

हे विश्वराज्ञि महिमासमेते ।

हे तुङ्गविद्ये जगदीश्वरी त्वं

नमामि नित्यं चरणौ सुचारू ॥ ६२४ ॥

पादारविन्दस्य रजो लभेय

तेनैव गात्रं सुविभूषयामि ।

हे तुङ्गविद्ये परमोच्चराज्ञि

तृष्णा ममैवास्ति तदम्बुपाने ॥ ६२५ ॥

यत्तीर्थरूपं चरणाम्बुजं ते

प्रक्षालितं तज्जलमेव काङ्क्षे ।

पादाब्जरेणुः परमं हि रम्यं

ते पादपद्मामृतमद्वितीयम् ॥ ६२६ ॥

रजोऽमृतं ते चरणस्य काङ्क्षे

कृपां कुरुष्वाद्य हि वेदरूपे ।

सङ्गीतविद्यासकलप्रवीणे

राज्ञि प्रदेहि प्रचुरं प्रसादम् ॥ ६२७ ॥

प्रीतिर्हि मे त्वय्यतुलास्ति मातर्

धन्यास्मि यस्मात् तव पालनेऽहम् ।

किञ्चिन्न वेद्मि न च योग्यरूपा

कृपावशात् ते चरणाश्रितास्मि ॥ ६२८ ॥

अकिञ्चनाहं पतिता वराकी

विशालकारुण्यभरैस्त्वयाहम् ।

स्वकीयदासीपदमर्पितास्मि

तस्मात् पदे ते प्रणमामि नित्यम् ॥ ६२९ ॥

पादध्यानस्य पश्चाद् वै लज्जया नम्रिता भृशम् ।

न शक्नोमि शिरो नेतुं ऊर्ध्वं ते चरणाम्बुजात् ॥ ६३० ॥

तस्मादत्रैव सन्तुष्टा पादाब्जध्यानकर्मणि ।

तव कीर्तिं प्रगास्यामि महिमानं तवैव हि ॥ ६३१ ॥

हे राज्ञि सर्वसृष्टीनां त्रैलोक्यज्ञानपण्डिते ।

वृन्दावनकलाभिज्ञे तुङ्गविद्ये नमोऽस्तु ते ॥ ६३२ ॥

अत एव सदाकालं नमामि चरणौ तव ।

अनन्तकालपर्यन्तं पादयोस्ते रतास्म्यहम् ॥ ६३३ ॥

अतीव दुःखितास्मि हा स्वामिनि तुङ्गविद्यके ।

श्रीरूपमञ्जरीयुक्ता कुरु मां शुद्धमानसाम् ॥ ६३४ ॥

दुर्बलास्मि न शक्नोमि कर्तुं किञ्चिद् विना हि वाम् ।

कथं सेवा मया कार्या लज्जया नमिता भृशम् ॥ ६३५ ॥

वराकी दीनरूपास्मि तोषयितुं यते नित्यम् ।

हे राज्ञि देवि पवित्रे कर्तुं तुष्टां निरन्तरम् ॥ ६३६ ॥

शिक्षयस्व महादेवि इन्द्रियाणि मनो वशे ।

आत्मा च स्थाप्यते येन कृपया देहि तज्ज्ञानम् ॥ ६३७ ॥

राधाकृष्णानुरूपा हि गतिर्मे स्यात् कथं भुवि ।

आचारश्च कथं कार्यो युगलप्रीतिवर्धनः ॥ ६३८ ॥

कीदृशी ते भवेद् दासी कीदृशी चाहमस्मि वै ।

कथं गच्छे कथं जल्पे कथं वर्तेत सर्वदा ॥ ६३९ ॥

शुद्धाम् मां कुरु विश्वेशि शाधि मां कृपया स्वयम् ।

अज्ञानास्मि वराकी च मन्दबुद्धिर्ह्यकिञ्चना ॥ ६४० ॥

मद्दृशी दीनरूपा वै त्वामेवापेक्षते भृशम् ।

तस्मात् कुरु दयां मह्यं हे तुङ्गविद्ये स्वामिनि ॥ ६४१ ॥

u/Initial_Fold_420 — 6 days ago
▲ 11 r/yugala+1 crossposts

अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः ॥ (radha svaha stotrm, agnidev stotram)

तिलतैलप्रदीपेन प्रज्वालिते महेश्वरि।

अग्निदेवस्य पुरतः कृत्वा पूजां तवाम्बिके॥ ८७१.१ ॥

मम प्रार्थनाया नित्यं साक्षी भवतु पावकः।

विष्णुसहस्रनामानि पठ्यन्ते परितो मम॥ ८७१.२ ॥

नारायणः प्रभुः साक्षात् साक्षी भवतु राधिके।

तव पूजां प्रकुर्वाणां पश्यतु मां प्रिये शिवे॥ ८७१.३ ॥

अग्निदेवस्तथा सर्वं पश्यतु परमेश्वरि।

अनुमन्यस्व मां राज्ञि कर्तुं स्तुतिमिमां शुभाम्॥ ८७१.४ ॥

अग्निदेवि महाराज्ञि सर्वास्तित्वाग्निरूपिणि।

भास्करि राधिके राज्ञि साष्टाङ्गं प्रणमाम्यहम्॥ ८७१.५ ॥

सर्वाङ्गेन प्रपन्नाहं राधे ते चरणाम्बुजे।

साष्टाङ्गं प्रणमाम्यहं त्वां भजामि मुहुर्मुहुः॥ ८७१.६ ॥

ॐ कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं ॥ ८७१.७ ॥

अग्नि-देव-शक्ति स्वाहा देवि-शक्ति रं रं रं धं धं धं ॥ ८७१.८ ॥

ॐ परम् भास्कराय स्वाहा ॥ ८७१.९ ॥

ॐ परम् सत्य स्वाहा ॥ ८७१.१० ॥

ॐ परम् शक्ति स्वाहा ॥ ८७१.११ ॥

ॐ वह्नि-साराय स्वाहा ॥ ८७१.१२ ॥

ॐ सर्व-अज्ञान-दाहक-प्रकाश-वह्नये स्वाहा ॥ ८७१.१३ ॥

ॐ प्रबुद्ध-कुण्डलिनी-वह्नये स्वाहा ॥ ८७१.१४ ॥

ॐ शक्ति शक्ति शक्ति स्वाहा ॥ ८७१.१५ ॥

ॐ त्रिलोक-वह्नये स्वाहा ॥ ८७१.१६ ॥

ॐ प्रकाश-सूर्याय यज्ञ-वह्नये सर्व-विद्यमान-वह्नये च स्वाहा ॥ ८७१.१७ ॥

ॐ स्वप्रकाशा-भास्कराय स्वाहा ॥ ८७१.१८ ॥

ॐ प्रज्वलित-यज्ञ-वह्नि-स्वधायै स्वाहा ॥ ८७१.१९ ॥

रक्ष मां रक्ष मां रक्ष मां स्वाहा ॥ ८७१.२० ॥

कवचं मां कवचं मां कवचं मां स्वाहा ॥ ८७१.२१ ॥

कृपां मां कृपां मां कृपां मां स्वाहा ॥ ८७१.२२ ॥

असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मामृतं गमय स्वाहा ॥ ८७१.२३ ॥

ॐ शान्तिः शान्तिः शान्तिः स्वाहा ॥ ८७१.२४ ॥

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्॥ ८७१.२५ ॥

ॐ अग्नि-तत्त्वाय विद्महे स्वाहा-रूपायै धीमहि तन्नो राधिका प्रचोदयात् ॥ ८७१.२६ ॥

ॐ अस्य श्री-श्री-राधा-स्वाहा-परम-संवित्-स्तोत्र-महामन्त्रस्य, अग्निदेवः साक्षी, अकिञ्चना प्रेमकिङ्करी साधिका, अनुष्टुप् छन्दः, श्रीराधा देवता, ॐ कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं इति बीजम्, ह्लादिनी इति शक्तिः, श्रीराधिकैश्वर्य-परम-विद्या-प्राप्त्यर्थे परम-तत्त्वातीता-पाठे विनियोगः ॥ ८७१.२७ ॥

