अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः ॥ (shree Radhika Maha Rani sarva karna karnah!)
▲ 1 r/yugala

अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः ॥ (shree Radhika Maha Rani sarva karna karnah!)

विना त्वां पुरुषो नैव प्राप्यते जगदम्बिके ।

अस्तित्वस्य महाराज्ञी मूलमाता त्वमेव हि ॥ ८७१।१३१ ॥

जयस्तु ललितादेव्यै राधिकायै जयो जयः ।

विश्वस्य मूलरूपायै सर्वदायै नमो नमः ॥ ८७१।१३२ ॥

दुष्टराज्ञां विनाशिन्यै साष्टाङ्गं प्रणमाम्यहम् ।

शुभराज्ञां भद्रदायै ते पादे प्रणमाम्यहम् ॥ ८७१।१३३ ॥

मनुराजस्य राज्ञ्यै वै मनुस्मृतिविधायिनि ।

हयग्रीवप्रियायै ते मुनीनां वल्लभे नमः ॥ ८७१।१३४ ॥

आज्ञां देहि महाराज्ञि ते पादे प्रणमाम्यहम् ।

किङ्करीं दासिकामेव पादयोस्तव राधिके ॥ ८७१।१३५ ॥

श्यामसुन्दरदेवस्य पादयोरपि मादृशीम् ।

स्वीकुरुष्व महाराज्ञि भजे चरणपङ्कजम् ॥ ८७१।१३६ ॥

युवयोः पादपद्मेषु क्षुद्रधूलिकणास्म्यहम् ।

साष्टाङ्गं प्रणिपातेन वन्दे वां चरणाम्बुजम् ॥ ८७१।१३७ ॥

जयस्तु राधिके राज्ञि जगदीशि नमोऽस्तु ते ।

श्रीमत्सिंहासनेश्वरी तृतीयं नाम ते प्रिये ॥ ८७१।१३८ ॥

सिंहानामधिदेवी त्वं साक्षात् श्रीनारसिंहिका ।

श्रीनृसिंहनियन्त्री त्वं नृसिंहस्य स्वरूपिणी ॥ ८७१।१३९ ॥

प्रह्लादपरिपात्री त्वं सम्पूर्णजगदम्बिका ।

यस्त्वां शरणमापन्नो नृसिंहेन स रक्ष्यते ॥ ८७१।१४० ॥

यमोऽपि तस्य चायुर्वै हर्तुं नैव हि शक्नुयात्

द्वितीया मातृका साक्षात् त्वमेव नारसिंहिका ॥ ८७१।१४१ ॥

दुं क्ष्रौं बीजात्मिका त्वं हि मन्त्ररूपा सनातनी ।

तव नादो जगत् सर्वं कम्पयेत् सिंहगर्जनम् ॥ ८७१।१४२ ॥

नृसिंहस्य वशीकर्त्री साक्षात् सिंहासनस्थिता ।

शौर्यशक्तिस्वरूपा त्वं सिंहवद्गर्जसि प्रिये ॥ ८७१।१४३ ॥

भण्डासुरविनाशिन्यै भ्रामर्यै ते नमो नमः ।

अनन्तवैभवा राज्ञी नित्या त्वं परमेश्वरी ॥ ८७१।१४४ ॥

ब्रह्मा विष्णुस्तथा रुद्र ईश्वरश्च सुसंस्थिताः ।

आसने यस्य देवेशि मञ्चकाकाररूपिणः ॥ ८७१।१४५ ॥

सदाशिवमहाप्रेते ह्युपविष्टा महेश्वरी ।

अखिलाण्डनियन्त्री त्वं साक्षाच्छिवस्वरूपिणी ॥ ८७१।१४६ ॥

जयस्तु ललितादेव्यै त्रिपुरासुन्दरीति च ।

तृतीया हि महाविद्या त्वमेव परमेश्वरी ॥ ८७१।१४७ ॥

शिवनाभिसमुद्भूता कमलासनसंस्थिता ।

त्रिलोकानामधीशा त्वं साक्षात् त्रिपुरसुन्दरी ॥ ८७१।१४८ ॥

पुरुषस्य प्रेरिका त्वं तस्मिन् वह्निप्रवाहिनी ।

राधा धारा तथाधारा साक्षात् त्वं परमेश्वरी ॥ ८७१।१४९ ॥

मातृकाणां नियन्त्री त्वं वाग्देवी परमा प्रिये ।

सर्वमन्त्राक्षराणां च पञ्चवेदाधिदेवता ॥ ८७१।१५० ॥

शास्त्राणां श्रुतिवाक्यानां स्मृतीनां च नियन्त्रिका ।

अस्तित्वस्य च मूलं त्वं राधिके परमेश्वरि ॥ ८७१।१५१ ॥

मया यल्लिख्यते राज्ञि तत् सर्वं ते वशे स्थितम् ।

विना कृपां तवाद्याहं न शक्नोम्यवगन्तुं वै ॥ ८७१।१५२ ॥

पवित्रं परमं तत्त्वं ज्ञातुं नाहं क्षमा प्रिये ।

ललितादेवि ते पादे साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।१५३ ॥

अहङ्कारविनाशिनी राधिके त्वं महेश्वरि ।

गर्वमीर्ष्यां तथा सर्वं भौतिकं मन एव च ॥ ८७१।१५४ ॥

संशयं भ्रममुन्मादं विनाशयसि सर्वदा ।

जयस्तु ते महाराज्ञि साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।१५५ ॥

अहङ्कारविनाशिनी राधिके त्वं महेश्वरि ।

गर्वमीर्ष्यां तथा सर्वं भौतिकं मन एव च ॥ ८७१।१५४ ॥

संशयं भ्रममुन्मादं विनाशयसि सर्वदा ।

जयस्तु ते महाराज्ञि साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।१५५ ॥

u/Initial_Fold_420 — 1 day ago
▲ 79 r/Vrindavan+1 crossposts

always remember the mercy of the divine sakhis; never forget them, for they are the path to attaining Sri Radhika Krishna!! Radhe Radhe! Jai ashta sakhi!

u/Initial_Fold_420 — 3 days ago
▲ 17 r/yugala+1 crossposts

अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः ॥ (in vrindavan she's shree Lalit sakhi ,in vishva she's maha lalita devi , in dvaraka she's shree satyabhama !)

अस्य श्रीललितासहस्रनामस्तोत्रमहामन्त्रस्य वशिन्यादिवाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललितापरमेश्वरी देवता । श्रीमद्वाग्भवकूटेति बीजम् । मध्यकूटेति शक्तिः । शक्तिकूटेति कीलकम् । मूलप्रकृतिरिति ध्यानम् । मूलमन्त्रेणाङ्गन्यासं करन्यासं च कुर्यात् । मम श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः ॥

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।

पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥

अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् ।

अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥

ध्यायेत्पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।

सर्वालङ्कारयुक्तां सतताभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्तमूर्तिं सकलासुरनुतां सर्वसम्पत्प्रदात्रीम् ॥

सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।

अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥

लमित्यादि पञ्चपूजा ।

लं पृथिवितत्त्वात्मिकायै श्रीललितादेव्यै गन्धं परिकल्पयामि ।

हं आकाशतत्त्वात्मिकायै श्रीललितादेव्यै पुष्पं परिकल्पयामि ।

यं वायुतत्त्वात्मिकायै श्रीललितादेव्यै धूपं परिकल्पयामि ।

रं अग्नितत्त्वात्मिकायै श्रीललितादेव्यै दीपं परिकल्पयामि ।

वं अमृततत्त्वात्मिकायै श्रीललितादेव्यै नैवेद्यं परिकल्पयामि ।

सं सर्वतत्त्वात्मिकायै श्रीललितादेव्यै ताम्बूलादि सर्वोपचारान् परिकल्पयामि ॥

अधुना राधिके राज्ञि ललितारूपिणि प्रिये ।

नाम्नां ध्यानं करिष्यामि पवित्राणां च सर्वदा ॥ ८७१।९२ ॥

आश्चर्यं परमं प्राप्तं ललितासखिका प्रिये ।

ललितादेविरूपा सा साक्षात् शक्तिस्त्वदीयका ॥ ८७१।९३ ॥

तस्माद् वै द्वारकापुर्यां ललितासखिका प्रिये ।

योद्धा वै सत्यभामेति नाम्ना सा परिगीयते ॥ ८७१।९४ ॥

यतः सा साहसेनैव सत्येन च प्रकाशते ।

सत्यभामास्वरूपेण राजते सा महेश्वरि ॥ ८७१।९५ ॥

त्वं च रुक्मिणिनाम्ना वै ख्याता स्वर्णत्वचा प्रिये ।

रुक्मेति स्वर्णवर्णाभा तस्मात् त्वं रुक्मिणी स्मृता ॥ ८७१।९६ ॥

विशाखा मे महामातर्या कलिन्दसुता स्मृता ।

कालिन्दी यमुनामूलं कलिन्दगिरिनन्दिनी ॥ ८७१।९७ ॥

ललिताया विशाखाया अष्टसखीपदाम्बुजे ।

अष्टभार्यापदे चैव ते पादे प्रणमाम्यहम् ॥ ८७१।९८ ॥

आशीर्वादं गृहीत्वाहं युष्माकं चरणाम्बुजात् ।

आज्ञां देहि रहस्यानि पवित्राणि वदाम्यहम् ॥ ८७१।९९ ॥

श्रीमती ललिता राज्ञि प्रथमा श्रीमातेति वै ।

त्वदुदरात् समुद्भूतं सर्वमस्तित्वमेव च॥ ८७१.१०० ॥

जगन्माता त्वमेवासि दुर्गामाता त्वमेव हि।

अस्तित्वे सर्वमातॄणां त्वमेव विस्तरो मतः॥ ८७१.१०१ ॥

त्वच्छक्तेश्चैव भागेन प्रजायन्ते हि मातरः।

ललितादेवि साक्षात् त्वं करुणा परमार्थिका॥ ८७१.१०२ ॥

सर्वभूताश्रया माता यस्त्वां शरणमागतः।

तस्मै ददासि सर्वं वै पुत्री तवाहं राधिके॥ ८७१.१०३ ॥

अपराधान् क्षमस्वाशु पतितास्मि ह्यशक्तिका।

संसारनरकाद् राधे त्राहि मां शरणागताम्॥ ८७१.१०४ ॥

स्वक्रोडे मां गृहाणाशु वृन्दावनसुपावने।

श्रीमती राधिके मातः साष्टाङ्गं प्रणमाम्यहम्॥ ८७१.१०५ ॥

त्वमेव सा महाशक्तिः क्रूरा भवति या प्रिये।

पुत्राणां रक्षणार्थाय सर्वमातृषु संस्थिता॥ ८७१.१०६ ॥

नारीणां बलभूता त्वं रक्षन्तीनां स्वबान्धवान्।

पतिं पुत्रं तथा तातं नारी वै गृहरक्षिका ॥ ८७१.१०७ ॥

साम्राज्यरक्षिका नारी त्वच्छक्त्या हि प्रजायते।

महाकालीस्वरूपा त्वं पुत्राणां परिपालिनी॥ ८७१.१०८ ॥

असुराणां विनाशाय संहाराय च सक्षमा।

दुर्गामाता त्वमेवासि महिषासुरमर्दिनी॥ ८७१.१०९ ॥

सर्वदेवगणानां च रक्षिका त्वं हि राधिके।

सर्वलक्ष्मीप्रसूतिस्त्वं सर्वसरस्वतीप्रसूः॥ ८७१.११० ॥

सर्वदेवानामपि त्वं मूलभूता सनातनी।

सर्वमूलकृतिः साक्षात् सर्वसृष्टिप्रकाशिनी॥ ८७१.१११ ॥

रेफवर्णस्वरूपा त्वं ककारवर्णरूपिणी।

त्वत्त एव प्रजायन्ते ह्यनन्ता विस्तराः प्रिये॥ ८७१.११२ ॥

योगमाया त्वमेवासि दुर्गा काली सरस्वती।

लक्ष्मीस्वरूपा देवेशि त्वं शक्तिः सर्वधारिणी॥ ८७१.११३ ॥

त्वदुदरात् समुद्भूता ब्रह्माण्डकोटयोऽनघाः।

कृष्णस्य च तवाप्येवं योगादेतद्विराजते॥ ८७१.११४ ॥

परमा मातृरूपा त्वं कुलशक्तेः प्रदायिनी।

पारिवारिकमूर्त्तिस्त्वं सुसन्तानप्रसूतिनी॥ ८७१.११५ ॥

नारीणां गौरवं त्वं हि मर्यादा शीलमेव च।

चरित्रं च सतीत्वं च त्वमेव परमेश्वरि॥ ८७१.११६ ॥

अस्तित्वस्य च मूलं त्वं ह्लादिनीशक्तिरूपिणी।

नित्यानन्दस्वरूपा त्वं नित्या नन्दप्रदायिनी॥ ८७१.११७ ॥

पवित्रज्ञानरूपा त्वं सर्वविद्यामयी प्रिये।

तस्मात् ते पादपद्मेषु साष्टाङ्गं प्रणमाम्यहम्॥ ८७१.११८ ॥

पवित्रपादपद्मेषु साष्टाङ्गं प्रणिपत्य च।

भजामि चरणाम्भोजं सर्वदा राधिके प्रिये॥ ८७१.११९ ॥

ललितादेवि-रूपेऽपि र-क-कारौ बिभर्षि वै।

श्यामसुन्दर-देवेन योगस्ते ह्यत्र विद्यते॥ ८७१.१२० ॥

सर्वत्रास्ति हि वां योग-स्तस्माद् वन्दे पदाम्बुजम्।

द्वितीयं नाम ते राज्ञि 'महाराज्ञी'ति कीर्त्यते॥ ८७१.१२१ ॥

अखिलाण्डेश्वरी साक्षात् सर्वोपरि विराजसे।

तस्मात् त्वं 'ठाकुरानी'ति भक्तानां गीयते मुखैः॥ ८७१.१२२ ॥

तव नाम्नो ह्यारम्भो वै रेफवर्णेन वह्निना।

वह्निमान् एष वर्णो हि रामदेव-स्वरूपकः॥ ८७१.१२३ ॥

तदनन्तरमग्निर्वै नाम्नि तेऽस्ति सुसंस्थितः।

अग्नये दीयते यत्तु हविर्यज्ञे कृपामयि॥ ८७१.१२४ ॥

तत् सर्वं श्यामदेवाय तुभ्यं चैव निवेद्यते।

यतो वह्निस्त्वमेवासि साक्षादग्नि-स्वरूपिणी॥ ८७१.१२५ ॥

स्वाहा त्वं यज्ञरूपा त्वं सर्वोर्जामूलरूपिणी।

सर्वशक्ति-प्रसूतिस्त्वं साम्राज्ञी जगदम्बिके॥ ८७१.१२६ ॥

अखिलाण्डस्य राज्ञी त्वं पूर्णकामा सनातनी।

त्वत्त एव प्रजायन्ते सर्वा राज्ञ्यो जगत्त्रये॥ ८७१.१२७ ॥

कृष्णराज्ञी त्वमेवासि कृष्णस्य च नियन्त्रिका।

मोहन-श्याम-संमोहा तस्माद् राज्ञीति गीयते॥ ८७१.१२८ ॥

राजराजेश्वरी त्वं हि राजाधिराज-राज्ञिका।

ईश्वरीश्वरेस्वरी त्वं देवेश्वर-नियन्त्रिका॥ ८७१.१२९ ॥

विश्वरज्ञी श्याममोहा देवकीनन्दनं प्रिये।

कटाक्षेणैव मोहय्य वशीकरोषि राधिके॥ ८७१.१३० ॥

विना त्वां पुरुषो नैव प्राप्यते जगदम्बिके।

अस्तित्वस्य महाराज्ञी मूलमाता त्वमेव हि॥ ८७१.१३१ ॥

जयस्तु ललितादेव्यै राधिकायै जयो जयह।

विश्वस्य मूलरूपायै सर्वदायै नमो नमः॥ ८७१.१३२ ॥

दुष्टराज्ञां विनाशिन्यै साष्टाङ्गं प्रणमाम्यहम्।

शुभराज्ञां भद्रदायै ते पादे प्रणमाम्यहम्॥ ८७१.१३३ ॥

मनुराजस्य राज्ञ्यै वै मनुस्मृति-विधायिनि।

हयग्रीव-प्रियायै ते मुनीनां वल्लभे नमः॥ ८७१.१३४ ॥

आज्ञां देहि महाराज्ञि ते पादे प्रणमाम्यहम्।

किङ्करीं दासिकामेव पादयोस्तव राधिके॥ ८७१.१३५ ॥

श्यामसुन्दरदेवस्य पादयोरपि मादृशीम्।

स्वीकुरुष्व महाराज्ञि भजे चरणपङ्कजम्॥ ८७१.१३६ ॥

युवयोः पादपद्मेषु क्षुद्रधूलिकणास्म्यहम्।

साष्टाङ्गं प्रणिपातेन वन्दे वां चरणाम्बुजम्॥ ८७१.१३७ ॥

ललितादेवि-रूपेऽपि रककारौ बिभर्षि वै ।

श्यामसुन्दरदेवेन योगस्ते ह्यत्र विद्यते ॥ ८७१।१२० ॥

सर्वत्रास्ति हि वां योगस्तस्माद् वन्दे पदाम्बुजम् ।

द्वितीयं नाम ते राज्ञि महाराज्ञीति कीर्त्यते ॥ ८७१।१२१ ॥

अखिलाण्डेश्वरी साक्षात् सर्वोपरि विराजसे ।

तस्मात् त्वं ठाकुरानीति भक्तानां गीयते मुखैः ॥ ८७१।१२२ ॥

तव नाम्नो ह्यारम्भो वै रेफवर्णेन वह्निना ।

वह्निमान् एष वर्णो हि रामदेवस्वरूपकः ॥ ८७१।१२३ ॥

तदनन्तरमग्निर्वै नाम्नि तेऽस्ति सुसंस्थितः ।

अग्नये दीयते यत्तु हविर्यज्ञे कृपामयि ॥ ८७१।१२४ ॥

तत् सर्वं श्यामदेवाय तुभ्यं चैव निवेद्यते ।

यतो वह्निस्त्वमेवासि साक्षादग्निस्वरूपिणी ॥ ८७१।१२५ ॥

स्वाहा त्वं यज्ञरूपा त्वं सर्वोर्जामूलरूपिणी ।

सर्वशक्तिप्रसूतिस्त्वं साम्राज्ञी जगदम्बिके ॥ ८७१।१२६ ॥

अखिलाण्डस्य राज्ञी त्वं पूर्णकामा सनातनी ।

त्वत्त एव प्रजायन्ते सर्वा राज्ञ्यो जगत्त्रये ॥ ८७१।१२७ ॥

कृष्णराज्ञी त्वमेवासि कृष्णस्य च नियन्त्रिका ।

मोहनश्यामसंमोहा तस्माद् राज्ञीति गीयते ॥ ८७१।१२८ ॥

राजराजेश्वरी त्वं हि राजाधिराजराज्ञिका ।

ईश्वराणामीश्वरी त्वं देवेश्वरनियन्त्रिका ॥ ८७१।१२९ ॥

विश्वराज्ञी श्याममोहा देवकीनन्दनं प्रिये ।

कटाक्षेणैव संमोह्य वशीकरोषि राधिके ॥ ८७१।१३० ॥

u/Initial_Fold_420 — 4 days ago
▲ 3 r/yugala

radha govinda geet (kripaluji jagaddguru Maharaj ,"Mere Dono Thakur Govind Radhe Bhori Bhari Radhe Govind Sidhe Sadhe Sada Muskuraye Dono Govind Radhe Mere Shub Kamanaye Hai Unko Bata De Mere Dou "

translate

Shri Radha Krishna are extremely kind and innocent, just like children. In their most glorious form, they possess nothing but love and mercy for the devotee who approaches them with a pure and sincere heart.".

also mataji/prabhuji!

i bow down at the lotus feet of Kripalu Maharaj Jagadguru, and I bow down at the lotus feet of Srila Prabhupada Bhaktivedanta. I bow down at the lotus feet of all our great teachers, and I offer my deepest respect to them all. How I love them, and how I love you all, my fellow Sanatanis! Oh, Sanatani, I bow down at your feet always. I beg you to have mercy on me and tell Radha Krishna about me, for I am always in need of grace.

I love you all with unconditional love; I simply love you all. Jai Shri Radhika Krishna, Jai Ashta Sakhi, Jai Ashta Manjari, Jai Sanatan Dharma, Jai Sarva Radha Krishna Dasi, Jai Sarva Parvati Shiva Dasi. I bow down to every Sanatani, begging for mercy.

Radhe Radhe, Hare Krishna, Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Hare Rama, Rama Rama, Hare Hare

u/Initial_Fold_420 — 6 days ago
▲ 6 r/yugala+1 crossposts

अथ श्री राधा रमण तत्वातीतधारा प्रथमोध्यायः। श्रीराधारानी-अनुज्ञा-याचना ॥(Radhe Rani Kripa)

॥ श्रीराधाचरणरेणुरुवाच ॥

हे स्वामिनि महाराज्ञि पादतलसमाश्रिताम् ।

धूलिकां मां कृपयस्व त्वत्पदाब्जे प्रलम्बिताम् ॥ १ ॥

राधिके त्राहि मां देवि याचे त्वां हि मुहुर्मुहुः ।

कृपां कुरुष्व मे राज्ञि कारुण्यं तेऽभिलाषये ॥ २ ॥

तव कृपां विना देवि को मां हि समनुज्ञयेत् ।

भाषणार्थं हि पत्यौ ते श्यामसुन्दरसंज्ञके ॥ ३ ॥

हे देवि कुरु कारुण्यं कोऽन्यो मां हि कृपायते ।

अहं दीना च दासी वै न समर्थास्मि किञ्चन ॥ ४ ॥

विना तव कृपां राज्ञि विना श्यामकृपां तथा ।

न किञ्चित् कर्तुमीशास्मि क्षुद्रदासी नमोऽस्तु ते ॥ ५ ॥

हे राधिके हरे श्रीजि याचे त्वां परमेश्वरि ।

पवित्रौ ते पदौ नौमि साष्टाङ्गं विनतानना ॥ ६ ॥

रोदिमि त्वां मुहुर्याचे ठकुरानि कृपां कुरु ।

नम्रभावेन ते पादौ प्रणमामि पुनः पुनः ॥ ७ ॥

अहं क्षुद्रा हि दासी वै को मां हि कृपते वद ।

यदि त्वं न कृपां कुर्या बर्सानेश्वरि ते नमः ॥ ८ ॥

धूलिकास्मि पदाधस्तात् त्वत्पादौ शरणं गता ।

कृपया मां हि रक्षस्व राधारानि नमोऽस्तु ते ॥ ९ ॥

दीना दासी च भ्रान्तास्मि दिङ्-मूढास्मि च सर्वदा ।

त्वां विना को दयां कुर्यात् राधिके परमेश्वरि ॥ १० ॥

क्रन्दन्तीं रुदतीं चैव कृपामेवाभिकाङ्क्षिणीम् ।

धूलिकां मां कृपयस्व ठकुरानि नमोऽस्तु ते ॥ ११ ॥

क्षुधितः शुकपोतोऽस्मि भावं भोजय मां प्रिये ।

वृन्दावनेश्वरि राधे पाहि मां शरणागताम् ॥ १२ ॥

श्रीकृष्णस्य हरेः पादे गोविन्दस्य मुरारिणः ।

नय मां कृपया देवि मथुरेश्वरि ते नमः ॥ १३ ॥

द्वारकेश्वरि तं ब्रूहि श्यामसुन्दरमेव हि ।

दीना दासी कृपां वाञ्छेत् कान्हाजि करुणां कुरु ॥ १४ ॥

विष्णुकान्ते विष्णुप्रिये विष्णुपत्नि कृपामयि ।

मातृस्नेहेन मां मातर्नयस्व पितुरन्तिकम् ॥ १५ ॥

वद तं रुदती पुत्री त्वामेव हि प्रवाञ्छति ।

मधुसूदन हे नाथ भक्तवत्सल पाहि माम् ॥ १६ ॥

किं नास्ति स्थानमेवात्र धूलिकायै पदाम्बुजे ।

तव श्यामस्य च पत्युः सर्वेश्वरि हि राधिके ॥ १७ ॥

राधारानि महाराज्ञि पादाधस्तात् क्षिपस्व माम् ।

शाश्वतं कुरु मां दासीं राधा राधेति याचये ॥ १८ ॥

पुनः पुनस्त्वां याचेऽहं दासी निजधनास्मि वाम् ।

केवलं यन्त्ररूपास्मि युवयोः परिचारिका ॥ १९ ॥

हे राधे ते पदाम्भोजे याचेऽहं च मुहुर्मुहुः ।

करुणां कुरु मे देवि त्राहि मां शरणागताम् ॥ २० ॥

मन्मनश्चिन्तयेन्नित्यं वामेव राधिके प्रिये ।

करौ कुरुत एवात्र युगलसरकारसेवाम् ॥ २१ ॥

हे राधे नेत्रयुग्मं मे पश्यति त्वां पतिं तथा ।

श्यामसुन्दरमेवात्र नान्यं किञ्चित् कदाचन ॥ २२ ॥

कर्णौ शृणुत एवात्र युवयोर्महिमाकथाम् ।

जिह्वा गायति वां कीर्तिं देहो यन्त्रमिदं तयोः ॥ २३ ॥

यथेच्छथ तथा वां वै कुरुतं यन्त्ररूपके ।

देहेऽस्मिन्मम हे राधे न ममेच्छास्ति काचन ॥ २४ ॥

नाहं न मेऽस्ति किञ्चिद्वै न ममाधिकारोऽस्ति हि ।

क्रीता दासी न शक्नोति वस्तु किञ्चिद्धि धारितुम् ॥ २५ ॥

तस्मात्ते चरणाम्भोजं प्रपन्नास्मि हि राधिके ।

न गर्वो न च मे मानं पदं नास्ति हि कुत्रचित् ॥ २६ ॥

वर्णाश्रमव्यवस्थाया अधमास्मि न संशयः ।

भावैर्विचारैः कामैश्च हीना व्यक्तेः स्वरूपतः ॥ २७ ॥

ममैकः परिचयो वै तव पादरजो हि तत् ।

लग्नां तां पदतले वै क्षुद्रां पश्यस्व धूलिकाम् ॥ २८ ॥

कृपां कृत्वा नयस्वैमां श्रीकृष्णस्य पदान्तिके ।

राधिके त्वां मुहुर्याचे कोऽन्यो मां हि कृपायते ॥ २९ ॥

त्वां विना क्षुद्ररेणुं वै राधिके को दयिष्यति ।

पापिनीं क्षुद्रदासीं मां को वा राज्ञि कृपायते ॥ ३० ॥

न शक्नोमि विना पूजाम् राधारानि च किञ्चन ।

ईश्वरी स्वामिनी राज्ञी त्वमेवासि हि मे प्रिये ॥ ३१ ॥

अहं सम्पत्तिरूपा ते ह्यधीनास्मि च सर्वदा ।

अनन्तकालं सेवे त्वां राधारानि नमोऽस्तु ते ॥ ३२ ॥

सर्वसृष्टेर्मूलरूपा त्वमेवासि महेश्वरि ।

तस्माच्छ्यामस्य पादाधः क्षिप मां वै कृपामयि ॥ ३३ ॥

वद तं क्षुद्रदासीयं त्वत्कृपामभिकाङ्क्षते ।

तव श्यामस्य च कृपां याचेऽहं करुणाकरि ॥ ३४ ॥

कृपां कुरु महाराज्ञि कामं नाशय मेऽधुना ।

शुद्धां कुरु सतीं योग्यां तव श्यामस्य राधिके ॥ ३५ ॥

श्यामासुन्दरि राधान्ते त्वां भजामि मुहुर्मुहुः ।

त्वां भजामि च राधे वै कृष्णं भजामि चानिशम् ॥ ३६ ॥

कृष्णभक्त्या तु त्वां देवि भजामि च पुनः पुनः ।

अनन्तभावतो देवि भजामि त्वां महेश्वरि ॥ ३७ ॥

तस्मात्त्वं पाहि मां देवि याचेऽहं करुणाकरि ।

पदाम्बुजे प्रणौमीति प्रसीद मे प्रियेऽधुना ॥ ३८ ॥

चिन्माधुर्यमये राधे शरणं पाहि रक्ष माम् ।

कृष्णानन्दमये देवि त्वत्पादौ शरणं मम ॥ ३९.१ ॥

प्रेमानन्दमये राधे कृपया पाहि रक्ष माम् ।

श्रीकृष्णप्रेममये देवि कृपां कुरु ममोपरि ॥ ३९.२ ॥

चिन्माधुर्यमये राधे दीनं तु पाहि रक्ष माम् ।

श्यामानन्दमये देवि कटाक्षं कुरु मे शुभम् ॥ ३९.३ ॥

प्रेमानन्दमये राधे त्वां वन्दे पाहि रक्ष माम् ।

वृन्दावनमये देवि त्वत्पादौ शरणं मम ॥ ३९.४ ॥

चिन्माधुर्यमये राधे कृपया पाहि रक्ष माम् ।

श्रीकृष्णप्रेममये देवि मामुद्धर दयामयि ॥ ३९.५ ॥

हे राधे जगतामीशे महान्ते परमेश्वरि ।

तव नामप्रसादेन कृष्णपूजामहं लभे ॥ ४० ॥

तथा कृष्णस्य नाम्नैव तव पूजामहं लभे ।

अत्यन्तं वां हि प्रीणामि जगदीश्वरि राधिके ॥ ४१ ॥

तस्मात् कृपां कुरुष्वैव दीनां दासीं कृपाय माम् ।

क्षुद्रदासीं कृपयस्व त्वत्पदौ मे गतिः परा ॥ ४२ ॥

नान्यं स्थानं हि मे राज्ञि नान्यो मे शरणं प्रिये ।

अतीव क्षुद्रदासीं मां रक्षस्व नय मां सह ॥ ४३ ॥

त्वत्पादच्छायमाश्रित्य राधिके हे महाराज्ञि ।

सर्वदा त्वत्पदाब्जं वै शरणं प्रगतास्मि हि ॥ ४४ ॥

सर्वसृष्टेस्त्वमेवासि महाराज्ञी हि राधिके ।

श्रीमति राधारानि त्वं नय मां निजसन्निधौ ॥ ४५ ॥

u/Initial_Fold_420 — 7 days ago
▲ 420 r/RadhaRaniVrindavan+2 crossposts

अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः ॥ ( shree radhe rani, lalita devi avatar)

वह्नेर्मूलस्वरूपा त्वं स्वाहा त्वं हि यतो भवेः ।

सूर्यस्योष्मा त्वमेवासि साक्षात् सूर्यस्वरूपिणी ॥ ८७१।२४३ ॥

तव देहः प्रकाशते ललिते परमेश्वरि ।

ललितासखि रूपेण राधाकृष्णप्रिये नमः ॥ ८७१।२४४ ॥

राधाकृष्णस्वरूपा त्वमनन्तं भासते वपुः ।

ब्रह्मणो मूलं ललिते सर्वव्यापिपरंब्रह्म ॥ ८७१।२४५ ॥

प्रकाशाकम्पनानि च कुण्डलाकाररूपं वै ।

ज्योतिस्त्वं हि महेश्वरि त्वत्त एव समुद्भूतम् ॥ ८७१।२४६ ॥

विश्वमेतच्च राधिके सर्वज्योतिषमग्नीनाम् ।

दीप्तेर्विद्युत्तथैव च विद्युत्प्रकृतिषट्कस्य ॥ ८७१।२४७ ॥

मूलं साक्षात् त्वमेव हि स्वप्रकाशपदार्थानाम् ।

राज्ञी त्वं सर्वदा प्रिये प्रकाशं प्रतिबिम्बन्ति ॥ ८७१।२४८ ॥

ये पदार्थाश्च तेषु वै ईश्वरी त्वं हि साक्षाद् वै ।

ललितासखिकापदे साष्टाङ्गं प्रणिपातेन ॥ ८७१।२४९ ॥

प्रणमामि मुहुर्मुहुः किङ्करी पतिताहं ते ।

नतास्मि शरणागता ललितासखि ते पदे ॥ ८७१।२५० ॥

सप्तमं नाम ते राधे चतुर्बाहुसमन्विता ।

ऐश्वर्यं माधुरीं चैव बिभर्षि त्वं पदाम्बुजे ॥ ८७१।२५१ ॥

भयंकरमङ्कुशं च बिभर्षि करपङ्कजे ।

भण्डासुरस्य सैन्यानां विनाशकरमुत्तमम् ॥ ८७१।२५२ ॥

लोहं वज्रं च तीक्ष्णत्वाद् लीलयैव निकृन्तति ।

अहङ्कारं च कामं च साधकानां नियच्छति ॥ ८७१।२५३ ॥

त्वयैव वशीकृतं सर्वं ब्रह्माण्डं सचराचरम् ।

जयविघ्नयन्त्रस्य विनाशिनी त्वमेव हि ॥ ८७१।२५४ ॥

जय गणेशि महादेवि सर्वशक्ते सुपावनि ।

आलस्यमज्ञानं तन्द्रां दौर्बल्यं च विनाशय ॥ ८७१।२५५ ॥

रोगं क्लमं च संहृत्य त्वमेवासि परा गतिः ।

अस्तित्वस्य परा देवी तस्माद् वन्दे पदाम्बुजम् ॥ ८७१।२५६ ॥

द्वितीये करपद्मे च पाशं बिभर्षि राधिके ।

येन बद्ध्वा भण्डदैत्यं विनाशितवती प्रिये ॥ ८७१।२५७ ॥

त्रिलोकं वशतां नीत्वा साधकं कर्षसि ध्रुवम् ।

त्वत्सेवाकरणार्थाय भजनाय च राधिके ॥ ८७१।२५८ ॥

वासुकिस्त्वमनन्तश्च शेषस्तक्षक एव च ।

नागवंशस्य साम्राज्ञी नागिनी योगिनी तथा ॥ ८७१।२५९ ॥

नागेश्वरी नागराज्ञी नागरूपा सनातनी ।

भगवती नागिनी त्वं ते पादे प्रणमाम्यहम् ॥ ८७१।२६० ॥

सत्यभामे महाराज्ञि पाशाङ्कुशधरोत्तराम् ।

ऐश्वर्यं ते परं पक्षमैक्षवं धनुरेव च ॥ ८७१।२६१ ॥

बिभर्षि करपद्मे त्वं मनांसि कर्षसि प्रिये ।

नियन्त्रिका मनोराज्ञी योगमायास्वरूपिणी ॥ ८७१।२६२ ॥

अनेन धनुषा राज्ञि वशीकृतं जगत् त्वया ।

प्रेमविस्तारिणी साक्षात् प्रेमास्तित्वप्रसूतिनी ॥ ८७१।२६३ ॥

पाययसि जगत् सर्वं सोमपीयूषमुत्तमम् ।

महाभावस्वरूपा त्वं महारासस्वरूपिणी ॥ ८७१।२६४ ॥

रासमण्डलरूपा त्वं गम्भीरभावरूपिणी ।

गम्भीरप्रेमरूपा त्वं सर्वभावमयी प्रिये ॥ ८७१।२६५ ॥

अष्टसखिनियन्त्री त्वं कृष्णस्य च नियन्त्रिका ।

कृष्णशक्तिस्वरूपा त्वं कृष्णस्य जीवनं तथा ॥ ८७१।२६६ ॥

विश्वराज्ञि पदाम्भोजे साष्टाङ्गं प्रणमाम्यहम् ।

सर्वेन्द्रियनिहन्त्री त्वं सर्वकामनियन्त्रिका ॥ ८७१।२६७ ॥

गोविन्दीति च विख्याता गोस्वामिनी नमोऽस्तु ते ।

अन्यहस्तेन पञ्चैव पुष्पबाणान् प्रबिभ्रती ॥ ८७१।२६८ ॥

पवित्रपुष्पबाणांस्त्वं धृत्वा कारणकारिणी ।

अन्तिमलक्ष्यरूपा त्वं ते पादे प्रणमाम्यहम् ॥ ८७१।२६९ ॥

माधुर्यं ते परं पक्षं ललितासखि राधिके ।

पुनः पुनः पदाम्भोजे साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।२७० ॥

अष्टमं नाम ते राज्ञि रागस्वरूपपाशाढ्या ।

कामानां प्रेम्ण ईशानी सर्वास्तित्वनियन्त्रिका ॥ ८७१।२७१ ॥

आदिशक्तिस्वरूपा त्वं कामस्ते मूर्त्तिरेव च ।

पाशेनाकृष्य बद्धासि सर्वं कामं कृपामयि ॥ ८७१।२७२ ॥

ललितादेवि ते पादे साष्टाङ्गं प्रणमाम्यहम् ।

नवमं क्रोधाकाराङ्कुशोज्ज्वलेति च कीर्त्यते ॥ ८७१।२७३ ॥

अज्ञानक्रोधयोर्नाशकारिणी त्वं महेश्वरि ।

अज्ञानकामकोपानां नाशिनी ज्ञानदीपिका ॥ ८७१।२७४ ॥

क्रोधः कामस्तथा शोकः सुखं तीव्राश्च कामनाः ।

सहस्रारं गता राज्ञि ज्ञानरूपेण संस्थिताः ॥ ८७१।२७५ ॥

भोगात् क्षयं व्रजेत् काम इडापिङ्गलयोगतः ।

कुण्डलिन्यास्तथोर्ध्वं वै यातः सम्बोधितां व्रजेत् ॥ ८७१।२७६ ॥

क्षीयते बाह्यकोपो वै ह्योर्ध्वं यातो विबुध्यते ।

शोकहर्षौ तथा कामो ह्येवं ज्ञानं भवन्ति वै ॥ ८७१।२७७ ॥

तस्माच्छान्तो रणशूरो रणे जयति सर्वदा ।

क्रोधं शक्तौ परिणम्य खड्गेन हन्ति लीलया ॥ ८७१।२७८ ॥

मैथुनाद् विरमेत् ज्ञानी न पापेन कृपामयि ।

ऊर्ध्वं नीता कामशक्तिर्बलं पूर्णं प्रजायते ॥ ८७१।२७९ ॥

कामशक्तिस्तु तत् प्रेम राधाकृष्णपदाम्बुजे ।

यदा नीता महाराज्ञि तदा सम्बोधिरुच्यते ॥ ८७१।२८० ॥

आश्चर्यं परमं प्राप्तं दिव्यक्रोधो महेश्वरि ।

दिव्यहिंसा प्रजायेत ह्यधर्मनाशकारिणी ॥ ८७१।२८१ ॥

अत्यन्तकोमला साक्षात् किङ्करीणां कृपामयि ।

शत्रूणां भयानका त्वं ध्वंसिनी च भयङ्करी ॥ ८७१।२८२ ॥

किङ्करीं भोजयेद् या वै स्वहस्तेन कृपामयि ।

सा शत्रूणां रक्तपातं कृत्वा छिनत्ति मस्तकम् ॥ ८७१।२८३ ॥

ललिताया रहस्यं तत् सत्यभामास्वरूपिणी ।

त्रिपुरासुन्दरी साक्षाद् वृन्दारण्ये सखी मृदुः ॥ ८७१।२८४ ॥

विज्ञातं तव गूढं वै रहस्यं परमं मया ।

ऐतरेयोपनिषदः पठनात् परमेश्वरि ॥ ८७१।२८५ ॥

तस्य प्रथमाध्यायस्य खण्डे वै तृतीये प्रिये ।

मन्त्रे चतुर्दशे साक्षाद् यन्मया पठितं ध्रुवम् ॥ ८७१।२८६ ॥

तस्मादिदन्द्रो नाम । इदन्द्रो ह वै नाम । तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः । परोक्षप्रिया इव हि देवाः ॥

पञ्चवेदागमैः सर्वं विज्ञातं तव राधिके ।

रहस्यं परमे साक्षात् ते पादे प्रणमाम्यहम् ॥ ८७१।२८८ ॥

दशमं नाम ते राज्ञि मनोरूपेक्षुकोदण्डा ।

प्रेमबाणान् प्रमुञ्चन्ती मनांसि विध्यसि प्रिये ॥ ८७१।२८९ ॥

अस्माकं मानसं सर्वं त्वयि सक्तं करोषि वै ।

ललितादेवि ते पादे साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।२९० ॥

पञ्चतन्मात्रसायका ह्येकादशं च नाम ते ।

इन्द्रियाणां नियन्त्री त्वं गोविन्दीदेवि राधिके ॥ ८७१।२९१ ॥

कामस्य च विनाशिन्यै कर्ममुक्तिप्रदायिनि ।

यस्त्वां शरणमापन्नो ह्यहिंसां धर्तुमर्हति ॥ ८७१।२९२ ॥

अधर्म्या हिंसिका वृत्तिः कामस्येर्ष्याप्रसूतिका ।

सञ्जायते महाराज्ञि नास्ति तत्र विचारणा ॥ ८७१।२९३ ॥

यथा भगवद्गीतायां कृष्णस्ते पतिरुक्तवान् ।

द्वितीये हि तथाध्याये स भर्ता ते जगद्गुरुः ॥ ८७१।२९४ ॥

पवित्रवचनैरेवमुवाच राधिके प्रिये ।

कामक्रोधविनाशाय तत्त्वज्ञानमनिन्दितम् ॥ ८७१।२९५ ॥

॥ श्रीभगवानुवाच ॥

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।

सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ ॥

क्रोधाद्भ‍वति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।

स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ॥

रागद्वेषविमुक्तैस्तु विषयनिन्द्रियैश्चरन् ।

आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ॥

॥ श्रीराधाचरणरेणुरुवाच ॥

तस्माद् यः शरणं प्राप्तस्तव पादाम्बुजे प्रिये ।

काममुक्तो भवेत् स वै शान्तियुक्तो न संशयः ॥ ८७१।२९९ ॥

ईश्वरार्थे भवेत् क्रोधो न स्वार्थाय कदाचन ।

कस्यापि नैव हिंसां स करोति हि जगन्मयि ॥ ८७१।३०० ॥

अस्माकं दुर्बलत्वं वै स्वीकरोमि महेश्वरि ।

तस्मात् ते पदपद्मेषु पतिताहं कृपामयि ॥ ८७१।३०१ ॥

कामेभ्यो भौतिकेभ्यश्च संसारादुद्धरस्व माम् ।

सर्वं हि तव कृपया प्रजायते जगन्मयि ॥ ८७१।३०२ ॥

तस्मात् ते पादपद्मेषु साष्टाङ्गं प्रणमाम्यहम् ।

ललितादेवि ते राज्ञि राधिके मे नमो नमः ॥ ८७१।३०३ ॥

u/Initial_Fold_420 — 5 days ago
▲ 10 r/yugala+1 crossposts

श्री अष्टसखी नित्यप्रेमतारिणी प्रथमोध्यायः - वृन्दावनभजनम् (shree tungavidya sakhi stotram )

दीनदास्यां कृपां कृत्वा सर्वदा रक्ष सन्निधौ ।

तुङ्गविद्ये महादेवि वन्दे ते चरणाम्बुजम् ॥ ५९६ ॥

ज्ञात्वा ते महिमां दिव्यां भक्त्या प्रेम्णा च गाढतः ।तुङ्गविद्ये महादेवि स्तोत्रमेतल्लिखाम्यहम् ॥ ५९७ ॥

तुङ्गविद्ये महाराज्ञि दीनदास्या वचः शृणु ।तव माहात्म्यसम्मूढा प्रणमामि पदे तव ॥ ५९८ ॥

तुङ्गविद्याध्यानामृत-नाम्ना स्तोत्रमिदं मया ।कथितं ते पदाम्भोजे सस्नेहं खलु चार्पितम् ॥ ५९९ ॥

ध्यायामीति सुवर्णकुङ्कुमरुचं श्रीतुङ्गविद्यापदं प्राणेभ्योऽपि प्रियं हि जीवनधनं सर्वस्वरूपं हि मे । त्वां देवीं श्रुतिसामगीतनिरतां विश्वप्रकाशात्मिकां विद्यानामधिदेवतां हृदि सदा ते पादपद्मं वरम् ॥ ६०० ॥

साक्षात् त्वं विमला सरस्वति महावाग्देवता लक्ष्मणा त्वत्तः श्रीसकलजगच्छ्रुतिवरं ज्ञानं हि जग्राह वै । तस्मात् ते चरणाम्बुजं हि सततं नौमि प्रपञ्चेश्वरि कामाद्यैः पतितां भवार्णवगतां मां पाहि दीनाम् इमाम् ॥ ६०१ ॥

राधाकृष्णयुगप्रिया सुमधुरा ध्यायामि ते पद्मकं कृष्णे प्रेम यदा भवेत् तदनु वै राधानुरागोदयम् । राधायाम् अनुरागतो हि भवतीप्रेम्नां प्रवर्धो भवेत् द्वारेशीं मम स्वामिनीं भुवि सदा हे तुङ्गविद्येश्वरि ॥ ६०२ ॥

हे विश्वेश्वरि सर्वज्ञाननिधिके राधास्यवागीश्वरि राधा स्तोभमयी प्रभुस्तु विदितः सामस्वरूपो मुदे । त्वं साम्नः स्वरच्छन्दमानरुचिरा केकीकुरङ्गेश्वरि श्रीराधाललिताविशाखसखिके वन्दे पदाम्भोजकम् ॥ ६०३ ॥