यज्ञ-वह्नये जयोऽस्तु पवित्र-वह्नये जयः।

यज्ञ-दूताय देवाय ह्यग्नये च जयो जयः॥ ८७१.२८ ॥

यज्ञ-हृदय-रूपायै स्वाहायै च जयो जयः।

पच्यते येन चान्नं वै हूयते येन चाहुतिः॥ ८७१.२९ ॥

रक्षामहे वयं येन रक्षा-शक्तिर्-महान् हि सः।

सत्यं तवैव शक्तिर्हि वह्नि-रूपा हि राधिके॥ ८७१.३० ॥

अतीव-निर्मलो वह्निर् न कदापि प्रदुष्यति।

स्वप्रकाशा हि स्वाहा त्वं ह्येतत् ते रूपकं प्रिये॥ ८७१.३१ ॥

वह्नेरुत्पत्ति-रूपा त्वं विना वह्निं प्रकाशताम्।

सूर्याणां विद्युतां चैव मूलरूपा त्वमेव हि॥ ८७१.३२ ॥

सर्व-रूपेण वह्निस्त्वं सर्व-भासा त्वमेव हि।

राधिका परमाराज्ञि वन्दे ते चरणाम्बुजम्॥ ८७१.३३ ॥

परमं सत्यमाख्यातं रहस्यं यत् प्रकाशितम्।

स्वाहा त्वं हि महाराज्ञि श्यामसुन्दरोऽग्निदेवः॥ ८७१.३४ ॥

अस्तित्वे परमौ ख्यातौ मूल-तत्त्वौ सुपावनौ।

तयोर्योगेन ते राज्ञि देह-वर्णो महाद्भुतः॥ ८७१.३५ ॥

सुवर्णस्य च वह्नेश्च यदा योगः प्रजायते।

अस्तित्वे सा महा-शक्तिः सर्वोपरि विराजते॥ ८७१.३६ ॥

यतो हि निर्मलो वह्निः सुवर्णं तत्त्वमुत्तमम्।

न नश्यति न जीर्णं वै नित्यं तिष्ठति शाश्वतम्॥ ८७१.३७ ॥

स्व-भारं नैव मुञ्चेत् तत् तप्त-काञ्चन-सन्निभम्।

तव गात्रं यदा पश्ये तदा जाने कृपामयि॥ ८७१.३८ ॥

सुवर्णं पावनं यद्वद् बलवद् वह्नि-पावनम्।

अस्तित्वे सर्व-यज्ञाश्च सर्व-वह्नय एव च॥ ८७१.३९ ॥

तव पत्युश्च कान्हस्य तुभ्यमेव समर्पिताः।

वह्नि-शक्त्या च जीवान् वै त्वमेव पोषयस्यहो॥ ८७१.४० ॥

आग्नेयी-स्वामिनी स्वाहा दाहिका-शक्तिरेव च।

नाम्नि ते 'रं' महाराज्ञि वह्नि-बीजं सुसंस्थितम्॥ ८७१.४१ ॥

यतो हि पावनी वह्नि-मूला त्वं परमेश्वरि।

सच्चिदानन्द-रूपं ते विग्रहं दिव्यरूपकम्॥ ८७१.४२ ॥

न पञ्च-भूत-सम्भूतं भौतिको वह्निरप्यहो।

तव शक्तेरंश-रूपः सर्वास्तित्वेश्वरी हि त्वम्॥ ८७१.४३ ॥

पवित्र-वह्नि-रूपा त्वं वह्नि-स्रष्ट्री त्वमेव च।

अग्नि-देवो हि देवाश्च तुभ्यं नम्रन्ति सर्वदा॥ ८७१.४४ ॥

महाराधिके ते पादे महिमा ते सुविस्तृतः।

विवाहे साक्षि-रूपोऽग्निः सर्व-वह्नि-स्वरास्तथा॥ ८७१.४५ ॥

सूर्यस्त्वं च तपस्त्वं हि विरहाग्निस्त्वमेव च।

विनाश-शक्ति-रूपा त्वं भस्मी-कर्तुं क्षमा जगत्॥ ८७१.४६ ॥

कोटि-सूर्य-प्रतीकाशा तव शक्तिर्-महेश्वरि।

विश्वे त्वमेव सा शक्तिः शोधने या हि सक्षमा॥ ८७१.४७ ॥

तस्माद् याचे महाराज्ञि दास्याः पापं दहस्व मे।

सर्वा भौतिक-वाञ्छाश्च दास्या हृदि दहस्व वै॥ ८७१.४८ ॥

पवित्रे वह्नि-देवि त्वं वह्नि-मूलं च हृद्-गते।

सर्व-सृष्टेर्-विधात्रि त्वां वन्दे ते चरणाम्बुजम्॥ ८७१.४९ ॥

अन्न-पाचन-वह्निस्त्वं ऊर्जां यः परिवर्तयेत्।

मणिपूरक-चक्रस्य महा-वह्नि-प्रदायिनी॥ ८७१.५० ॥

कुण्डलिनी-स्वरूपा त्वं साधकं भस्म-कारिणी।

देह-त्यागं प्रकुर्वाणा यज्ञ-कर्त्री त्वमेव हि॥ ८७१.५१ ॥

यज्ञ-रूपा तथा राज्ञि यज्ञ-भोक्त्री त्वमेव च।

स्वाहा त्वं हि त्वया हीनो वह्निर्भस्म भवेत् स्वयम्॥ ८७१.५२ ॥

अग्नि-देवस्य शक्तिस्त्वं यस्त्वां प्राप्तुं हि वाञ्छति।

अग्नि-देवेन स त्वां वै सम्पर्केत् स न संशयः॥ ८७१.५३ ॥

अस्माकं सर्व-सन्देशान् स एव हि वहाति वै।

तुभ्यं नयति हे राधे तस्मात् त्वां हि नमाम्यहम्॥ ८७१.५४ ॥

ललिता-देवि-रूपा त्वं महा-राज्ञि नमोऽस्तु ते।

पाद्म-पुराणे पाताले खण्डे वृन्दावनस्य च॥ ८७१.५५ ॥

माहात्म्ये सप्तपञ्चाशद्-अध्याये श्लोकयोस्तथा।

चतुःपञ्चचत्वारिंशे दृष्ट्वाश्चर्यं गतास्म्यहम्॥ ८७१.५६ ॥

श्रीराधिकोवाच।

अहं च ललितादेवी राधिकेति च गीयते ।

अहं च वासुदेवाख्यो नित्यं कामकलात्मकः ॥

॥ श्रीराधाचरणरेणुरुवाच ॥

आज्ञां देहि महाराज्ञि पूजये त्वां जगन्मयि।

ललिता-परमेशी त्वं कृष्ण-रूपा नमोऽस्तु ते॥ ८७१.५९ ॥

त्रिपुर-सुन्दरि पादे साष्टाङ्गं प्रणमाम्यहम्।

यज्ञ-कुण्ड-समुद्भूते चिदग्नि-रूपिणि प्रिये॥ ८७१.६० ॥

चिद्-रूपा-कारिणी स्वाहा त्वत्तः संवित् प्रजायते।

महाविद्या-स्वरूपा त्वं सर्वास्तित्वाग्नि-रूपिणी॥ ८७१.६१ ॥

ब्रह्माण्ड-रूपिणी त्वं वै हिरण्य-गर्भरूपिणी।

त्रि-लोक-सुन्दरी त्वं च महाविद्या-तृतीयाका॥ ८७१.६२ ॥

प्रभोः शिवस्य नाभेस्त्वं समुद्भूता महेश्वरि।

कान्हजी शङ्करः साक्षात् पार्वती त्वं न संशयः॥ ८७१.६३ ॥

कृष्णः शिवः शिवः कृष्णः पार्वती त्वं त्वमेव सा।

दश-महा-विद्या-रूपा तस्मात् त्वं परमेश्वरि॥ ८७१.६४ ॥

नागिनी नाग-राज्ञी त्वं पाताले भू-तले तथा।

सत्य-लोके वैकुण्ठे च शासिका त्वं हि राधिके॥ ८७१.६५ ॥

महादेव-नाभि-जाता त्रिपुर-सुन्दरी प्रिये।

षोडश-सङ्ख्य-रूपा त्वं माता षोडशी सुन्दरी॥ ८७१.६६ ॥

क्लीं क्लिन्ने-बीज-रूपा त्वं महाविद्या नमोऽस्तु ते।

आज्ञां देहि महाराज्ञि ते पादे प्रणमाम्यहम्॥ ८७१.६७ ॥

u/Initial_Fold_420 — 9 days ago
▲ 3 r/yugala

श्री अष्टसखी नित्यप्रेमतारिणी प्रथमोध्यायः - वृन्दावनभजनम्( vraj dham chalisa , radhe radhe!)

॥ श्री ब्रजधाम चालीसा ॥

॥ दोहा ॥

अति अनुराग अगाध हिय दीन भाव धरि माथ ।

बन्दौं ब्रज की रेनु जहँ रमे राधिका नाथ ॥ १ ॥

अष्ट सखी मञ्जरीन की पद पंकज की धूरि ।

ब्रजवासी सब जनन की चरन रेनु सिर पूरि ॥ २ ॥

रास विलासनि हेतु जग प्रगट भई यह भूमि ।

श्री राधा हरि प्रान प्रिय गाऊँ महिमा झूमि ॥ ३ ॥

हे ब्रजवासी जन सकल तुम सों अति अनुराग ।

मो अरजी हरि राधिका कहियो उदै होय भाग ॥ ४ ॥

कृपा कटाक्ष जुगल करैं मो पर अति सुकुमारि ।

बड़भागी पाऊँ दया चरन कमल बलिहारि ॥ ५ ॥

॥ चौपाई ॥

जय जय भूमि ज्ञान विज्ञाना । भक्ती प्रेम भाव की खाना ॥

परमानन्द अगाध अपारा । ह्लादिनी शक्ति अहेतुक प्यारा ॥ १ ॥

जहाँ किशोरी जू पद धारे । कान्हा सँग विहरत अनुहारे ॥

श्री कृष्ण निज जोति प्रकासी । लीला अङ्ग सकल ब्रजवासी ॥ २ ॥

धन्य धन्य गोपी ब्रज बासी । तुमहिं प्रान ब्रज धाम हुलासी ॥

सब के चरन कमल सिर नाऊँ । मैं दासी अति दीन कहाऊँ ॥ ३ ॥

मैं राधे रानी पद रेनू । महिमा लखत अहे मेरे नैनू ॥

हे ब्रजवासी करहु सहायी । ठकुरानी सों कहहु बुझायी ॥ ४ ॥

मो पर कृपा करहिं ठकुरानी । मैं दासी अति दीन निमानी ॥

हे ब्रज जन मोहि लेहु उबारी । राखहु लाज सरन मैं हारी ॥ ५ ॥

एक दिवस अस आयै मोरे । सूँघौं रेनु सु सीस निहोरे ॥

प्रेम भाव भरि रजु चुमकाऊँ । ब्रज जन की मैं टहल कमाऊँ ॥ ६ ॥

वृषभानु सुता राधिका रानी । महल जहाँ सोहत सुखखानी ॥

श्री कृष्ण भवन औ अष्ट सखी के । मन्दिर राजत अति ही नीके ॥ ७ ॥

द्रुम तरु रास लीला साखी । राधा कृष्ण प्रेम जिन चाखी ॥

मार्यो जहाँ अघासुर भारी । बाल श्री कृष्ण बकासुर मारी ॥ ८ ॥

प्रिय श्री कृष्ण गोवर्धन धारे । गर्व इन्द्र को चूर सुधारे ॥

ब्रह्मा जू को मद हरि लीन्हा । निज प्रभुता को दरशन दीन्हा ॥ ९ ॥

गोपी रुदन विरह अति भारी । मधुकर सों राधिका पुकारी ॥

अग्नि विरह जरि भईं अधीरा । बन्दौं ब्रज रज मेटन पीरा ॥ १० ॥

तेहि कारन ब्रज रेनुहिं माई । बन्दौं निसि दिन प्रीति सवाई ॥

दासी की यह अरजी लीजै । निज चरनन महँ बासा दीजै ॥ ११ ॥

जानौं नहिं कहुँ जनम पुरानू । एक जिए कि सहस प्रमानू ॥

अन्तिम गति ब्रजधाम हमारी । ब्रज ते गोलोक धाम उजियारी ॥ १२ ॥

ब्रज जन औ ब्रज रेनु प्रतापा । मेटहु रेनु दासि बहु तापा ॥

राधा कृष्ण दरस अति प्यासी । मोहि पर कृपा करहु ब्रजबासी ॥ १३ ॥

का मोहिं सुख अधिकार न भाई । ब्रज जन सुखी देखि सुख पाई ॥

तुमरो सुख मेरे धन प्रानू । नित प्रसन्न देखौं कल्यानू ॥ १४ ॥

तुम सब लायक प्रेम अपारा । पञ्च वेद गावैं जसु भारा ॥

दीन जीव पर करुना ठानी । उतरेउ ब्रज गोलोक ते आनी ॥ १५ ॥

जय कालिन्दी परम पुनीता । का ब्रज महँ मोहिं ठौर न दीता ॥

तुङ्गविद्या स्वामिनि सों कहियो । गहि कर मोहिं राधा पद लहियो ॥ १६ ॥

अवर कौन मो पर किरपावै । ब्रज जन मोहिं सरन अपनावै ॥

करहु कृपा यह दासि निमानी । टहल करन की आस हिय ठानी ॥ १७ ॥

विरह अगिन मोहिं जारत भारी । दरस पियास हिये अति न्यारी ॥

मथुरा वृन्दावन अरु जमुना । ब्रह्मगिरि जोहौं दुख दमना ॥ १८ ॥

महरानी राधिका अवासू । राधा कुण्ड दरस की आसू ॥

राधा कुण्ड जमुन जल न्हाऊँ । अग्या दीजै सीस नवाऊँ ॥ १९ ॥

यह मोहिं अति हिय आस समाई । सब ब्रजवासी स्वामि सुहाई ॥

मैं दासी सब के पद बन्दौं । कृपा करहु दुख दारुन खण्डौं ॥ २० ॥

भाण्डीरवन महँ प्रथम बिआहू । राधा कृष्ण किहेउ उच्छाहू ॥

निधिवन महँ दोउ सक्ति बिराजै । अहो ब्रज भूमि अति छवि छाजै ॥ २१ ॥

ब्रज जन सब मिलि करहु रखवारी । मोहिं अनाथ पर होहु सुखारी ॥

मैं दासी अति मूरख छोटी । जानौं नाहिं सुकृत औ खोटी ॥ २२ ॥

कसि प्रसन्न करौं मैं तुमही । करहु कृपा समुझावहु मोही ॥

मैं दासी असहाय निमानी । करहु दया सब ब्रज के प्रानी ॥ २३ ॥

श्री कृष्ण दूत ऊधव अति ज्ञानी । ब्रज तृन जनम आस उर ठानी ॥

ब्रह्मा शिव नारद मुनि नाथा । व्यासदेव ब्रज नावहिं माथा ॥ २४ ॥

यह ब्रज भूमि गोलोक ते आई । हम पर दया हेत प्रगटाई ॥

ब्रज रज पोषित जे द्रुम बेली । ते अति पावन प्रेम सहेली ॥ २५ ॥

पशु खग नर जो ब्रज महँ जीवे । प्रेम भाव ब्रज रज जल पीवे ॥

ते अति पावन रूप कहावैं । ब्रज महिमा को पार न पावैं ॥ २६ ॥

दूरि देस महँ रहत दुखारी । तुमरी कृपा आस मोहिं भारी ॥

गहि कर ठकुरानी मोहिं लावै । निज ब्रजधाम बास मोहिं पावै ॥ २७ ॥

ब्रजवासी पद छाहिं लुकाऊँ । तुम परिवार प्रान प्रिय पाऊँ ॥

तुमरे सुख महँ सुख मैं मानौं । तुम तजि अवर न अपनौ जानौं ॥ २८ ॥

महरानी राधिका के चरना । राखहु मोहिं देहु निज सरना ॥

जगत स्वामिनी जो किरपावै । कटाक्ष दरस यह दासी पावै ॥ २९ ॥

जौ नहिं कृपा करैं ब्रज रानी । अवर कौन राखै यह प्रानी ॥

ब्रजवासी मोहिं लेहु उबारी । राधिका सरन यह दासी हारी ॥ ३० ॥

काह कहौं अति लाज लजानी । रोवति जल भरि नैन निमानी ॥

मैं दासी अति अज्ञ अयानी । कछु नहिं समुझत मूरख प्रानी ॥ ३१ ॥

तुमरी टहल करौं केहि भाँती । जुगल सरकार सेव दिन राती ॥

अष्ट सखी औ अष्ट मञ्जरी । केहि बिधि सेवा करै किङ्करी ॥ ३२ ॥

कसि प्रसन्न मैं करौं सबाहीं । भटकी किङ्करी सूझत नाहीं ॥

मोहिं सिखावहु सेवा रीती । जुगल सरकार भजौं सहुँ प्रीती ॥ ३३ ॥

ब्रह्माण्डहु के भेद न चाहौं । महा ग्यान नहिं मन महँ गाहौं ॥

अति अगम्य यह मोहिं न भावै । छोटि दासि बस टहल कमावै ॥ ३४ ॥

ताते ब्रज जन मोहिं सिखावहु । यहि दासी पर दया कमावहु ॥

श्री राधारानी सों कहि दीजै । कृपा कटाक्ष दासि पर कीजै ॥ ३५ ॥

राधा कृष्ण भजौं चित लाई । ब्रज भूमि सेवा करौं सदाई ॥

जुगल चरन महँ प्रीति अपारा । ब्रज रज टहल करौं निरधारा ॥ ३६ ॥

श्री तुङ्गविद्या बस यह दासी । श्री राधारानी अग्या बासी ॥

मोहिं सौंपि तिनकी सेवकाई । मैं किङ्करी परम निधि पाई ॥ ३७ ॥

तुङ्गविद्या सखी स्वामिनि मोरी । तिनके अधीन रहत कर जोरी ॥

रूपा मञ्जरी की अनुगामी । दोउ सिरताज हमारि सुवामी ॥ ३८ ॥

तुङ्गविद्या अरु जुगल सरकारा । अष्ट सखी ब्रज भूमि उदारा ॥

जनम जनम इनकी टहल कमाऊँ । आन काज मन महँ नहिं लाऊँ ॥ ३९ ॥

प्रभु श्री कृष्णहिं ज्यों अनुसारी । राधा रटत सेवौं तेहि भारी ॥

'रा' सुनि मोद हिये अति छावै । 'धा' सुनि पूर्ण बन्दि बनि जावै ॥ ४० ॥

॥ दोहा ॥

बन्दौं राधा कृष्ण पद, तुङ्गविद्या पद नाय ।

अष्ट सखी पद कमल महँ, यह दासी बलि जाय ॥ १ ॥

जुगल प्रेम हिय महँ बसै, प्रगटै कमल अनूप ।

पुनि सो तरुवर प्रेम को, धरै दिव्य निज रूप ॥ २ ॥

फलै कल्पतरु मनि सरिस, पूरन सब की आस ।

सब सुख पावैं जगत महँ, सुखी रहैं ब्रजवास ॥ ३ ॥

मोरि न कछु निज कामना, सुनहु सुजान उदार ।

सुखी रहैं ब्रज जन सदा, सुखी जुगल सरकार ॥ ४ ॥

सब सों मेरो प्रेम अति, मैं दासी सिरनाय ।

ब्रजवासी सब के चरन, कोटिक बन्दन भाय ॥ ५ ॥

व्रजधाम्नो महिम्नार्थं चालीसा रचिता मया ।

तुङ्गविद्ये महादेवि वन्दे ते चरणाम्बुजम् ॥ ५९० ॥

दीना दासी पदाम्भोजे किङ्करी केवलास्म्यहम् ।

श्रीराधाचरणस्याहं क्षुद्रा रेणुः प्रकीर्तिता ॥ ५९१ ॥

मां गृहीत्वा करेणैव कृपामस्मिन् कुरुष्व मे ।

राधाकृष्णौ तथा त्वां च कथं सेवेय शिक्षय ॥ ५९२ ॥

किं मया चरणीयं वै तत् सर्वं वद मे सखि ।

कामक्रोधादिदोषेभ्यो मोचयस्व कृपामयि ॥ ५९३ ॥

दण्डयस्व च मां मातः पवित्रां कुरु सर्वदा ।

श्रीराधाकृष्णयोर्नित्यं तव पादाम्बुजे तथा ॥ ५९४ ॥

दासीभावाय योग्यां मां कुरुष्व करुणां मयि ।

मोचयित्वा प्रपञ्चान्मां स्वसमीपं नयस्व माम् ॥ ५९५ ॥

u/Initial_Fold_420 — 10 days ago
▲ 16 r/yugala+1 crossposts

अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः ॥ (Saranagati Stuti, raka{purna chandra }, ga kara, bindu)