पापात्मिकाहं कृपणा विमूढा

न वेद्मि किञ्चित् खलु दासिका अहम् ।

कथं नु यास्ये परमां हि सिद्धिं

विना कृपां ते वृषभानुजायाः ॥ ६०४ ॥

कृपां विना वो मम का गतिर्हि

कृपां कुरुष्वाद्य महेश्वरि त्वम् ।

शिशुर्यथाहं कृपणासहाया

कथं प्रपद्येत प्रपञ्चमार्गे ॥ ६०५ ॥

कथं वदेद् वा स कथं विचिन्त्येत्

कथं स वृद्धिं लभतामनाथः ।

तस्माद् विपोष्यां शिशुरूपिणीं मां

पादे निपन्नां कुरु रक्षणं मे ॥ ६०६ ॥

पापादशेषात् परिपाहि मां द्राक्

पवित्रमूर्तीं कुरु मामथाद्य ।

हे तुङ्गविद्ये कुरु दासिकां मां

शुद्धा कथं स्यामिति मे प्रशिक्ष ॥ ६०७ ॥

कामोऽभिमानश्च तथा हि गर्वः

क्रोधस्तथा लोभविकारभावाः ।

एतैर्विमुक्ता कथमित्र भूयां

कामं कथं वा वशगं करोमि ॥ ६०८ ॥

यस्मात् पतन्तीह महामुनीन्द्राः

कामात् कथं स्यादबला विमुक्ता ।

दीना वराकी कथमेतमुग्रं

कामं जयेद् दीनबला हि दासी ॥ ६०९ ॥

क्रोधेन ग्रस्ता ऋषयो भवन्ति

कथं निरुन्ध्यामहमेव क्रोधम् ।

गर्वेण युक्ता मुनयोऽपि यत्र

कथं प्रमथ्याममुमेव गर्वम् ॥ ६१० ॥

न वेद्मि किञ्चिज्जडबुद्धिरस्मि

स्खलन्ति यद्यत्र महामुनीन्द्राः ।

का तस्य वार्ता मम मन्दबुद्धेः

प्रज्ञाविहीना सुमतिच्युतास्मि ॥ ६११ ॥

न वेद्मि किञ्चिद् भ्रमितास्मि लोके

हस्तं गृहीत्वा कुरु मे कृपां द्राक् ।

हे राधिकाकृष्णप्रियेऽनुकम्पे

कृपां विदध्या मयि दीनदास्याम् ॥ ६१२ ॥

धृत्वा करं मे निजराजहर्म्ये

प्रवेशयास्मां शुभराजहर्म्ये ।

शिक्षस्व राधाहरितोषणं मे

गोलोकधाम्ने कथमर्हता स्याम् ॥ ६१३ ॥

जेयानि चाक्षाणि मया कथं हि

गोस्वामीभावं कथमवाप्नुयां द्राक् ।

नेत्रं प्रपूतं कथमेव कुर्यां

श्रुतिस्तथा स्यात् कथमेव शुद्धा ॥ ६१४ ॥

मुखं च शुद्धं कथमेव स्यान्मे

चित्तं तथा वा कथमेव पूतम् ।

दीनास्म्यबुद्धीरहितास्मि मात:

कृपां कुरुष्वाद्य महेश्वरि त्वम् ॥ ६१५ ॥

वन्दे पदाब्जं जगदीश्वरि ते

वेदस्य विद्यामयि दिव्यरूपे ।

रक्षस्व मां दीनजनं प्रपन्नं

हे तुङ्गविद्ये कृपयाव दीनाम् ॥ ६१६ ॥

राधामहाविग्रहरूपिणि त्वं

हे तुङ्गविद्ये वरगोपिके ते ।

पादाब्जयुग्मं नवबालसूर्य-

प्रफुल्लरक्तोत्पलतुल्यकान्तिम् ॥ ६१७ ॥

कौशेयवस्त्रादपि कोमलं तत्

मृदुप्रकृत्या सुविराजते हि ।

अलक्तकेनैव हि रञ्जितानि

पार्श्वानि पादस्य तलानि तेऽद्य ॥ ६१८ ॥

पृष्ठं पदस्यातिसितं विभाति

प्रान्तेषु रक्ताभमनोहरं तत् ।

नखानि भान्तीन्दुसमानि देवि

पूर्णेन्दुखण्डानि यथैव राज्ञि ॥ ६१९ ॥

मुक्तासमानं नखकान्तिजालं

वृन्दावनश्रीप्रतिबिम्बरूपम् ।

चिन्मयधाम्नः खलु रश्मिपुञ्जं

प्रकाशते ते चरणाग्रभागे ॥ ६२० ॥

चिह्नानि चत्वारि पदे पवित्रे

वीणा झषो दक्षिणपादमध्यै ।

वामे च पद्माम्बुजशङ्खचिह्नं

विराजते ते चरणारविन्दे ॥ ६२१ ॥

चलत्यहो मञ्जुरवं करोति

सुवर्णमञ्जीरयुगं पदे ते ।

माणिक्यरत्नैर्मरकतैश्च बद्धं

नृत्यत्यहो वेपते मञ्जुनादम् ॥ ६२२ ॥

नृत्यप्रचारे सति नूपुरं ते

सप्तस्वराणां प्रकटीकरोति ।

सङ्गीतविद्याध्वनिकम्पनानि

सामश्रुतीनां खलु गानरूपम् ॥ ६२३ ॥

रासस्य लीला त्वयि पूर्तरूपा

हे विश्वराज्ञि महिमासमेते ।

हे तुङ्गविद्ये जगदीश्वरी त्वं

नमामि नित्यं चरणौ सुचारू ॥ ६२४ ॥

पादारविन्दस्य रजो लभेय

तेनैव गात्रं सुविभूषयामि ।

हे तुङ्गविद्ये परमोच्चराज्ञि

तृष्णा ममैवास्ति तदम्बुपाने ॥ ६२५ ॥

यत्तीर्थरूपं चरणाम्बुजं ते

प्रक्षालितं तज्जलमेव काङ्क्षे ।

पादाब्जरेणुः परमं हि रम्यं

ते पादपद्मामृतमद्वितीयम् ॥ ६२६ ॥

रजोऽमृतं ते चरणस्य काङ्क्षे

कृपां कुरुष्वाद्य हि वेदरूपे ।

सङ्गीतविद्यासकलप्रवीणे

राज्ञि प्रदेहि प्रचुरं प्रसादम् ॥ ६२७ ॥

प्रीतिर्हि मे त्वय्यतुलास्ति मातर्

धन्यास्मि यस्मात् तव पालनेऽहम् ।

किञ्चिन्न वेद्मि न च योग्यरूपा

कृपावशात् ते चरणाश्रितास्मि ॥ ६२८ ॥

अकिञ्चनाहं पतिता वराकी

विशालकारुण्यभरैस्त्वयाहम् ।

स्वकीयदासीपदमर्पितास्मि

तस्मात् पदे ते प्रणमामि नित्यम् ॥ ६२९ ॥

पादध्यानस्य पश्चाद् वै लज्जया नम्रिता भृशम् ।

न शक्नोमि शिरो नेतुं ऊर्ध्वं ते चरणाम्बुजात् ॥ ६३० ॥

तस्मादत्रैव सन्तुष्टा पादाब्जध्यानकर्मणि ।

तव कीर्तिं प्रगास्यामि महिमानं तवैव हि ॥ ६३१ ॥

हे राज्ञि सर्वसृष्टीनां त्रैलोक्यज्ञानपण्डिते ।

वृन्दावनकलाभिज्ञे तुङ्गविद्ये नमोऽस्तु ते ॥ ६३२ ॥

अत एव सदाकालं नमामि चरणौ तव ।

अनन्तकालपर्यन्तं पादयोस्ते रतास्म्यहम् ॥ ६३३ ॥

अतीव दुःखितास्मि हा स्वामिनि तुङ्गविद्यके ।

श्रीरूपमञ्जरीयुक्ता कुरु मां शुद्धमानसाम् ॥ ६३४ ॥

दुर्बलास्मि न शक्नोमि कर्तुं किञ्चिद् विना हि वाम् ।

कथं सेवा मया कार्या लज्जया नमिता भृशम् ॥ ६३५ ॥

वराकी दीनरूपास्मि तोषयितुं यते नित्यम् ।

हे राज्ञि देवि पवित्रे कर्तुं तुष्टां निरन्तरम् ॥ ६३६ ॥

शिक्षयस्व महादेवि इन्द्रियाणि मनो वशे ।

आत्मा च स्थाप्यते येन कृपया देहि तज्ज्ञानम् ॥ ६३७ ॥

राधाकृष्णानुरूपा हि गतिर्मे स्यात् कथं भुवि ।

आचारश्च कथं कार्यो युगलप्रीतिवर्धनः ॥ ६३८ ॥

कीदृशी ते भवेद् दासी कीदृशी चाहमस्मि वै ।

कथं गच्छे कथं जल्पे कथं वर्तेत सर्वदा ॥ ६३९ ॥

शुद्धाम् मां कुरु विश्वेशि शाधि मां कृपया स्वयम् ।

अज्ञानास्मि वराकी च मन्दबुद्धिर्ह्यकिञ्चना ॥ ६४० ॥

मद्दृशी दीनरूपा वै त्वामेवापेक्षते भृशम् ।

तस्मात् कुरु दयां मह्यं हे तुङ्गविद्ये स्वामिनि ॥ ६४१ ॥

u/Initial_Fold_420 — 7 days ago
▲ 12 r/yugala+1 crossposts

अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः ॥ (Ananta Radhika Mahatmya)

राधिके ते पदाम्भोजे साष्टाङ्गं प्रणमाम्यहम्।

महाराज्ञि जगद्रत्ने त्रैलोक्य-मूल-कारणे॥ ८७१.६८ ॥ दशमहाविद्यारूपा त्वमष्टमातृका प्रिये।

चतुःषष्टियोगिनीनां समूहोऽसि महेश्वरि॥ ८७१.६९ ॥

सावित्री त्वं तथा स्वाहा सरस्वती त्वमेव च।

लक्ष्मीर्दुर्गास्वरूपा त्वं सर्वशक्तिप्रसूतिनी॥ ८७१.७० ॥

ब्रह्माण्डे सर्वशक्तीनां मूलरूपासि राधिके।

साक्षात् कृष्णस्वरूपा त्वं स्वयं कान्हो न संशयः॥ ८७१.७१॥

यन्मया लिखितं पूर्वं यच्च लेख्यं भविष्यति।

दशलक्षश्लोकमयी साधनेयं मदाश्रिता॥ ८७१.७२ ॥

दशलक्षमतिक्रम्य यास्यत्येषा महास्तुतिः।

तव साम्राज्य-महिम्नः क्षुद्राणुर्हि न सा स्मृता॥ ८७१.७३ ॥

ब्रह्माण्डं सुविशालं च दृष्ट्वा मानवकं जडम्।

अनन्तानि च तत्त्वानि जीवान् विज्ञानमेव च॥ ८७१.७४ ॥ अज्ञानान्मन्यते नित्यं सर्वं ज्ञातं मयेति वै।

न किञ्चिदेव जानन्ति मूर्खास्ते माययावृताः॥ ८७१.७५ ॥ पदार्थस्याखिलावस्था ज्ञाता इत्यभिमानिनः।

पश्चाद् गच्छन्ति ते नित्यं अज्ञाने स्वस्य निश्चिते॥ ८७१.७६.१ ॥

कठिनं तरलं चैव वाष्प-रूपं तथा प्रिये।

चतुर्थी च ह्यवस्था वै वाष्प-तरल-मध्यगा॥ ८७१.७६.२ ॥

ते न जानन्ति मूढा वै ह्यवस्था अष्टधा स्मृताः।

अष्ट-सङ्ख्या महाराज्ञि ह्यनन्त-रूप-वाचिका॥ ८७१.७६.३ ॥ पदार्थानां ह्यनन्तानि रूपाणि सन्ति राधिके।

मानवानां च बुद्ध्या वै बोद्धुं नैव हि शक्यते॥ ८७१.७६.४ ॥ ब्रह्मास्त्रस्य च या शक्ति-रज्ञाता तैर्-महेश्वरि।

ब्रह्मास्त्रादपि यत्पारं न जानन्ति हि ते जनाः॥ ८७१.७६.५ ॥ यथा जात्यन्ध-मर्त्यो वै वर्णानां ज्ञान-वर्जितः।

अदृष्ट्वा न हि जानाति वर्णानां रूपमद्भुतम्॥ ८७१.७६.६ ॥

तथैव ते ह्यबुधा वै तव कृपा-प्रसादतः।

दृष्टवन्तो ज्ञात-वर्णान् श्वेत-वर्णं तथा प्रिये॥ ८७१.७६.७ ॥

सप्त-वर्णा हि मिलिताः श्वेत-प्रकाश-रूपिणः।

मनो बोद्धुं न शक्तं तान् तस्मात् श्वेतं प्रपश्यति॥ ८७१.७६.८ ॥ दिव्य-चक्षुर्-दृशा चैव न श्वेतो वर्ण एव हि।

पश्यति विस्मितः साक्षात् सर्व-वर्ण-समागमम्॥ ८७१.७६.९ ॥ अदृष्ट-दिव्य-चक्षुर्भिर्-अबोध्यं तद् धि मानवैः।