​

साष्टाङ्गं प्रणमाम्यहं राधे रानी नमोऽस्तु ते॥ ८२८ ॥

देवि वक्तुं पुरा वाञ्छे पाद-मूले निपातनम्।

ज्ञानाद् वृद्धिं गताद् राज्ञि क्षुद्रा क्षुद्रा भवाम्यहम्॥ ८२९ ॥

स्व-पार्श्वे मां गृहाणाशु याचे राधे मुहुर्मुहुः।

याचे त्वां राज्ञि याचे त्वां याचे त्वां याचे त्वां पुनः॥ ८३० ॥

याचामि त्वां पदौ ते वै याचे राधे मुहुर्मुहुः।

निज-सम्पत्ति-वन्-माञ्च स्वीकर्तुं नय तेऽन्तिकम्॥ ८३१ ॥

याचे त्वां राज्ञि याचे त्वां नत-शीर्षा कृताञ्जलिः।

साष्टाङ्गं प्रणिपातेन याचे त्वां सर्व-भावतः॥ ८३२ ॥

याचामि च पुनः राज्ञि याचामि च मुहुर्मुहुः।

सर्वाङ्गेन प्रपन्नाहं पाद-पद्मे नमाम्यहम्॥ ८३३ ॥

याचामि त्वां प्रिये राधे याचामि त्वां मुहुर्मुहुः।

श्री-रूप-मञ्जरी-पादे याचामि तां कृपां प्रति॥ ८३४ ॥

त्वया सह कथां कृत्वा कृपां याचतु मे सखी।

कृपा-दृष्ट्या वलोकय भीतास्मि राधिके शिवे॥ ८३५ ॥

क्षुद्राणु-रूपिणी ह्यत्र ब्रह्माण्डे ह्यस्म्यहं प्रिये।

नाहं गुरुर्महामातः क्षुद्रदासी त्वदाश्रिता॥ ८३६ ॥

उत्कण्ठितास्मि ते राज्ञि भयंकरमिदं जगत्।

सोढुं नैव च शक्नोमि नय मां निज-पार्श्वके॥ ८३७ ॥

मायान्धं लोकमालोक्य खिन्नास्मि तेषु जीवेषु।

नायं लोको ममाश्रयो नय मां निज-मन्दिरे॥ ८३८ ॥

शान्तिं विन्दामि ते पार्श्वे हास्यं ते द्रष्टुमुत्सहे।

स्मितं ते राधिके राज्ञि द्रष्टुमिच्छामि सर्वदा॥ ८३९ ॥

कान्हस्य परमानन्दं तदर्थं वेणु-वादनम्।

स त्वां त्वं च तमेवेशं सेवते यत् परं सुखम्॥ ८४० ॥

अष्टसख्यो रता लीलां मोदन्ते वां सुखे प्रिये।

मञ्जर्यो मोदमापन्ना गावो वृक्षा मृगाः शुकाः॥ ८४१ ॥

मयूराश्च प्रहृष्यन्ति श्याम-सुन्दर-सङ्गमात्।

पुष्प-वृक्षादि-गन्धाढ्या वृष्टिर्भवति सर्वदा॥ ८४२ ॥

रूपमञ्जरि-पृष्ठेऽहं उपविश्यातिलज्जिता।

पश्यन्ती वां रुदाम्येव तदा कृपां करिष्यसि॥ ८४३ ॥

तस्याः कृपाप्रभावाद् वै मयि तुष्टा भविष्यसि।

यतो हि तस्याः कारुण्यं त्वत्त एव प्रसूयते॥ ८४४ ॥

धन्यवादाः प्रिये मातः मयि स्निग्धाः कृपामयाः।

क्षुद्राणुमपि मां नित्यं न किञ्चिद् याचे वां राज्ञि॥ ८४५ ॥

तथापि कुरुथः कृपां युवयोः प्रेम-वात्सल्यैः।

वेष्टितास्मि न संशयः तेनाहं परमां शान्तिम्॥ ८४६ ॥

सुखं विन्दामि नित्यदा रोदिम्यहं महाराज्ञि।

विश्वस्य जटिलत्वतो युवयोर्योगसम्भवम्॥ ८४७ ॥

तथापि कोमलौ युवां लज्जां प्राप्नोमि देवेशि।

रूपमञ्जरि-देव्यै च धन्यवादाः समर्पिताः॥ ८४८ ॥

विशाखा-ललिता-सख्यौ सुदेवीं सा ह्यदर्शयत्।

पार्वती-शिवयोर्नित्यं मयि स्निग्धौ कृपामयौ॥ ८४९ ॥

सर्वदा रक्षणायैव सर्वेषां पादपद्मेषु।

सर्वाङ्गेन प्रपन्नाहं वन्दे युष्मान् मुहुर्मुहुः॥ ८५० ॥

राका वां परमं योगं राधाकृष्ण-समागमः।

पूर्णचन्द्रं प्रसूते वै राधिके परमेश्वरि॥ ८५१ ॥

त्वया मे दर्शितं राज्ञि रहस्यं परमं शिवे।

कृष्णोऽन्धकार-पक्षे वै ह्यर्ध-चन्द्रे प्रकाशितः॥ ८५२ ॥

शुक्ल-पक्षे तथा राज्ञि प्रकटीकृता राधिके।

शताशीत्यंश-कोणेन सम्मुखौ संस्थितौ युवाम्॥ ८५३ ॥

पूर्णचन्द्र-स्वरूपेण मिलितौ परमेश्वरि।

तस्मात् पूर्णः शशी राज्ञि राकेति परिगीयते॥ ८५४ ॥

युवयोर्मिलनं साक्षात् पवित्रं तत् प्रकीर्तितम्।

अग्नि-देवी त्वमेवासि दाहिका त्वं महेश्वरि॥ ८५५ ॥

पवित्र-वह्नि-हृदयं यज्ञ-रूपा नमोऽस्तु ते।

यज्ञ-वह्नि-स्वरूपिणि राके ते चरणाम्बुजे॥ ८५६ ॥

पवित्र-पाद-पद्मेषु साष्टाङ्गं प्रणमाम्यहम्।

राके ते चरणाम्भोजे साष्टाङ्गं प्रणमाम्यहम्॥ ८५७ ॥

गकारस्तृतीयो वह्निः गं-बीज-मन्त्र-रूपकः।

प्रवाहो निर्देशितश्च गकारः कध्रुवो मतः॥ ८५८ ॥

राधा-धाराधार-तत्त्वं पुनरेव स्मराम्यहम्।

नारायणेन पत्या ते महालक्ष्मि परा गतिः॥ ८५९ ॥

सृष्टेर्मोक्षस्य यात्रान्ते जीवानां लक्ष्यमुत्तमम्।

गकारो धातु-रूपो हि प्रवाहस्य महाराज्ञि॥ ८६० ॥

तरला शक्तिरूपा त्वं प्राचुर्यस्य सुशोभना।

सृष्टेः कारुण्य-दीप्त्योश्च सर्व-सत्ता-स्वरूपिणी॥ ८६१ ॥

विश्वं सर्वं परिप्लावन् पूरयन्ती स्व-तेजसा।

त्वं गीता त्वं च गोपालो गोविन्दो गुप्तरूपिणी॥ ८६२ ॥

विघ्न-नाश-प्रवाहा त्वं तस्मात् पतिर्-महेश्वरि।

पार्वती-सुत-रूप-धृक् श्री-गणेशो महा-प्रभुः॥ ८६३ ॥

कण्ठादुच्चारणं तस्य स्पन्दनं जनयेत् प्रिये।

प्राणमार्गं विशोध्यैव कान्हजी-परब्रह्मणि॥ ८६४ ॥

योजयेन्नो महाराज्ञि गकारेण तदोर्ध्वग- ।

बिन्दुना निर्मितं ह्येतद् अक्षरं परमेश्वरि॥ ८६५ ॥

गकारः शब्द-रूपो हि चालिका शक्तिर्-उत्तमा।

पवित्र-चेतना साक्षाद् आकाशाद् बहिर्-आगता॥ ८६६ ॥

सृष्टि-निर्माण-कार्याय बिन्दुः सङ्कुचिता कला।

आयामाभाव-रूपो हि घनीभावमनुत्तमम्॥ ८६७ ॥

शक्ति-पुञ्जः सनातनः प्राग्-विकासाद् रहस्यवान्।

उभयोर् योगतो राज्ञि चेतनाया गतिश्च या॥ ८६८ ॥

अनन्त-बिन्दुतो यान्ती तत्रैव प्रत्यावर्तिनी।

युगपत् प्रतिभाति सा तस्मात् ते पाद-पद्मेषु॥ ८६९ ॥

महालक्ष्मि नमाम्यहम् साष्टाङ्गं प्रणिपातेन।

पवित्र-पाद-पद्मेषु महालक्ष्मि नमोऽस्तु ते॥ ८७० ॥

u/Initial_Fold_420 — 12 days ago
▲ 11 r/yugala+1 crossposts

अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः ॥ 743-872 (radha krishna tatva)