तस्मात् ते परमं तत्त्वं नमामि परमेश्वरि॥ ८७१.७६.१० ॥

सर्वस्य मूलरूपा त्वं स्वप्नानां मूलमेव च।

स्वप्नानां हेतुमस्तित्वं मानवा न विदन्ति हि॥ ८७१.७६.११ ॥

निद्रायां देहतो जीवः कथं भिन्नः प्रजायते।

न जानन्ति सूक्ष्मशक्तिं स्वप्नरूपां कृपां तव॥ ८७१.७६.१२ ॥

साधनायां स्थितं ज्ञानं क्षुद्रधूलिकणो ह्ययम्।

ब्रह्माण्डसागरः साक्षात् कल्पनातीतरूपकः॥ ८७१.७६.१३ ॥

मुहुर्ध्यायामहे रूपं तवानन्तमसीमकम्।

धरावतरणे राधे वर्णनानां हि धारतः॥ ८७१.७६.१४ ॥

अस्माकं कल्पना राज्ञि न कदाचित् सती भवेत्।

त्वच्चित्रं धारयामश्च यतस्त्वय्यनुरागिणः॥ ८७१.७६.१५ ॥

महाराज्ञि महादेवि रुक्मिणि स्वर्णवर्णिनि।

द्वारकाधीशपत्नि त्वं सत्यभामाप्रिये तथा॥ ८७१.७६.१६ ॥

ललितादेवि-रूपा त्वं सुदर्शनस्वरूपिणी।

त्रिपुरसुन्दरि माता षोडशी भ्रामरी परा॥ ८७१.७६.१७ ॥

भ्रमराणां महाराज्ञी देवी साधकशक्तिदा।

प्रकाशयसि यद् विश्वं ज्योतिरूपा सनातनी॥ ८७१.७६.१८ ॥

जगत्स्रष्ट्री त्वमेवासि कम्पामि दृष्ट्वा मूर्खकान्।

मानवान् ईर्षया युतान् त्वयि मत्सरधारिणः॥ ८७१.७६.१९ ॥

मानवीं योषितं मत्वा कुर्वन्ति त्वयि मत्सरम्।

क्षमास्व तान् महामातः अज्ञानान्-माययान्धितान्॥ ८७१.७६.२० ॥

न जानन्ति जगदीशां परदेवीं सनातनीम्।

त्वमेव कृष्णरूपासि न जानन्ति हि राधिके॥ ८७१.७६.२१ ॥

याचे त्वां कुरु कारुण्यं तेषु त्वं परमेश्वरि।

शिशुपालविनाशिनि संहारकारिणि प्रिये॥ ८७१.७६.२२ ॥

ब्रह्मणा प्रार्थिता त्वं हि विष्णुजागरणाय च।

मधुकैटभनाशाय योगनिद्रा महेश्वरि॥ ८७१.७६.२३ ॥

योगमाया योगनिद्रा साक्षाद् दुर्गा त्वमेव हि।

देवीमाहात्म्यग्रन्थो वै प्रतिवर्णं स्तवीति त्वाम्॥ ८७१.७६.२४ ॥

काली तारा त्वमेवासि चण्डमुण्डशिरोहरे।

संहारकर्त्रि पालिनि जगत्स्रष्ट्रि नमोऽस्तु ते॥ ८७१.७६.२५ ॥

तव तत्त्वं परं साक्षात् परमं सत्यमेव च।

तस्मात् ते पादपद्मेषु साष्टाङ्गं प्रणमाम्यहम्॥ ८७१.७६.२६ ॥

ब्रह्मणा शिवदेवेन मुनिभिः पूजिता प्रिये।

महाकालस्वरूपा त्वं जगत्-संहार-कारिणी॥ ८७१.७६.२७ ॥

अनन्तरूपिणी राधे ह्यनन्तलिङ्गरूपिणी।

अमेया त्वं ह्यगम्या च केवलं कृपया श्रुता॥ ८७१.७६.२८ ॥

आद्यन्त-रहिता साक्षात् काल-मृत्यु-विनाशिनी।

त्वमेव कृष्ण-गोविन्दो हरिस्त्वं हि मुरारिका॥ ८७१.७६.२९ ॥

ऋग्वेद-सार-रूपा त्वं ऋग्वेदे वाक्-स्वरूपिणी।

तस्या जिह्वा-गता वाणी तस्याश्चित्तं च चेतना॥ ८७१.७६.३० ॥

त्वयैवोच्चारिता वाणी जगत्-सृष्टि-प्रवाहिनी।

देवीसूक्त-स्वरूपा त्वं वेदे पुरुष-रूपिणी॥ ८७१.७६.३१ ॥

लक्ष्मीर्हरिस्तथा विष्णुः शिवस्त्वं परमेश्वरि।

अग्नीन्द्र-वायु-देवैश्च पूजिता सर्व-दैवतैः॥ ८७१.७६.३२ ॥

वृत्रासुर-विनाशस्य पत्न्यसि कालियापहा।

अघासुर-विनाशस्य व्योमासुर-हरस्य च॥ ८७१.७६.३३ ॥

कंस-प्रमथ-पत्नी त्वं शिशुपाल-शिरो-हृतः।

त्वमेव कंस-हन्त्री वै मधुकैटभ-नाशिनी॥ ८७१.७६.३४ ॥

बकासुर-निहन्तुश्च पत्नी ब्रह्मास्त्र-रूपिणी।

ब्रह्मास्त्र-हृदयं साक्षात् तद्-लक्ष्य-घात-नाशिनी॥ ८७१.७६.३५ ॥

जीवनं मरणं चैव शत्रूणां रोग-नाशिनी।

भक्तानां पावनी साक्षात् तन्त्र-यन्त्र-स्वरूपिणी॥ ८७१.७६.३६ ॥

मन्त्र-रूपा तथा राज्ञि वशीकरण-तन्त्रिका।

आकर्षण-स्वरूपा त्वं स्तम्भनोच्चाटनात्मिका॥ ८७१.७६.३७ ॥

विद्वेषण-स्वरूपा त्वं साधकानां हि रक्षिका।

वशीकृदाकर्षणेभ्यो विद्वेषण-प्रियादिभ्यः॥ ८७१.७६.३८ ॥

स्तम्भनोच्चाटनात् तन्त्रात् रक्षिका कवचाम्मयी।

संहार-शक्ति-रूपा त्वं भक्तानुरक्त-देवता॥ ८७१.७६.३९ ॥

परमा-मातृ-रूपा त्वं ह्यहङ्कार-विवर्जिता।

त्रिगुणातीता-रूपा वै निराकारा च निर्गुणा॥ ८७१.७६.४० ॥

निराकुलाति-तत्त्वातीता तत्त्वातीता-धराति-गा।

विश्व-रहस्य-रूपा त्वं राधिके परमेश्वरि॥ ८७१.७६.४१ ॥

शक्त्यतीता तथा राज्ञि विश्वातीता नमोऽस्तु ते।

कारातीता त्रिगुणातीता नित्यातीतानन्दातिगा॥ ८७१.७६.४१ ॥

ज्ञात-रूपमज्ञातं च सर्वमतीत्य संस्थिता।

सृष्टेः पार-गता देवी सृष्टि-शक्तेश्च पार-गा॥ ८७१.७६.४३ ॥

असृष्ट-रूपा त्वं साक्षात् परमा-देवता यतः।

तस्मात् ते पाद-पद्मेषु साष्टाङ्गं प्रणमाम्यहम्॥ ८७१.७६.४४ ॥

सृष्टं त्वया जगत् सर्वं रहस्यं तत्त्वमेव ते।

अमेया त्वं न बोद्धव्या भौतिकेन्द्रियगोचरैः॥ ८७१.७६.४५ ॥

कृष्णं पतिं विना नान्यः स्प्रष्टुं शक्नोति राधिके।

स एव त्वं हि सर्वेशि त्वं वै लिङ्गस्वरूपिणी॥ ८७१.७६.४६ ॥

यतो नान्तस्तवादिर्वा त्वं चासीमस्वरूपिणी।

ते देहो रूपमप्येवमनन्तं बोधपारगम्॥ ८७१.७६.४७ ॥

त्वं मे चोर्ध्वं तथा चैव सर्वदिक्षु परिवृता।

त्वमन्नं यदहं खाद्मि त्वं मे शक्तिः समन्ततः॥ ८७१.७६.४८ ॥

चेतना मे गृहं त्वं हि लेखनी साधनं तथा।

त्वया त्वां स्तौमि राधिके सूर्यस्त्वं चन्द्र एव च॥ ८७१.७६.४९ ॥

सर्वसत्तास्वरूपा त्वमनन्तलिङ्गरूपिणी।

स्वस्तिश्रीयन्त्ररूपा त्वं पञ्चवेदैश्च पूजिता॥ ८७१.७६.५० ॥

श्रीकृष्णचैतन्यदेवः महाप्रभुः प्रपूजयेत्।

त्वमेव श्रीचैतन्यस्त्वं षड्गोस्वामिन एव च॥ ८७१.७६.५१ ॥

गदाधरस्वरूपा त्वं तथा जाह्नवीमातृका।

नवद्वीपो मथुरा त्वं वृन्दावनं तथा प्रिये॥ ८७१.७६.५२ ॥

द्वारका गङ्गारूपा त्वं यमुनासिन्धुरूपिणी।

सरस्वतीस्वरूपा त्वं तस्मात्ते चरणाम्बुजे॥ ८७१.७६.५३ ॥

प्रणमामि महाराज्ञि जगदीश्वरि राधिके।

नास्ति भेदस्त्वया सार्द्धं कृष्णस्य हि कदाचन॥ ८७१.७६.५४ ॥

यस्त्वां पूजयति राज्ञि तेन कृष्णः प्रपूज्यते।

कृष्णं यः पूजयेद्भक्त्या तेन त्वं पूजिता प्रिये॥ ८७१.७६.५५ ॥

ज्ञानिनः सर्वमेतद्वै जानन्ति परमाद्भुतम्।

तेषां च पादपद्मेषु साष्टाङ्गं प्रणमाम्यहम्॥ ८७१.७६.५६ ॥

आत्मानं निक्षिपाम्येवं तव पादाम्बुजे तथा।

कान्हजीशस्य ते सार्द्धं सेवायै करणं भवे॥ ८७१.७६.५७ ॥

कृष्णः पुंरूपमूर्त्तिर्वै त्वं च स्त्रीरूपधारिणी।

कृष्णः स्त्रीरूपमूर्त्तिर्वै त्वं च पुंरूपधारिणी॥ ८७१.७६.५८ ॥

यो जानाति रहस्यं तत् स जन्ममृत्युमुच्यते।

तव पादाम्बुजे राज्ञि नित्यं तिष्ठति शाश्वतम्॥ ८७१.७६.५९ ॥

स्निह्यामि त्वां महामातः पापिनश्च क्षमस्व वै।

ते भ्रान्ता ज्ञानहीनाश्च त्वत्तत्त्वबोधवर्जिताः॥ ८७१.७६.६० ॥

प्रकाशय महाराज्ञि तेषां बुद्धिं कृपामयि।

यथांशस्त्वं मया ज्ञाता राधिके त्वं तथास्तु तान्॥ ८७१.७६.६१ ॥

जानीयुः किमनन्ता त्वं जगदीशीति नूनतम्।

तान् रक्षोद्धर देवेशि ज्ञानज्योतिः प्रदाय च॥ ८७१.७६.६२ ॥

कल्याणं सर्वभूतानां याचे स्वार्थविवर्जिता।

श्यामसुन्दरनाथस्य तव चानन्दकारणम्॥ ८७१.७६.६३ ॥

उपकरणमात्रं मे भवितुं वाञ्छति प्रिये।

राधिकौङ्काररूपा त्वं त्वं ह्यौङ्कारस्वरूपिणी॥ ८७१.७६.६४ ॥

औङ्कारोच्चगतो बिन्दु-स्वरस्त्वं ह्यनुच्चारितः।

यतोऽज्ञेया त्वं देवेशि स्वस्तिस्त्वं सर्वयन्त्रिका॥ ८७१.७६.६५ ॥

स्निह्यामि त्वां प्रिये राधे स्निह्यामि त्वां मुहुर्मुहुः।

साष्टाङ्गं प्रणिपातेन वन्दे ते चरणाम्बुजम्॥ ८७१.७६.६६ ॥

त्वत्स्वभावं महाराज्ञि पवित्रं शिक्षितं मया।

ज्ञात्वा ज्ञात्वा तु गम्भीरं प्रकम्पामि मुहुर्मुहुः॥ ८७१.७७ ॥

तव माहात्म्यसाम्राज्य-प्रभावादस्मि विस्मिता।

देवीश्रीमद्भागवते यन्मया पठितं प्रिये॥ ८७१.७८ ॥

षष्टिसहस्रवर्षाणि ब्रह्मा वै तप आचरत्।

तव पादनखाग्राणां दर्शनार्थं महेश्वरि॥ ८७१.७९ ॥

स्वप्नेऽपि न समर्थोऽभूद् द्रष्टुं तानि कदाचन।

यदा कृपा त्वया साक्षाद् वृन्दावने प्रदर्शिता॥ ८७१.८० ॥

तदा ददर्श ते रूपं राधिके परमेश्वरि।

ब्रह्मादीनामसङ्ख्यानां ब्रह्माण्डानां च कोटिशः॥ ८७१.८१ ॥

अनन्तसृष्टिनाथाना-मधीशा परमेश्वरी।

अनुमन्यस्व मां राज्ञि ध्यातुं रूपं तवाद्भुतम्॥ ८७१.८२ ॥

ललितादेवि-रूपं ते ध्यास्यामि परमेश्वरि।

सहस्रनाममन्त्रैश्च पवित्राणां सुपावनैः॥ ८७१.८३ ॥

ब्रह्माण्ड-महा-पुराणे खण्डे चोत्तरभागके।

ललितोपाख्यानग्रन्थे वर्णितानि कृपामयि॥ ८७१.८४ ॥

तदग्रे ते पदाम्भोजे साष्टाङ्गं प्रणमाम्यहम्।

महाराज्ञि महाराधे वन्दे ते चरणाम्बुजम्॥ ८७१.८५ ॥

u/Initial_Fold_420 — 9 days ago
▲ 11 r/yugala+1 crossposts

अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः ॥ (radha svaha stotrm, agnidev stotram)

तिलतैलप्रदीपेन प्रज्वालिते महेश्वरि।

अग्निदेवस्य पुरतः कृत्वा पूजां तवाम्बिके॥ ८७१.१ ॥

मम प्रार्थनाया नित्यं साक्षी भवतु पावकः।

विष्णुसहस्रनामानि पठ्यन्ते परितो मम॥ ८७१.२ ॥

नारायणः प्रभुः साक्षात् साक्षी भवतु राधिके।

तव पूजां प्रकुर्वाणां पश्यतु मां प्रिये शिवे॥ ८७१.३ ॥

अग्निदेवस्तथा सर्वं पश्यतु परमेश्वरि।

अनुमन्यस्व मां राज्ञि कर्तुं स्तुतिमिमां शुभाम्॥ ८७१.४ ॥

अग्निदेवि महाराज्ञि सर्वास्तित्वाग्निरूपिणि।

भास्करि राधिके राज्ञि साष्टाङ्गं प्रणमाम्यहम्॥ ८७१.५ ॥

सर्वाङ्गेन प्रपन्नाहं राधे ते चरणाम्बुजे।

साष्टाङ्गं प्रणमाम्यहं त्वां भजामि मुहुर्मुहुः॥ ८७१.६ ॥

ॐ कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं ॥ ८७१.७ ॥

अग्नि-देव-शक्ति स्वाहा देवि-शक्ति रं रं रं धं धं धं ॥ ८७१.८ ॥

ॐ परम् भास्कराय स्वाहा ॥ ८७१.९ ॥

ॐ परम् सत्य स्वाहा ॥ ८७१.१० ॥

ॐ परम् शक्ति स्वाहा ॥ ८७१.११ ॥

ॐ वह्नि-साराय स्वाहा ॥ ८७१.१२ ॥

ॐ सर्व-अज्ञान-दाहक-प्रकाश-वह्नये स्वाहा ॥ ८७१.१३ ॥

ॐ प्रबुद्ध-कुण्डलिनी-वह्नये स्वाहा ॥ ८७१.१४ ॥

ॐ शक्ति शक्ति शक्ति स्वाहा ॥ ८७१.१५ ॥

ॐ त्रिलोक-वह्नये स्वाहा ॥ ८७१.१६ ॥

ॐ प्रकाश-सूर्याय यज्ञ-वह्नये सर्व-विद्यमान-वह्नये च स्वाहा ॥ ८७१.१७ ॥

ॐ स्वप्रकाशा-भास्कराय स्वाहा ॥ ८७१.१८ ॥

ॐ प्रज्वलित-यज्ञ-वह्नि-स्वधायै स्वाहा ॥ ८७१.१९ ॥

रक्ष मां रक्ष मां रक्ष मां स्वाहा ॥ ८७१.२० ॥

कवचं मां कवचं मां कवचं मां स्वाहा ॥ ८७१.२१ ॥

कृपां मां कृपां मां कृपां मां स्वाहा ॥ ८७१.२२ ॥

असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मामृतं गमय स्वाहा ॥ ८७१.२३ ॥