743-827***

तप्तकाञ्चनगौराङ्गी यथा त्वं हि महेश्वरि।

तथा स श्यामसुन्दरः सोऽनन्तवर्ण उच्यते॥ ७४३ ॥

त्वमनन्तातीतातीता-

तीतातीतातीतातीता ।

तीतातीतासि राधिके-

श्यामकान्ते नमोऽस्तु ते ॥ ७४४ ॥

सोऽप्यनन्तातीतातीता-

तीतातीतातीतातीता ।

तीतातीतः स एव हि-

विस्मयो मे महान् प्रिये ॥ ७४५ ॥

अनन्तमप्यनन्तैर्हि लङ्घयन्तौ सनातनौ।

तस्मात् ते पादपद्मेषु साष्टाङ्गं प्रणमाम्यहम्॥ ७४६ ॥

कृष्णनाम यदा पश्ये तत्र वां सङ्गमः प्रिये।

ऋकारश्चन्द्ररूपोऽपि सर्वराकाररूपिणी॥ ७४७ ॥

तस्मात् कृष्णेऽपि विद्यसे विस्मयो मे महान् प्रिये।

कम्पामि लज्जितास्मीह बिभेमि त्वां भजामि च॥ ७४८ ॥

अत्यन्तं कामये राधे आलिङ्गितुं हि वां मुदा।

त्वां चैव श्यामसुन्दरं कियत् सुन्दरमद्भुतम्॥ ७४९ ॥

पत्युर्नाम्नि षकारो यः सोऽविभाज्यस्त्वया सह।

महालक्ष्मि त्वमेवासि कान्हस्त्वयि सुसंस्थितः॥ ७५० ॥

सौरवर्णावलौ ह्यन्त्यः षकारः सूर्यसन्निभः।

प्रकाशो वै प्रवेधी च मायापटलभेदकः॥ ७५१ ॥

णकारो वह्निवर्गस्य परिवर्तनरूपकः।

अहङ्कारं च मर्त्यानां द्रावको भस्मकारकः॥ ७५२ ॥

कर्मणां दहनः साक्षाद् एष वर्णो महेश्वरि।

वां योगेन हि राधे वै कृष्णनामोद्भवः स्मृतः॥ ७५३ ॥

त्वमेव तस्य सारो हि शक्तिस्तस्य त्वमेव हि।

रामनाम्नि यथा राधे ह्यग्निस्त्वं प्रकटीकृता॥ ७५४ ॥

कृष्णनाम्नि तथा राज्ञि चन्द्ररूपासि संस्थिता।

मौनरूपासि शान्तासि त्वमाधारस्वरूपिणी॥ ७५५ ॥

राधाधराधारतत्त्वं यथा प्रोक्तं मया पुरा।

अत्र कृष्णधराधार-तत्त्वं राजति सुन्दरि॥ ७५६ ॥

यथाधारो हरिस्तत्र त्वं प्रवाहमयी शिवे।

तथाधारस्त्वमेवासि कृष्णस्त्वयि प्रगच्छति॥ ७५७ ॥

एवं राधा च कृष्णश्च स्रवतोऽन्योन्यमण्डले।

अनन्तातीतरूपेण प्रवाहः शाश्वतः प्रिये॥ ७५८ ॥

कृष्-धातुर्-आकर्षणे वै णकारो ह्लाद उच्यते।

परमानन्दरूपो हि कृष्णो मोहयते मनः॥ ७५९ ॥

यद्यप्यसौ जगन्नाथः सर्वचित्तापहारकः।

तथापि मोहमोहा त्वं असि मदनमोहन- ॥ ७६० ॥

-मोहिनीति महाराज्ञि ते पादे प्रणमाम्यहम्।

अतस्त्वां भजते नित्यं सर्वदा राधिके प्रिये॥ ७६१ ॥

खकारो हि महाराज्ञि परं व्योम प्रकीर्तितम्।

अत्र छान्दोग्य-मन्त्रं वै स्मरामि परमेश्वरि॥ ७६२ ॥

छान्दोग्योपनिषदि चतुर्थप्रपाठके दशमखण्डे पञ्चमः मन्त्रः॥ ७६३ ॥

स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥

उपकोसल उवाच प्राणो ब्रह्मेति वेद्म्यहम्।

कं च खं च न जानामि किमेतदिति राधिके॥ ७६५ ॥

पवित्र-वह्नयः प्राहुर् यद् वै कमिति कीर्तितम्।

तदेव खमिति ज्ञेयं यत् खं तत् कमिति स्मृतम्॥ ७६६ ॥

पश्चात् ते बोधयामासुः प्राणमाकाशमेव च।

ब्रह्मरूपेण तौ साक्षात् परं चैतन्यमेव हि॥ ७६७ ॥

विस्मितास्मि महाराज्ञि ककारो नात्र कामुकः।

लौकिको न हि कामोऽयं परमानन्दरूपकः॥ ७६८ ॥

युवभ्यां प्रभवत्येव खकारो व्योमरूपकः।

खं वै ब्रह्माण्ड-रूपं च ह्यनन्ताकाशमेव च॥ ७६९ ॥

कं च सा परमानन्दा ह्लादिनी-शक्तिरेव च।

त्वमेवासि महाराज्ञि ह्लादिनी-शक्ति-रूपिणी॥ ७७० ॥

तस्मात् कृष्णस्य नाम्नि त्वं ककारोऽसि न संशयः।

स च राकार-रूपो हि ह्येकं वां तत्त्वमुत्तमम्॥ ७७१ ॥

अचिन्त्य-भेदाभेदेन विस्मितास्मि कृपामयि।

अविभाज्यौ युवां नित्यं दुग्ध-श्वेत-गुणौ यथा॥ ७७२ ॥

खकारोऽधार-रूपो वै त्वं ककारो हि धारिका।

राधा-धाराधार-तत्त्वम् एवमत्र प्रपद्यते॥ ७७३ ॥

खकारे प्रवहज्ज्योतिः ककारस्त्वं प्रकीर्तिता।

यतः खं पात्र-रूपं वै ककार-ग्राहको हि सः॥ ७७४ ॥

आकाश-वर्ग-मध्ये वै खकारो हि द्वितीयकः।

तस्य वह्निर्महाराज्ञि दुःख-दाहन-कारकः॥ ७७५ ॥

माया-क्लेश-विनाशाय ह्यज्ञान-भस्म-कारणे।

प्रकृतेस्त्रिगुणान् भित्त्वा पारं नयति देहिनम्॥ ७७६ ॥

खकार-पवित्रत्वाय राधा-पादे नमाम्यहम्।

साष्टाङ्गं ते पदाम्भोजे प्रणमामि मुहुर्मुहुः॥ ७७७ ॥

अतीव रुदिमि राधे कम्पामि भयहर्षतः।

दृष्ट्वा ते महिमानं वै कान्हस्य च महाप्रभोः॥ ७७८ ॥

क्षमास्व मे महाराज्ञि प्राचीनपापसञ्चयम्।

अपराधं कृतं यद्वै त्वयि कृष्णे कृपामयि॥ ७७९ ॥

तव सृष्टौ च जीवेषु यत्किञ्चिदपराधितम्।

तत्सर्वं मे क्षमास्वाद्य करुणामयि राधिके॥ ७८० ॥

करुणां कुरु मे राधे मोचयस्व भवार्णवात्।

करुणामयि ते पादे पूर्णकारुण्यरूपिणि॥ ७८१ ॥

अतीते यत्कृतं पापं तदर्थं शोचते मनः।

अज्ञानतमसाच्छन्ना मग्नाहं दोषसागरे॥ ७८२ ॥

त्वयैव मोचिताहं वै त्वयैव पाविनी कृता।

तव कृपाप्रभावेण शुद्धास्मि परमेश्वरि॥ ७८३ ॥

अतः क्रन्दामि ते पादे कुरु राज्ञि दयां मयि।

प्रणमामि पदे नित्यं याचामि त्वां कृपामयीम्॥ ७८४ ॥

रूपमञ्जरि-पादेषु सत्यभामे पदाम्बुजे।

कालिन्दि-सखि ते पादे क्रन्दामि शरणागता॥ ७८५ ॥

महान्त्यः सख्यो राज्ञ्यो मे युष्मान् याचे कृपामयीः।

श्यामसुन्दरदेवेन गीतायां यदुदीरितम्॥ ७८६ ॥

अष्टादशे ह्यध्याये वै मन्त्रे षट्षष्टिसंज्ञके।

साक्षात् पतिर्बभाषे ते कृपया कान्ह एव हि॥ ७८७ ॥

श्रीभगवानुवाच

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।

अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा श‍ुच: ॥

॥ श्रीराधाचरणरेणुरुवाच॥

तेनोक्तं पापमुक्तत्वं पादपद्माश्रये सति।

लज्जितास्मि महादेवि युवाभ्यां सम्मुखे भृशम्॥ ७८९ ॥

बिभेमि पूर्वपापैर्मे भवेद्वां दूरता यदि।

न सोढुं शक्यते सत्ता युवाभ्यां हि विना शिवे॥ ७९० ॥

वाञ्छामि केवलं राज्ञि युवाभ्यां चरणाम्बुजे।

साष्टाङ्गं प्रणतिं दास्यं त्वत्सेवां राधिके प्रिये॥ ७९१ ॥

नाहं पूर्णा महाराज्ञि साधनेयं त्वदाश्रिता।

तव कृपा हि मूलं वै रुक्मिणि श्रीमति प्रिये॥ ७९२ ॥

तस्मात् कुरु कृपां राज्ञि कृपामयि नमोऽस्तु ते।

करुणामयि राधे त्वं त्राहि मां परमेश्वरि॥ ७९३ ॥

आश्चर्यं मे महाराज्ञि सर्वसत्त्वे युवोर्लयः।

कृधातुर्हि कृते कार्ये कर्मणि च प्रकीर्तितः॥ ७९४ ॥

कृष्णेन सह ते राज्ञि स एव योग उच्यते।

युवयोर्मिलनात् साक्षात् कर्म कार्यं भवेत् प्रिये॥ ७९५ ॥

कृतं कर्म भवेत् साक्षाद् अर्थपूर्णं जगन्मयि।

सर्वाणि कर्मरूपाणि वां योगात् प्रभवन्ति हि॥ ७९६ ॥

युवयोर्मिलनाद् राधे करुणा च कृपा तथा।

तस्मात् सर्वान् प्रपश्यथः कृपया च दयस्व नः॥ ७९७ ॥

वां योगात् प्रसरन्त्येव ब्रह्माण्डे सर्वसम्पदः।

सर्ववस्तुषु ते नाम राजते नित्यमम्बिके॥ ७९८ ॥

सरस्वती त्वमेवासि स्रष्ट्री चराचरस्य वै।

ब्रह्माजि-नाम-मध्येऽपि बीजं ते राधिके स्थितम्॥ ७९९ ॥

ब्रह्माण्डे चैव ब्रह्मणि यतस्त्वं ब्रह्मकारणम्।

सर्वं साक्षात् त्वमेवासि सागरः सार एव च॥ ८०० ॥

रक्षा च राधिके साक्षात् कृष्णेन सह योगकः।

हृषीकेशो राम एव क्रोधो दिव्यो महेश्वरि॥ ८०१ ॥

पतिस्ते कल्प-रूपो हि कामः कवचमेव च।

पुराणे च ऋग्वेदेऽपि यजुष्यथर्वणे तथा॥ ८०२ ॥

बीज-मन्त्र-स्वरूपेण त्रिषु वेदेषु संस्थिता।

तस्मात् श्यामः साम-वेदो यत्र स्तोभाः स्वरूपिणी॥ ८०३ ॥

सर्वत्र वां स्थितिर्-नित्यं सर्व-वस्तुषु सर्वदा।

त्वं ककारः स खकारः स खकारस्त्वमेव कः॥ ८०४ ॥

कृष्णस्याकर्षणे साक्षात् त्वं हरिः परिकीर्तिता।

तस्मान्-मुक्तेः परो मार्गो हरे-कृष्णेति-कीर्तनम्॥ ८०५ ॥

महामन्त्रस्य सङ्कीर्तं वां योगात् प्रकटीकृतम्।

चत्वारिंशद्-युते पञ्च-शते वर्षे गते शिवे॥ ८०६ ॥

अवतीर्णो धरायां हि कान्हो वर्णं तवाश्रितः।

तव भावं समादाय त्वत्-प्रेमानन्त-माधुरीम्॥ ८०७ ॥

स्वादितुं स समुत्पन्नः सङ्कीर्तन-समुद्भवः।

बङ्गाले भारते चैव विश्वे कोलाहलो महान्॥ ८०८ ॥

तस्मात् त्वं रागरूपासि रतिरूपासि राधिके।

रतिस्त्वं कामदेवः स विस्मितास्मि महेश्वरि॥ ८०९ ॥

रमणस्त्वं रासलीला सोमामृतस्वरूपिणी।

कल्याणः कान्तरूपोऽसौ कोशलः स प्रकीर्तितः॥ ८१० ॥

युवयोर्मिलनात् साक्षाद् रक्तमुत्पद्यते शिवे।

सर्व-प्राणि-शिरास्वेव प्रवहत् सत्य-रूपकम्॥ ८११ ॥

कान्हः शक्ति-स्वरूपो हि शक्तिमांश्चापि स स्मृतः।

युवयोर्-योगतो नित्यं क्रिया क्रमश्च जायते॥ ८१२ ॥

क्रीडा कर्म च कारक-म् आकर्षणं च रामकम्।

राज्ञी राजा तथा राणी वृन्दावन-मयी प्रिये॥ ८१३ ॥

द्वारका वां सु-योगाद् वै उत्पन्ना परमेश्वरि।

रुक्मिणी-नाम्नि साक्षाद् वै राधा-कृष्णौ सु-संस्थितौ॥ ८१४ ॥

द्वारकाधीश-नाम्न्य्-अन्तः राधा-कृष्णौ विराजतः।

एक-संङ्ख्या-पदे साक्षात् पत्युस्ते नाम विद्यते॥ ८१५ ॥

नर-नारी-स्वरूपा त्वं नारङ्गं स्मृति-रूपिणी।