ॐ शान्तिः शान्तिः शान्तिः स्वाहा ॥ ८७१.२४ ॥

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्॥ ८७१.२५ ॥

ॐ अग्नि-तत्त्वाय विद्महे स्वाहा-रूपायै धीमहि तन्नो राधिका प्रचोदयात् ॥ ८७१.२६ ॥

ॐ अस्य श्री-श्री-राधा-स्वाहा-परम-संवित्-स्तोत्र-महामन्त्रस्य, अग्निदेवः साक्षी, अकिञ्चना प्रेमकिङ्करी साधिका, अनुष्टुप् छन्दः, श्रीराधा देवता, ॐ कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं इति बीजम्, ह्लादिनी इति शक्तिः, श्रीराधिकैश्वर्य-परम-विद्या-प्राप्त्यर्थे परम-तत्त्वातीता-पाठे विनियोगः ॥ ८७१.२७ ॥

यज्ञ-वह्नये जयोऽस्तु पवित्र-वह्नये जयः।

यज्ञ-दूताय देवाय ह्यग्नये च जयो जयः॥ ८७१.२८ ॥

यज्ञ-हृदय-रूपायै स्वाहायै च जयो जयः।

पच्यते येन चान्नं वै हूयते येन चाहुतिः॥ ८७१.२९ ॥

रक्षामहे वयं येन रक्षा-शक्तिर्-महान् हि सः।

सत्यं तवैव शक्तिर्हि वह्नि-रूपा हि राधिके॥ ८७१.३० ॥

अतीव-निर्मलो वह्निर् न कदापि प्रदुष्यति।

स्वप्रकाशा हि स्वाहा त्वं ह्येतत् ते रूपकं प्रिये॥ ८७१.३१ ॥

वह्नेरुत्पत्ति-रूपा त्वं विना वह्निं प्रकाशताम्।

सूर्याणां विद्युतां चैव मूलरूपा त्वमेव हि॥ ८७१.३२ ॥

सर्व-रूपेण वह्निस्त्वं सर्व-भासा त्वमेव हि।

राधिका परमाराज्ञि वन्दे ते चरणाम्बुजम्॥ ८७१.३३ ॥

परमं सत्यमाख्यातं रहस्यं यत् प्रकाशितम्।

स्वाहा त्वं हि महाराज्ञि श्यामसुन्दरोऽग्निदेवः॥ ८७१.३४ ॥

अस्तित्वे परमौ ख्यातौ मूल-तत्त्वौ सुपावनौ।

तयोर्योगेन ते राज्ञि देह-वर्णो महाद्भुतः॥ ८७१.३५ ॥

सुवर्णस्य च वह्नेश्च यदा योगः प्रजायते।

अस्तित्वे सा महा-शक्तिः सर्वोपरि विराजते॥ ८७१.३६ ॥

यतो हि निर्मलो वह्निः सुवर्णं तत्त्वमुत्तमम्।

न नश्यति न जीर्णं वै नित्यं तिष्ठति शाश्वतम्॥ ८७१.३७ ॥

स्व-भारं नैव मुञ्चेत् तत् तप्त-काञ्चन-सन्निभम्।

तव गात्रं यदा पश्ये तदा जाने कृपामयि॥ ८७१.३८ ॥

सुवर्णं पावनं यद्वद् बलवद् वह्नि-पावनम्।

अस्तित्वे सर्व-यज्ञाश्च सर्व-वह्नय एव च॥ ८७१.३९ ॥

तव पत्युश्च कान्हस्य तुभ्यमेव समर्पिताः।

वह्नि-शक्त्या च जीवान् वै त्वमेव पोषयस्यहो॥ ८७१.४० ॥

आग्नेयी-स्वामिनी स्वाहा दाहिका-शक्तिरेव च।

नाम्नि ते 'रं' महाराज्ञि वह्नि-बीजं सुसंस्थितम्॥ ८७१.४१ ॥

यतो हि पावनी वह्नि-मूला त्वं परमेश्वरि।

सच्चिदानन्द-रूपं ते विग्रहं दिव्यरूपकम्॥ ८७१.४२ ॥

न पञ्च-भूत-सम्भूतं भौतिको वह्निरप्यहो।

तव शक्तेरंश-रूपः सर्वास्तित्वेश्वरी हि त्वम्॥ ८७१.४३ ॥

पवित्र-वह्नि-रूपा त्वं वह्नि-स्रष्ट्री त्वमेव च।

अग्नि-देवो हि देवाश्च तुभ्यं नम्रन्ति सर्वदा॥ ८७१.४४ ॥

महाराधिके ते पादे महिमा ते सुविस्तृतः।

विवाहे साक्षि-रूपोऽग्निः सर्व-वह्नि-स्वरास्तथा॥ ८७१.४५ ॥

सूर्यस्त्वं च तपस्त्वं हि विरहाग्निस्त्वमेव च।

विनाश-शक्ति-रूपा त्वं भस्मी-कर्तुं क्षमा जगत्॥ ८७१.४६ ॥

कोटि-सूर्य-प्रतीकाशा तव शक्तिर्-महेश्वरि।

विश्वे त्वमेव सा शक्तिः शोधने या हि सक्षमा॥ ८७१.४७ ॥

तस्माद् याचे महाराज्ञि दास्याः पापं दहस्व मे।

सर्वा भौतिक-वाञ्छाश्च दास्या हृदि दहस्व वै॥ ८७१.४८ ॥

पवित्रे वह्नि-देवि त्वं वह्नि-मूलं च हृद्-गते।

सर्व-सृष्टेर्-विधात्रि त्वां वन्दे ते चरणाम्बुजम्॥ ८७१.४९ ॥

अन्न-पाचन-वह्निस्त्वं ऊर्जां यः परिवर्तयेत्।

मणिपूरक-चक्रस्य महा-वह्नि-प्रदायिनी॥ ८७१.५० ॥

कुण्डलिनी-स्वरूपा त्वं साधकं भस्म-कारिणी।

देह-त्यागं प्रकुर्वाणा यज्ञ-कर्त्री त्वमेव हि॥ ८७१.५१ ॥

यज्ञ-रूपा तथा राज्ञि यज्ञ-भोक्त्री त्वमेव च।

स्वाहा त्वं हि त्वया हीनो वह्निर्भस्म भवेत् स्वयम्॥ ८७१.५२ ॥

अग्नि-देवस्य शक्तिस्त्वं यस्त्वां प्राप्तुं हि वाञ्छति।

अग्नि-देवेन स त्वां वै सम्पर्केत् स न संशयः॥ ८७१.५३ ॥

अस्माकं सर्व-सन्देशान् स एव हि वहाति वै।

तुभ्यं नयति हे राधे तस्मात् त्वां हि नमाम्यहम्॥ ८७१.५४ ॥

ललिता-देवि-रूपा त्वं महा-राज्ञि नमोऽस्तु ते।

पाद्म-पुराणे पाताले खण्डे वृन्दावनस्य च॥ ८७१.५५ ॥

माहात्म्ये सप्तपञ्चाशद्-अध्याये श्लोकयोस्तथा।

चतुःपञ्चचत्वारिंशे दृष्ट्वाश्चर्यं गतास्म्यहम्॥ ८७१.५६ ॥

श्रीराधिकोवाच।

अहं च ललितादेवी राधिकेति च गीयते ।

अहं च वासुदेवाख्यो नित्यं कामकलात्मकः ॥

॥ श्रीराधाचरणरेणुरुवाच ॥

आज्ञां देहि महाराज्ञि पूजये त्वां जगन्मयि।

ललिता-परमेशी त्वं कृष्ण-रूपा नमोऽस्तु ते॥ ८७१.५९ ॥

त्रिपुर-सुन्दरि पादे साष्टाङ्गं प्रणमाम्यहम्।

यज्ञ-कुण्ड-समुद्भूते चिदग्नि-रूपिणि प्रिये॥ ८७१.६० ॥

चिद्-रूपा-कारिणी स्वाहा त्वत्तः संवित् प्रजायते।

महाविद्या-स्वरूपा त्वं सर्वास्तित्वाग्नि-रूपिणी॥ ८७१.६१ ॥

ब्रह्माण्ड-रूपिणी त्वं वै हिरण्य-गर्भरूपिणी।

त्रि-लोक-सुन्दरी त्वं च महाविद्या-तृतीयाका॥ ८७१.६२ ॥

प्रभोः शिवस्य नाभेस्त्वं समुद्भूता महेश्वरि।

कान्हजी शङ्करः साक्षात् पार्वती त्वं न संशयः॥ ८७१.६३ ॥

कृष्णः शिवः शिवः कृष्णः पार्वती त्वं त्वमेव सा।

दश-महा-विद्या-रूपा तस्मात् त्वं परमेश्वरि॥ ८७१.६४ ॥

नागिनी नाग-राज्ञी त्वं पाताले भू-तले तथा।

सत्य-लोके वैकुण्ठे च शासिका त्वं हि राधिके॥ ८७१.६५ ॥

महादेव-नाभि-जाता त्रिपुर-सुन्दरी प्रिये।

षोडश-सङ्ख्य-रूपा त्वं माता षोडशी सुन्दरी॥ ८७१.६६ ॥

क्लीं क्लिन्ने-बीज-रूपा त्वं महाविद्या नमोऽस्तु ते।

आज्ञां देहि महाराज्ञि ते पादे प्रणमाम्यहम्॥ ८७१.६७ ॥

u/Initial_Fold_420 — 10 days ago
▲ 12 r/krishna

vraj dham chalisa, radhe radhe, Please, Prabhu-ji / Mata-ji, before reading, pray to Shrimati Radharani to grant me residence in Braj Dham, for this is my ultimate purpose in this world. May I obtain your mercy, O residents of Braj Dham, so that Shrimati Radharani may be pleased with me.radhe radhe!

॥ श्री ब्रजधाम चालीसा ॥

॥ दोहा ॥

अति अनुराग अगाध हिय दीन भाव धरि माथ ।

बन्दौं ब्रज की रेनु जहँ रमे राधिका नाथ ॥ १ ॥

अष्ट सखी मञ्जरीन की पद पंकज की धूरि ।

ब्रजवासी सब जनन की चरन रेनु सिर पूरि ॥ २ ॥

रास विलासनि हेतु जग प्रगट भई यह भूमि ।

श्री राधा हरि प्रान प्रिय गाऊँ महिमा झूमि ॥ ३ ॥

हे ब्रजवासी जन सकल तुम सों अति अनुराग ।

मो अरजी हरि राधिका कहियो उदै होय भाग ॥ ४ ॥

कृपा कटाक्ष जुगल करैं मो पर अति सुकुमारि ।

बड़भागी पाऊँ दया चरन कमल बलिहारि ॥ ५ ॥

॥ चौपाई ॥

जय जय भूमि ज्ञान विज्ञाना । भक्ती प्रेम भाव की खाना ॥

परमानन्द अगाध अपारा । ह्लादिनी शक्ति अहेतुक प्यारा ॥ १ ॥

जहाँ किशोरी जू पद धारे । कान्हा सँग विहरत अनुहारे ॥

श्री कृष्ण निज जोति प्रकासी । लीला अङ्ग सकल ब्रजवासी ॥ २ ॥

धन्य धन्य गोपी ब्रज बासी । तुमहिं प्रान ब्रज धाम हुलासी ॥

सब के चरन कमल सिर नाऊँ । मैं दासी अति दीन कहाऊँ ॥ ३ ॥

मैं राधे रानी पद रेनू । महिमा लखत अहे मेरे नैनू ॥

हे ब्रजवासी करहु सहायी । ठकुरानी सों कहहु बुझायी ॥ ४ ॥

मो पर कृपा करहिं ठकुरानी । मैं दासी अति दीन निमानी ॥

हे ब्रज जन मोहि लेहु उबारी । राखहु लाज सरन मैं हारी ॥ ५ ॥

एक दिवस अस आयै मोरे । सूँघौं रेनु सु सीस निहोरे ॥

प्रेम भाव भरि रजु चुमकाऊँ । ब्रज जन की मैं टहल कमाऊँ ॥ ६ ॥

वृषभानु सुता राधिका रानी । महल जहाँ सोहत सुखखानी ॥

श्री कृष्ण भवन औ अष्ट सखी के । मन्दिर राजत अति ही नीके ॥ ७ ॥

द्रुम तरु रास लीला साखी । राधा कृष्ण प्रेम जिन चाखी ॥

मार्यो जहाँ अघासुर भारी । बाल श्री कृष्ण बकासुर मारी ॥ ८ ॥

प्रिय श्री कृष्ण गोवर्धन धारे । गर्व इन्द्र को चूर सुधारे ॥

ब्रह्मा जू को मद हरि लीन्हा । निज प्रभुता को दरशन दीन्हा ॥ ९ ॥

गोपी रुदन विरह अति भारी । मधुकर सों राधिका पुकारी ॥

अग्नि विरह जरि भईं अधीरा । बन्दौं ब्रज रज मेटन पीरा ॥ १० ॥

तेहि कारन ब्रज रेनुहिं माई । बन्दौं निसि दिन प्रीति सवाई ॥

दासी की यह अरजी लीजै । निज चरनन महँ बासा दीजै ॥ ११ ॥

जानौं नहिं कहुँ जनम पुरानू । एक जिए कि सहस प्रमानू ॥

अन्तिम गति ब्रजधाम हमारी । ब्रज ते गोलोक धाम उजियारी ॥ १२ ॥

ब्रज जन औ ब्रज रेनु प्रतापा । मेटहु रेनु दासि बहु तापा ॥

राधा कृष्ण दरस अति प्यासी । मोहि पर कृपा करहु ब्रजबासी ॥ १३ ॥

का मोहिं सुख अधिकार न भाई । ब्रज जन सुखी देखि सुख पाई ॥

तुमरो सुख मेरे धन प्रानू । नित प्रसन्न देखौं कल्यानू ॥ १४ ॥

तुम सब लायक प्रेम अपारा । पञ्च वेद गावैं जसु भारा ॥

दीन जीव पर करुना ठानी । उतरेउ ब्रज गोलोक ते आनी ॥ १५ ॥

जय कालिन्दी परम पुनीता । का ब्रज महँ मोहिं ठौर न दीता ॥

तुङ्गविद्या स्वामिनि सों कहियो । गहि कर मोहिं राधा पद लहियो ॥ १६ ॥

अवर कौन मो पर किरपावै । ब्रज जन मोहिं सरन अपनावै ॥

करहु कृपा यह दासि निमानी । टहल करन की आस हिय ठानी ॥ १७ ॥

विरह अगिन मोहिं जारत भारी । दरस पियास हिये अति न्यारी ॥

मथुरा वृन्दावन अरु जमुना । ब्रह्मगिरि जोहौं दुख दमना ॥ १८ ॥

महरानी राधिका अवासू । राधा कुण्ड दरस की आसू ॥

राधा कुण्ड जमुन जल न्हाऊँ । अग्या दीजै सीस नवाऊँ ॥ १९ ॥

यह मोहिं अति हिय आस समाई । सब ब्रजवासी स्वामि सुहाई ॥

मैं दासी सब के पद बन्दौं । कृपा करहु दुख दारुन खण्डौं ॥ २० ॥

भाण्डीरवन महँ प्रथम बिआहू । राधा कृष्ण किहेउ उच्छाहू ॥

निधिवन महँ दोउ सक्ति बिराजै । अहो ब्रज भूमि अति छवि छाजै ॥ २१ ॥

ब्रज जन सब मिलि करहु रखवारी । मोहिं अनाथ पर होहु सुखारी ॥

मैं दासी अति मूरख छोटी । जानौं नाहिं सुकृत औ खोटी ॥ २२ ॥

कसि प्रसन्न करौं मैं तुमही । करहु कृपा समुझावहु मोही ॥

मैं दासी असहाय निमानी । करहु दया सब ब्रज के प्रानी ॥ २३ ॥

श्री कृष्ण दूत ऊधव अति ज्ञानी । ब्रज तृन जनम आस उर ठानी ॥

ब्रह्मा शिव नारद मुनि नाथा । व्यासदेव ब्रज नावहिं माथा ॥ २४ ॥

यह ब्रज भूमि गोलोक ते आई । हम पर दया हेत प्रगटाई ॥

ब्रज रज पोषित जे द्रुम बेली । ते अति पावन प्रेम सहेली ॥ २५ ॥

पशु खग नर जो ब्रज महँ जीवे । प्रेम भाव ब्रज रज जल पीवे ॥

ते अति पावन रूप कहावैं । ब्रज महिमा को पार न पावैं ॥ २६ ॥

दूरि देस महँ रहत दुखारी । तुमरी कृपा आस मोहिं भारी ॥

गहि कर ठकुरानी मोहिं लावै । निज ब्रजधाम बास मोहिं पावै ॥ २७ ॥

ब्रजवासी पद छाहिं लुकाऊँ । तुम परिवार प्रान प्रिय पाऊँ ॥

तुमरे सुख महँ सुख मैं मानौं । तुम तजि अवर न अपनौ जानौं ॥ २८ ॥

महरानी राधिका के चरना । राखहु मोहिं देहु निज सरना ॥

जगत स्वामिनी जो किरपावै । कटाक्ष दरस यह दासी पावै ॥ २९ ॥

जौ नहिं कृपा करैं ब्रज रानी । अवर कौन राखै यह प्रानी ॥

ब्रजवासी मोहिं लेहु उबारी । राधिका सरन यह दासी हारी ॥ ३० ॥

काह कहौं अति लाज लजानी । रोवति जल भरि नैन निमानी ॥

मैं दासी अति अज्ञ अयानी । कछु नहिं समुझत मूरख प्रानी ॥ ३१ ॥

तुमरी टहल करौं केहि भाँती । जुगल सरकार सेव दिन राती ॥

अष्ट सखी औ अष्ट मञ्जरी । केहि बिधि सेवा करै किङ्करी ॥ ३२ ॥

कसि प्रसन्न मैं करौं सबाहीं । भटकी किङ्करी सूझत नाहीं ॥

मोहिं सिखावहु सेवा रीती । जुगल सरकार भजौं सहुँ प्रीती ॥ ३३ ॥

ब्रह्माण्डहु के भेद न चाहौं । महा ग्यान नहिं मन महँ गाहौं ॥

अति अगम्य यह मोहिं न भावै । छोटि दासि बस टहल कमावै ॥ ३४ ॥

ताते ब्रज जन मोहिं सिखावहु । यहि दासी पर दया कमावहु ॥

श्री राधारानी सों कहि दीजै । कृपा कटाक्ष दासि पर कीजै ॥ ३५ ॥

राधा कृष्ण भजौं चित लाई । ब्रज भूमि सेवा करौं सदाई ॥

जुगल चरन महँ प्रीति अपारा । ब्रज रज टहल करौं निरधारा ॥ ३६ ॥

श्री तुङ्गविद्या बस यह दासी । श्री राधारानी अग्या बासी ॥

मोहिं सौंपि तिनकी सेवकाई । मैं किङ्करी परम निधि पाई ॥ ३७ ॥

तुङ्गविद्या सखी स्वामिनि मोरी । तिनके अधीन रहत कर जोरी ॥

रूपा मञ्जरी की अनुगामी । दोउ सिरताज हमारि सुवामी ॥ ३८ ॥

तुङ्गविद्या अरु जुगल सरकारा । अष्ट सखी ब्रज भूमि उदारा ॥

जनम जनम इनकी टहल कमाऊँ । आन काज मन महँ नहिं लाऊँ ॥ ३९ ॥

प्रभु श्री कृष्णहिं ज्यों अनुसारी । राधा रटत सेवौं तेहि भारी ॥

'रा' सुनि मोद हिये अति छावै । 'धा' सुनि पूर्ण बन्दि बनि जावै ॥ ४० ॥

॥ दोहा ॥

बन्दौं राधा कृष्ण पद, तुङ्गविद्या पद नाय ।

अष्ट सखी पद कमल महँ, यह दासी बलि जाय ॥ १ ॥

जुगल प्रेम हिय महँ बसै, प्रगटै कमल अनूप ।

पुनि सो तरुवर प्रेम को, धरै दिव्य निज रूप ॥ २ ॥

फलै कल्पतरु मनि सरिस, पूरन सब की आस ।

सब सुख पावैं जगत महँ, सुखी रहैं ब्रजवास ॥ ३ ॥

मोरि न कछु निज कामना, सुनहु सुजान उदार ।

सुखी रहैं ब्रज जन सदा, सुखी जुगल सरकार ॥ ४ ॥

सब सों मेरो प्रेम अति, मैं दासी सिरनाय ।

ब्रजवासी सब के चरन, कोटिक बन्दन भाय ॥ ५ ॥

व्रजधाम्नो महिम्नार्थं चालीसा रचिता मया ।

तुङ्गविद्ये महादेवि वन्दे ते चरणाम्बुजम् ॥ ५९० ॥

दीना दासी पदाम्भोजे किङ्करी केवलास्म्यहम् ।

श्रीराधाचरणस्याहं क्षुद्रा रेणुः प्रकीर्तिता ॥ ५९१ ॥

मां गृहीत्वा करेणैव कृपामस्मिन् कुरुष्व मे ।

राधाकृष्णौ तथा त्वां च कथं सेवेय शिक्षय ॥ ५९२ ॥

किं मया चरणीयं वै तत् सर्वं वद मे सखि ।

कामक्रोधादिदोषेभ्यो मोचयस्व कृपामयि ॥ ५९३ ॥

दण्डयस्व च मां मातः पवित्रां कुरु सर्वदा ।

श्रीराधाकृष्णयोर्नित्यं तव पादाम्बुजे तथा ॥ ५९४ ॥

दासीभावाय योग्यां मां कुरुष्व करुणां मयि ।

मोचयित्वा प्रपञ्चान्मां स्वसमीपं नयस्व माम् ॥ ५९५ ॥

u/Initial_Fold_420 — 11 days ago
▲ 3 r/yugala

श्री अष्टसखी नित्यप्रेमतारिणी प्रथमोध्यायः - वृन्दावनभजनम्( vraj dham chalisa , radhe radhe!)