श्रुतिस्त्वं प्रेम-रूपा वै मन्त्रे तन्त्रे च संस्थिता॥ ८१६ ॥

पवित्र-शब्द-मध्ये वै युवयोर्-नाम संस्थितम्।

आश्चर्यं मे महाराज्ञि न केवलमृषि-गिरे॥ ८१७ ॥

आधुनिकेषु वाक्येषु मदीय-काल-भाषया।

वां नाम्नोर्-अक्षराणां हि गम्भीरावृत्तिर्-अद्भुता॥ ८१८ ॥

तत्त्व-ज्ञान-रहस्येषु दृश्यते परमेश्वरि।

राधा-कृष्ण-स्वनाम्नोर्-वै तत्त्व-ज्ञानमिदं शिवे॥ ८१९ ॥

सर्वत्र वां प्रवेशनं यदि वक्ष्यामि विस्तरात्।

नैवात्र मे भवेदन्तः कदाचिदपि राधिके॥ ८२० ॥

मन्त्रे तन्त्रे तथा यन्त्रे शास्त्रे चापि च संस्थिता।

इन्द्र-नाम्न्यपि पत्युस्ते सर्व-पूर्वा श्रीर्-एव च॥ ८२१ ॥

श्री-लक्ष्म्य्-अन्तः श्री-कृष्णान्तः श्री-नारायण-विष्णुषु।

श्री-शिवा-कालिका-मध्ये श्री-नारदे च संस्थिता॥ ८२२ ॥

सर्वत्र युवयोर्-नाम व्याप्तं चैव चराचरे।

विश्वस्य सर्व-भाषासु कर्मणि प्रवहत्-सुखे॥ ८२३ ॥

विद्यसे त्वं महाराज्ञि सर्व-कार्य-विहारिणि।

उक्तं मात्रेण कृतम् इत्य्-अनेन सङ्क्षिपाम्यहम्॥ ८२४ ॥

युवयोर्मिलनात् साक्षात् सृष्टं सर्वं जगत्-त्रयम्।

ब्रह्माण्डस्य च निर्माणं काव्यादीनां च सर्जनम्॥ ८२५ ॥

सर्व-निर्मातृता साक्षाद् वां योगं ह्यपेक्षते।

अस्तित्वस्य हि सर्वस्य मूल-रूपौ युवां यतः॥ ८२६ ॥

सर्व-कारण-कारणं तस्माद् वदामि राधिके।

तस्मात् ते पाद-पद्मेषु पत्युस्ते चरणाम्बुजे॥ ८२७ ॥

u/Initial_Fold_420 — 13 days ago
▲ 22 r/yugala+1 crossposts

श्री अष्टसखी नित्यप्रेमतारिणी प्रथमोध्यायः - वृन्दावनभजनम् 483-539 (venu gita)

आनन्दस्य तरङ्गैश्च युष्मान् पूरयतु प्रभुः ।

अनन्तगुणितं नित्यं वर्धतां युष्मदुत्सवः ॥ ४८३ ॥

हे राज्ञि तेन मे नित्यं परमानन्दसम्पदः ।

प्राप्यन्ते नात्र सन्देहो युष्माकं सुखवर्धनात् ॥ ४८४ ॥

तस्मात् ते पादपद्मेऽहं प्रणमामि पुनः पुनः ।

पवित्रौ ते पदाम्भोजौ वन्देऽहं भक्तितो नता ॥ ४८५ ॥

श्रीशुक उवाच

गोप्य: कृष्णे वनं याते तमनुद्रुतचेतस: ।

कृष्णलीला: प्रगायन्त्यो निन्युर्दु:खेन वासरान् ॥ १ ॥

श्रीगोप्य ऊचु:

वामबाहुकृतवामकपोलो

वल्गितभ्रुरधरार्पितवेणुम् ।

कोमलाङ्गुलिभिराश्रितमार्गं

गोप्य ईरयति यत्र मुकुन्द: ॥ २ ॥

व्योमयानवनिता: सह सिद्धै-

र्विस्मितास्तदुपधार्य सलज्जा: ।

काममार्गणसमर्पितचित्ता:

कश्मलं ययुरपस्मृतनीव्य: ॥ ३ ॥

हन्त चित्रमबला: श‍ृणुतेदं

हारहास उरसि स्थिरविद्युत् ।

नन्दसूनुरयमार्तजनानां

नर्मदो यर्हि कूजितवेणु: ॥ ४ ॥

वृन्दशो व्रजवृषा मृगगावो

वेणुवाद्यहृतचेतस आरात् ।

दन्तदष्टकवला धृतकर्णा

निद्रिता लिखितचित्रमिवासन् ॥ ५ ॥

बर्हिणस्तबकधातुपलाशै-

र्बद्धमल्लपरिबर्हविडम्ब: ।

कर्हिचित् सबल आलि स गोपै-

र्गा: समाह्वयति यत्र मुकुन्द: ॥ ६ ॥

तर्हि भग्नगतय: सरितो वै

तत्पदाम्बुजरजोऽनिलनीतम् ।

स्पृहयतीर्वयमिवाबहुपुण्या:

प्रेमवेपितभुजा: स्तिमिताप: ॥ ७ ॥

अनुचरै: समनुवर्णितवीर्य

आदिपूरुष इवाचलभूति: ।

वनचरो गिरितटेषु चरन्ती-

र्वेणुनाह्वयति गा: स यदा हि ॥ ८ ॥

वनलतास्तरव आत्मनि विष्णुं

व्यञ्जयन्त्य इव पुष्पफलाढ्या: ।

प्रणतभारविटपा मधुधारा:

प्रेमहृष्टतनवो ववृषु: स्म ॥ ९ ॥

दर्शनीयतिलको वनमाला-

दिव्यगन्धतुलसीमधुमत्तै: ।

अलिकुलैरलघुगीतामभीष्ट-

माद्रियन् यर्हि सन्धितवेणु: ॥ १० ॥

सरसि सारसहंसविहङ्गा-

श्चारुगीताहृतचेतस एत्य ।

हरिमुपासत ते यतचित्ता

हन्त मीलितद‍ृशो धृतमौना: ॥ ११ ॥

सहबल: स्रगवतंसविलास:

सानुषु क्षितिभृतो व्रजदेव्य: ।

हर्षयन् यर्हि वेणुरवेण

जातहर्ष उपरम्भति विश्वम् ॥ १२ ॥

महदतिक्रमणशङ्कितचेता

मन्दमन्दमनुगर्जति मेघ: ।

सुहृदमभ्यवर्षत् सुमनोभि-

श्छायया च विदधत् प्रतपत्रम् ॥ १३ ॥

विविधगोपचरणेषु विदग्धो

वेणुवाद्य उरुधा निजशिक्षा: ।

तव सुत: सति यदाधरबिम्बे

दत्तवेणुरनयत् स्वरजाती: ॥ १४ ॥

सवनशस्तदुपधार्य सुरेशा:

शक्रशर्वपरमेष्ठिपुरोगा: ।

कवय आनतकन्धरचित्ता:

कश्मलं ययुरनिश्चिततत्त्वा: ॥ १५ ॥

निजपदाब्जदलैर्ध्वजवज्र-

नीरजाङ्कुशविचित्रललामै: ।

व्रजभुव: शमयन् खुरतोदं

वर्ष्मधुर्यगतिरीडितवेणु: ॥ १६ ॥

व्रजति तेन वयं सविलास-

वीक्षणार्पितमनोभववेगा: ।

कुजगतिं गमिता न विदाम:

कश्मलेन कवरं वसनं वा ॥ १७ ॥

मणिधर: क्‍वचिदागणयन् गा

मालया दयितगन्धतुलस्या: ।

प्रणयिनोऽनुचरस्य कदांसे

प्रक्षिपन् भुजमगायत यत्र ॥ १८ ॥

क्‍वणितवेणुरववञ्चितचित्ता:

कृष्णमन्वसत कृष्णगृहिण्य: ।

गुणगणार्णमनुगत्य हरिण्यो

गोपिका इव विमुक्तगृहाशा: ॥ १९ ॥

कुन्ददामकृतकौतुकवेषो

गोपगोधनवृतो यमुनायाम् ।

नन्दसूनुरनघे तव वत्सो

नर्मद: प्रणयिणां विजहार ॥ २० ॥

मन्दवायुरुपवात्यनुकूलं

मानयन् मलयजस्पर्शेन ।

वन्दिनस्तमुपदेवगणा ये

वाद्यगीतबलिभि: परिवव्रु: ॥ २१ ॥

वत्सलो व्रजगवां यदगध्रो

वन्द्यमानचरण: पथि वृद्धै: ।

कृत्‍स्‍नगोधनमुपोह्य दिनान्ते

गीतवेणुरनुगेडितकीर्ति: ॥ २२ ॥

उत्सवं श्रमरुचापि द‍ृशीना-

मुन्नयन् खुररजश्छुरितस्रक् ।

दित्सयैति सुहृदासिष एष

देवकीजठरभूरुडुराज: ॥ २३ ॥

मदविघूर्णितलोचन ईषत्-

मानद: स्वसुहृदां वनमाली ।

बदरपाण्डुवदनो मृदुगण्डं

मण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥

यदुपतिर्द्विरदराजविहारो

यामिनीपतिरिवैष दिनान्ते ।

मुदितवक्त्र उपयाति दुरन्तं

मोचयन् व्रजगवां दिनतापम् ॥ २५ ॥

श्रीशुक उवाच

एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायती: ।

रेमिरेऽह:सु तच्चित्तास्तन्मनस्का महोदया: ॥ २६ ॥

॥श्रीराधाचरणरेणुरुवाच॥

अतीव मधुरान् श्लोकान् पठित्वाध्यायसञ्चयान् ।

कोटिकोटिगुणं क्षौद्रं भक्षितं युगपन्मया ॥ ५१२ ॥

तेनानन्देन सम्पूर्णा दिव्योल्लासं गता ह्यहम् ।

मम चेतसि सञ्जातः परमः सुखसागरः ॥ ५१३ ॥

युष्मान् सुखस्य पूरैश्च भृशं प्लावयतु प्रभुः ।

महाराजाधिराजो यः शिखिपिच्छावतंसकः ॥ ५१४ ॥

स्कन्धे चैकादशे वक्ति श्रीमद्भागवते प्रभुः ।

श्रीकृष्णो द्वादशेऽध्याये दशमात्तु त्रयोदशम् ॥ ५१५ ॥

रामेण सार्धं मथुरां प्रणीते

श्वाफल्किना मय्यनुरक्तचित्ता: ।

विगाढभावेन न मे वियोग-

तीव्राधयोऽन्यं दद‍ृशु: सुखाय ॥ १० ॥

तास्ता: क्षपा: प्रेष्ठतमेन नीता

मयैव वृन्दावनगोचरेण ।

क्षणार्धवत्ता: पुनरङ्ग तासां

हीना मया कल्पसमा बभूवु: ॥ ११ ॥

ता नाविदन् मय्यनुषङ्गबद्ध-

धिय: स्वमात्मानमदस्तथेदम् ।

यथा समाधौ मुनयोऽब्धितोये

नद्य: प्रविष्टा इव नामरूपे ॥ १२ ॥

मत्कामा रमणं जारमस्वरूपविदोऽबला: ।

ब्रह्म मां परमं प्रापु: सङ्गाच्छतसहस्रश: ॥ १३ ॥

॥श्रीराधाचरणरेणुरुवाच॥

विस्मितास्मि महादेवि तुङ्गविद्ये नमोऽस्तु ते ।

पश्यामो ह्यधिकं देवि व्रजधामेदमद्भुतम् ॥ ५२० ॥

पावनं भूमिखण्डं हि धामैतद्दर्शितं त्वया ।

मार्गदर्शनमुद्दिश्य कृतज्ञाहं पुनः पुनः ॥ ५२१ ॥

स्कान्दे वैष्णवखण्डे च माहात्म्ये माथुरे तथा ।

सप्तदशे तथाध्याये श्लोके चाष्टाविंशे खलु ॥ ५२२ ॥

मथुरायां प्रकुर्वन्ति पुरीसाधारणीदृशम् ।

ये नरास्तेऽपि विज्ञेया: पापराशिभिरन्विता: ॥

साधारणा इवाभान्ति लौकिके कर्मणि स्थिताः ।

तथापि ते महाधन्याः सर्वे वै व्रजवासिनः ॥ ५२४ ॥

हे व्रजधामवासिनो दीनामेतां हि दासिकाम् ।

अनुगृह्णन्तु कृपया ह्यपेक्षे करुणां हि वः ॥ ५२५ ॥

युष्माकं तोषणं नित्यं सर्वेषां व्रजवासिनाम् ।

एतदेव हि मे वाञ्छा नान्यदस्ति प्रयोजनम् ॥ ५२६ ॥

व्रजे पिपीलिकां चापि नैव हिंसितुमर्हति ।

सर्वथा पूजनीयास्ते नैव साधारणा जनाः ॥ ५२७ ॥

इति सर्वैर्महाचार्यैः स्पष्टमेव प्रदर्श्यते ।

तस्माद्व्रजौकसां नौमि पादपद्मं पृथक् पृथक् ॥ ५२८ ॥

हे व्रजवासिनः सर्वे मयि कुर्वन्तु वै कृपाम् ।

अशक्ताहं निरालम्बा केवला दीनदासिका ॥ ५२९ ॥

ब्रह्मवैवर्तसंज्ञके कृष्णजन्मनि खण्डके ।

द्विनवतितमेऽध्याये श्लोके वै चतुःषष्टिके ॥ ५३० ॥

उद्धवो वक्ति तत्रैव राधाया महिमां प्रति ।

भक्तिभावसमायुक्तः शृणु तद्वचनं शुभम् ॥ ५३१ ॥

वन्दे राधापदाम्भोजं ब्रह्मादिसुरवन्दितम् ।

यत्कीर्तिः कीर्तनेनैव पुनाति भुवनत्रयम् ॥

श्रीरघुनाथदासो मे गोस्वामी प्रभुरादरात् ।

मनःशिक्षाह्वये ग्रन्थे श्लोके चाष्टमके तथा ॥ ५३३ ॥

यथा दुष्टत्वं मे दवयति शठस्यापि कृपया यथा मह्यं प्रेमामृतमपि ददात्युज्ज्वलमसौ ।

यथा श्रीगान्धर्वाभजनविधये प्रेरयति मां तथा गोष्ठे काक्वा गिरिधरमिह त्वं भज मनः ॥

श्रीहरिवंशनामा मे प्रभुराह कृपानिधिः ।

राधासुधानिधिसिन्धौ श्लोके पञ्चनवत्यङ्के ॥ ५३५ ॥

श्रीमत्या राधाराण्याश्च यमुनायास्तथैव च ।

व्रजधाम्नो महत्त्वं हि वर्णयन् वक्ति यत्नतः ॥ ५३६ ॥

कालिन्दी-तट कुञ्ज-मन्दिरगतो योगीन्द्रवद्यत्पद- ज्योतिर्ध्यानपरः सदा जपति यां प्रेमाश्रुपूर्णो हरिः । केनाप्यद्भुतमुल्लसद्रतिसानन्देन सम्मोहितः, सा राधेति सदा हृदि स्फुरतु मे विद्या परा द्व्यक्षरा ॥

तस्माद्व्रजस्य गोपीनां सर्वासां चरणाम्बुजे ।

प्रणमामि मुहुर्देव्यो युष्माकं सर्वदा खलु ॥ ५३८ ॥

स्वामिन्या राधिकामहा- राज्ञ्याः पादाम्बुजे तथा ।

व्रजधामनिवासिभ्यः सर्वेभ्यः प्रणमाम्यहम् ॥ ५३९ ॥

u/Initial_Fold_420 — 14 days ago