॥ श्री ब्रजधाम चालीसा ॥

॥ दोहा ॥

अति अनुराग अगाध हिय दीन भाव धरि माथ ।

बन्दौं ब्रज की रेनु जहँ रमे राधिका नाथ ॥ १ ॥

अष्ट सखी मञ्जरीन की पद पंकज की धूरि ।

ब्रजवासी सब जनन की चरन रेनु सिर पूरि ॥ २ ॥

रास विलासनि हेतु जग प्रगट भई यह भूमि ।

श्री राधा हरि प्रान प्रिय गाऊँ महिमा झूमि ॥ ३ ॥

हे ब्रजवासी जन सकल तुम सों अति अनुराग ।

मो अरजी हरि राधिका कहियो उदै होय भाग ॥ ४ ॥

कृपा कटाक्ष जुगल करैं मो पर अति सुकुमारि ।

बड़भागी पाऊँ दया चरन कमल बलिहारि ॥ ५ ॥

॥ चौपाई ॥

जय जय भूमि ज्ञान विज्ञाना । भक्ती प्रेम भाव की खाना ॥

परमानन्द अगाध अपारा । ह्लादिनी शक्ति अहेतुक प्यारा ॥ १ ॥

जहाँ किशोरी जू पद धारे । कान्हा सँग विहरत अनुहारे ॥

श्री कृष्ण निज जोति प्रकासी । लीला अङ्ग सकल ब्रजवासी ॥ २ ॥

धन्य धन्य गोपी ब्रज बासी । तुमहिं प्रान ब्रज धाम हुलासी ॥

सब के चरन कमल सिर नाऊँ । मैं दासी अति दीन कहाऊँ ॥ ३ ॥

मैं राधे रानी पद रेनू । महिमा लखत अहे मेरे नैनू ॥

हे ब्रजवासी करहु सहायी । ठकुरानी सों कहहु बुझायी ॥ ४ ॥

मो पर कृपा करहिं ठकुरानी । मैं दासी अति दीन निमानी ॥

हे ब्रज जन मोहि लेहु उबारी । राखहु लाज सरन मैं हारी ॥ ५ ॥

एक दिवस अस आयै मोरे । सूँघौं रेनु सु सीस निहोरे ॥

प्रेम भाव भरि रजु चुमकाऊँ । ब्रज जन की मैं टहल कमाऊँ ॥ ६ ॥

वृषभानु सुता राधिका रानी । महल जहाँ सोहत सुखखानी ॥

श्री कृष्ण भवन औ अष्ट सखी के । मन्दिर राजत अति ही नीके ॥ ७ ॥

द्रुम तरु रास लीला साखी । राधा कृष्ण प्रेम जिन चाखी ॥

मार्यो जहाँ अघासुर भारी । बाल श्री कृष्ण बकासुर मारी ॥ ८ ॥

प्रिय श्री कृष्ण गोवर्धन धारे । गर्व इन्द्र को चूर सुधारे ॥

ब्रह्मा जू को मद हरि लीन्हा । निज प्रभुता को दरशन दीन्हा ॥ ९ ॥

गोपी रुदन विरह अति भारी । मधुकर सों राधिका पुकारी ॥

अग्नि विरह जरि भईं अधीरा । बन्दौं ब्रज रज मेटन पीरा ॥ १० ॥

तेहि कारन ब्रज रेनुहिं माई । बन्दौं निसि दिन प्रीति सवाई ॥

दासी की यह अरजी लीजै । निज चरनन महँ बासा दीजै ॥ ११ ॥

जानौं नहिं कहुँ जनम पुरानू । एक जिए कि सहस प्रमानू ॥

अन्तिम गति ब्रजधाम हमारी । ब्रज ते गोलोक धाम उजियारी ॥ १२ ॥

ब्रज जन औ ब्रज रेनु प्रतापा । मेटहु रेनु दासि बहु तापा ॥

राधा कृष्ण दरस अति प्यासी । मोहि पर कृपा करहु ब्रजबासी ॥ १३ ॥

का मोहिं सुख अधिकार न भाई । ब्रज जन सुखी देखि सुख पाई ॥

तुमरो सुख मेरे धन प्रानू । नित प्रसन्न देखौं कल्यानू ॥ १४ ॥

तुम सब लायक प्रेम अपारा । पञ्च वेद गावैं जसु भारा ॥

दीन जीव पर करुना ठानी । उतरेउ ब्रज गोलोक ते आनी ॥ १५ ॥

जय कालिन्दी परम पुनीता । का ब्रज महँ मोहिं ठौर न दीता ॥

तुङ्गविद्या स्वामिनि सों कहियो । गहि कर मोहिं राधा पद लहियो ॥ १६ ॥

अवर कौन मो पर किरपावै । ब्रज जन मोहिं सरन अपनावै ॥

करहु कृपा यह दासि निमानी । टहल करन की आस हिय ठानी ॥ १७ ॥

विरह अगिन मोहिं जारत भारी । दरस पियास हिये अति न्यारी ॥

मथुरा वृन्दावन अरु जमुना । ब्रह्मगिरि जोहौं दुख दमना ॥ १८ ॥

महरानी राधिका अवासू । राधा कुण्ड दरस की आसू ॥

राधा कुण्ड जमुन जल न्हाऊँ । अग्या दीजै सीस नवाऊँ ॥ १९ ॥

यह मोहिं अति हिय आस समाई । सब ब्रजवासी स्वामि सुहाई ॥

मैं दासी सब के पद बन्दौं । कृपा करहु दुख दारुन खण्डौं ॥ २० ॥

भाण्डीरवन महँ प्रथम बिआहू । राधा कृष्ण किहेउ उच्छाहू ॥

निधिवन महँ दोउ सक्ति बिराजै । अहो ब्रज भूमि अति छवि छाजै ॥ २१ ॥

ब्रज जन सब मिलि करहु रखवारी । मोहिं अनाथ पर होहु सुखारी ॥

मैं दासी अति मूरख छोटी । जानौं नाहिं सुकृत औ खोटी ॥ २२ ॥

कसि प्रसन्न करौं मैं तुमही । करहु कृपा समुझावहु मोही ॥

मैं दासी असहाय निमानी । करहु दया सब ब्रज के प्रानी ॥ २३ ॥

श्री कृष्ण दूत ऊधव अति ज्ञानी । ब्रज तृन जनम आस उर ठानी ॥

ब्रह्मा शिव नारद मुनि नाथा । व्यासदेव ब्रज नावहिं माथा ॥ २४ ॥

यह ब्रज भूमि गोलोक ते आई । हम पर दया हेत प्रगटाई ॥

ब्रज रज पोषित जे द्रुम बेली । ते अति पावन प्रेम सहेली ॥ २५ ॥

पशु खग नर जो ब्रज महँ जीवे । प्रेम भाव ब्रज रज जल पीवे ॥

ते अति पावन रूप कहावैं । ब्रज महिमा को पार न पावैं ॥ २६ ॥

दूरि देस महँ रहत दुखारी । तुमरी कृपा आस मोहिं भारी ॥

गहि कर ठकुरानी मोहिं लावै । निज ब्रजधाम बास मोहिं पावै ॥ २७ ॥

ब्रजवासी पद छाहिं लुकाऊँ । तुम परिवार प्रान प्रिय पाऊँ ॥

तुमरे सुख महँ सुख मैं मानौं । तुम तजि अवर न अपनौ जानौं ॥ २८ ॥

महरानी राधिका के चरना । राखहु मोहिं देहु निज सरना ॥

जगत स्वामिनी जो किरपावै । कटाक्ष दरस यह दासी पावै ॥ २९ ॥

जौ नहिं कृपा करैं ब्रज रानी । अवर कौन राखै यह प्रानी ॥

ब्रजवासी मोहिं लेहु उबारी । राधिका सरन यह दासी हारी ॥ ३० ॥

काह कहौं अति लाज लजानी । रोवति जल भरि नैन निमानी ॥

मैं दासी अति अज्ञ अयानी । कछु नहिं समुझत मूरख प्रानी ॥ ३१ ॥

तुमरी टहल करौं केहि भाँती । जुगल सरकार सेव दिन राती ॥

अष्ट सखी औ अष्ट मञ्जरी । केहि बिधि सेवा करै किङ्करी ॥ ३२ ॥

कसि प्रसन्न मैं करौं सबाहीं । भटकी किङ्करी सूझत नाहीं ॥

मोहिं सिखावहु सेवा रीती । जुगल सरकार भजौं सहुँ प्रीती ॥ ३३ ॥

ब्रह्माण्डहु के भेद न चाहौं । महा ग्यान नहिं मन महँ गाहौं ॥

अति अगम्य यह मोहिं न भावै । छोटि दासि बस टहल कमावै ॥ ३४ ॥

ताते ब्रज जन मोहिं सिखावहु । यहि दासी पर दया कमावहु ॥

श्री राधारानी सों कहि दीजै । कृपा कटाक्ष दासि पर कीजै ॥ ३५ ॥

राधा कृष्ण भजौं चित लाई । ब्रज भूमि सेवा करौं सदाई ॥

जुगल चरन महँ प्रीति अपारा । ब्रज रज टहल करौं निरधारा ॥ ३६ ॥

श्री तुङ्गविद्या बस यह दासी । श्री राधारानी अग्या बासी ॥

मोहिं सौंपि तिनकी सेवकाई । मैं किङ्करी परम निधि पाई ॥ ३७ ॥

तुङ्गविद्या सखी स्वामिनि मोरी । तिनके अधीन रहत कर जोरी ॥

रूपा मञ्जरी की अनुगामी । दोउ सिरताज हमारि सुवामी ॥ ३८ ॥

तुङ्गविद्या अरु जुगल सरकारा । अष्ट सखी ब्रज भूमि उदारा ॥

जनम जनम इनकी टहल कमाऊँ । आन काज मन महँ नहिं लाऊँ ॥ ३९ ॥

प्रभु श्री कृष्णहिं ज्यों अनुसारी । राधा रटत सेवौं तेहि भारी ॥

'रा' सुनि मोद हिये अति छावै । 'धा' सुनि पूर्ण बन्दि बनि जावै ॥ ४० ॥

॥ दोहा ॥

बन्दौं राधा कृष्ण पद, तुङ्गविद्या पद नाय ।

अष्ट सखी पद कमल महँ, यह दासी बलि जाय ॥ १ ॥

जुगल प्रेम हिय महँ बसै, प्रगटै कमल अनूप ।

पुनि सो तरुवर प्रेम को, धरै दिव्य निज रूप ॥ २ ॥

फलै कल्पतरु मनि सरिस, पूरन सब की आस ।

सब सुख पावैं जगत महँ, सुखी रहैं ब्रजवास ॥ ३ ॥

मोरि न कछु निज कामना, सुनहु सुजान उदार ।

सुखी रहैं ब्रज जन सदा, सुखी जुगल सरकार ॥ ४ ॥

सब सों मेरो प्रेम अति, मैं दासी सिरनाय ।

ब्रजवासी सब के चरन, कोटिक बन्दन भाय ॥ ५ ॥

व्रजधाम्नो महिम्नार्थं चालीसा रचिता मया ।

तुङ्गविद्ये महादेवि वन्दे ते चरणाम्बुजम् ॥ ५९० ॥

दीना दासी पदाम्भोजे किङ्करी केवलास्म्यहम् ।

श्रीराधाचरणस्याहं क्षुद्रा रेणुः प्रकीर्तिता ॥ ५९१ ॥

मां गृहीत्वा करेणैव कृपामस्मिन् कुरुष्व मे ।

राधाकृष्णौ तथा त्वां च कथं सेवेय शिक्षय ॥ ५९२ ॥

किं मया चरणीयं वै तत् सर्वं वद मे सखि ।

कामक्रोधादिदोषेभ्यो मोचयस्व कृपामयि ॥ ५९३ ॥

दण्डयस्व च मां मातः पवित्रां कुरु सर्वदा ।

श्रीराधाकृष्णयोर्नित्यं तव पादाम्बुजे तथा ॥ ५९४ ॥

दासीभावाय योग्यां मां कुरुष्व करुणां मयि ।

मोचयित्वा प्रपञ्चान्मां स्वसमीपं नयस्व माम् ॥ ५९५ ॥

u/Initial_Fold_420 — 11 days ago
▲ 16 r/yugala+1 crossposts

अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः ॥ (Saranagati Stuti, raka{purna chandra }, ga kara, bindu)

​

साष्टाङ्गं प्रणमाम्यहं राधे रानी नमोऽस्तु ते॥ ८२८ ॥

देवि वक्तुं पुरा वाञ्छे पाद-मूले निपातनम्।

ज्ञानाद् वृद्धिं गताद् राज्ञि क्षुद्रा क्षुद्रा भवाम्यहम्॥ ८२९ ॥

स्व-पार्श्वे मां गृहाणाशु याचे राधे मुहुर्मुहुः।

याचे त्वां राज्ञि याचे त्वां याचे त्वां याचे त्वां पुनः॥ ८३० ॥

याचामि त्वां पदौ ते वै याचे राधे मुहुर्मुहुः।

निज-सम्पत्ति-वन्-माञ्च स्वीकर्तुं नय तेऽन्तिकम्॥ ८३१ ॥

याचे त्वां राज्ञि याचे त्वां नत-शीर्षा कृताञ्जलिः।

साष्टाङ्गं प्रणिपातेन याचे त्वां सर्व-भावतः॥ ८३२ ॥

याचामि च पुनः राज्ञि याचामि च मुहुर्मुहुः।

सर्वाङ्गेन प्रपन्नाहं पाद-पद्मे नमाम्यहम्॥ ८३३ ॥

याचामि त्वां प्रिये राधे याचामि त्वां मुहुर्मुहुः।

श्री-रूप-मञ्जरी-पादे याचामि तां कृपां प्रति॥ ८३४ ॥

त्वया सह कथां कृत्वा कृपां याचतु मे सखी।

कृपा-दृष्ट्या वलोकय भीतास्मि राधिके शिवे॥ ८३५ ॥

क्षुद्राणु-रूपिणी ह्यत्र ब्रह्माण्डे ह्यस्म्यहं प्रिये।

नाहं गुरुर्महामातः क्षुद्रदासी त्वदाश्रिता॥ ८३६ ॥

उत्कण्ठितास्मि ते राज्ञि भयंकरमिदं जगत्।

सोढुं नैव च शक्नोमि नय मां निज-पार्श्वके॥ ८३७ ॥

मायान्धं लोकमालोक्य खिन्नास्मि तेषु जीवेषु।

नायं लोको ममाश्रयो नय मां निज-मन्दिरे॥ ८३८ ॥

शान्तिं विन्दामि ते पार्श्वे हास्यं ते द्रष्टुमुत्सहे।

स्मितं ते राधिके राज्ञि द्रष्टुमिच्छामि सर्वदा॥ ८३९ ॥

कान्हस्य परमानन्दं तदर्थं वेणु-वादनम्।

स त्वां त्वं च तमेवेशं सेवते यत् परं सुखम्॥ ८४० ॥

अष्टसख्यो रता लीलां मोदन्ते वां सुखे प्रिये।

मञ्जर्यो मोदमापन्ना गावो वृक्षा मृगाः शुकाः॥ ८४१ ॥

मयूराश्च प्रहृष्यन्ति श्याम-सुन्दर-सङ्गमात्।

पुष्प-वृक्षादि-गन्धाढ्या वृष्टिर्भवति सर्वदा॥ ८४२ ॥

रूपमञ्जरि-पृष्ठेऽहं उपविश्यातिलज्जिता।

पश्यन्ती वां रुदाम्येव तदा कृपां करिष्यसि॥ ८४३ ॥

तस्याः कृपाप्रभावाद् वै मयि तुष्टा भविष्यसि।

यतो हि तस्याः कारुण्यं त्वत्त एव प्रसूयते॥ ८४४ ॥

धन्यवादाः प्रिये मातः मयि स्निग्धाः कृपामयाः।

क्षुद्राणुमपि मां नित्यं न किञ्चिद् याचे वां राज्ञि॥ ८४५ ॥

तथापि कुरुथः कृपां युवयोः प्रेम-वात्सल्यैः।

वेष्टितास्मि न संशयः तेनाहं परमां शान्तिम्॥ ८४६ ॥

सुखं विन्दामि नित्यदा रोदिम्यहं महाराज्ञि।

विश्वस्य जटिलत्वतो युवयोर्योगसम्भवम्॥ ८४७ ॥

तथापि कोमलौ युवां लज्जां प्राप्नोमि देवेशि।

रूपमञ्जरि-देव्यै च धन्यवादाः समर्पिताः॥ ८४८ ॥

विशाखा-ललिता-सख्यौ सुदेवीं सा ह्यदर्शयत्।

पार्वती-शिवयोर्नित्यं मयि स्निग्धौ कृपामयौ॥ ८४९ ॥

सर्वदा रक्षणायैव सर्वेषां पादपद्मेषु।

सर्वाङ्गेन प्रपन्नाहं वन्दे युष्मान् मुहुर्मुहुः॥ ८५० ॥

राका वां परमं योगं राधाकृष्ण-समागमः।

पूर्णचन्द्रं प्रसूते वै राधिके परमेश्वरि॥ ८५१ ॥

त्वया मे दर्शितं राज्ञि रहस्यं परमं शिवे।

कृष्णोऽन्धकार-पक्षे वै ह्यर्ध-चन्द्रे प्रकाशितः॥ ८५२ ॥

शुक्ल-पक्षे तथा राज्ञि प्रकटीकृता राधिके।

शताशीत्यंश-कोणेन सम्मुखौ संस्थितौ युवाम्॥ ८५३ ॥

पूर्णचन्द्र-स्वरूपेण मिलितौ परमेश्वरि।

तस्मात् पूर्णः शशी राज्ञि राकेति परिगीयते॥ ८५४ ॥

युवयोर्मिलनं साक्षात् पवित्रं तत् प्रकीर्तितम्।

अग्नि-देवी त्वमेवासि दाहिका त्वं महेश्वरि॥ ८५५ ॥

पवित्र-वह्नि-हृदयं यज्ञ-रूपा नमोऽस्तु ते।

यज्ञ-वह्नि-स्वरूपिणि राके ते चरणाम्बुजे॥ ८५६ ॥

पवित्र-पाद-पद्मेषु साष्टाङ्गं प्रणमाम्यहम्।

राके ते चरणाम्भोजे साष्टाङ्गं प्रणमाम्यहम्॥ ८५७ ॥

गकारस्तृतीयो वह्निः गं-बीज-मन्त्र-रूपकः।

प्रवाहो निर्देशितश्च गकारः कध्रुवो मतः॥ ८५८ ॥

राधा-धाराधार-तत्त्वं पुनरेव स्मराम्यहम्।

नारायणेन पत्या ते महालक्ष्मि परा गतिः॥ ८५९ ॥

सृष्टेर्मोक्षस्य यात्रान्ते जीवानां लक्ष्यमुत्तमम्।

गकारो धातु-रूपो हि प्रवाहस्य महाराज्ञि॥ ८६० ॥

तरला शक्तिरूपा त्वं प्राचुर्यस्य सुशोभना।

सृष्टेः कारुण्य-दीप्त्योश्च सर्व-सत्ता-स्वरूपिणी॥ ८६१ ॥

विश्वं सर्वं परिप्लावन् पूरयन्ती स्व-तेजसा।

त्वं गीता त्वं च गोपालो गोविन्दो गुप्तरूपिणी॥ ८६२ ॥

विघ्न-नाश-प्रवाहा त्वं तस्मात् पतिर्-महेश्वरि।

पार्वती-सुत-रूप-धृक् श्री-गणेशो महा-प्रभुः॥ ८६३ ॥

कण्ठादुच्चारणं तस्य स्पन्दनं जनयेत् प्रिये।

प्राणमार्गं विशोध्यैव कान्हजी-परब्रह्मणि॥ ८६४ ॥

योजयेन्नो महाराज्ञि गकारेण तदोर्ध्वग- ।

बिन्दुना निर्मितं ह्येतद् अक्षरं परमेश्वरि॥ ८६५ ॥

गकारः शब्द-रूपो हि चालिका शक्तिर्-उत्तमा।

पवित्र-चेतना साक्षाद् आकाशाद् बहिर्-आगता॥ ८६६ ॥

सृष्टि-निर्माण-कार्याय बिन्दुः सङ्कुचिता कला।

आयामाभाव-रूपो हि घनीभावमनुत्तमम्॥ ८६७ ॥

शक्ति-पुञ्जः सनातनः प्राग्-विकासाद् रहस्यवान्।

उभयोर् योगतो राज्ञि चेतनाया गतिश्च या॥ ८६८ ॥

अनन्त-बिन्दुतो यान्ती तत्रैव प्रत्यावर्तिनी।

युगपत् प्रतिभाति सा तस्मात् ते पाद-पद्मेषु॥ ८६९ ॥

महालक्ष्मि नमाम्यहम् साष्टाङ्गं प्रणिपातेन।

पवित्र-पाद-पद्मेषु महालक्ष्मि नमोऽस्तु ते॥ ८७० ॥

u/Initial_Fold_420 — 13 days ago
▲ 157 r/Vrindavan

अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः 871.156-871.242 (shri yantra)

​

जयस्तु राधिके राज्ञि श्रीयन्त्ररूपिणि प्रिये ।

श्रीमत्सिंहासनेश्वरि महालक्ष्मि नमोऽस्तु ते ॥ ८७१।१५६ ॥

श्रीयन्त्ररूपकं साक्षात् तव सिंहासनं शिवे ।

विश्वस्य हि रहस्यं तत् तन्मध्ये बिन्दुरूपिणी ॥ ८७१।१५७ ॥

नित्यं श्रीयन्त्ररूपा त्वं श्रीं ह्रीं क्लीं क्रं कृङ् राम् तथा ।

तेजस्स्वरूपिणि राज्ञि ते पादे प्रणमाम्यहम् ॥ ८७१।१५८ ॥

नवमूलत्रिकोणैस्त्वं वेष्टिता परमेश्वरि ।

त्रिचत्वारिंशता साक्षात् क्षुद्रकोणैः सुसंयुता ॥ ८७१।१५९ ॥

ऊर्ध्वं कोणचतुष्कं वै शक्तिमान् श्यामसुन्दरः ।

आधाराख्यो महामातः स्थिरचैतन्यरूपकः ॥ ८७१।१६० ॥

अधः पञ्च त्रिकोणा वै शक्तिस्त्वं राधिके प्रिये ।

राधा धारेति विख्याता चैतन्यं वै प्रदायिनी ॥ ८७१।१६१ ॥

अत्रापि युवयोर्योगं पश्यामि परमेश्वरि ।

सर्वत्रास्तित्वमध्ये वै योगो वां प्रविराजते ॥ ८७१।१६२ ॥

रासमण्डलरूपिणि ते पादे प्रणमाम्यहम् ।

सर्वं विश्वं महाराज्ञि वां परितो हि घूर्णते ॥ ८७१।१६३ ॥

श्रीयन्त्रं जीवरूपेषु नवचक्रस्वरूपकम् ।

ललनाचक्ररूपेण सोमपीयूषदायकम् ॥ ८७१।१६४ ॥

यतो वै साधको राज्ञि समाधिं परमां व्रजेत् ।

द्वादशान्ते महाचक्रे पूर्णसम्पर्क एव च ॥ ८७१।१६५ ॥

तव शक्तेश्च राधे वै शक्तिमच्छ्यामसुन्दरे ।

आश्चर्यं परमं प्राप्तं श्रुत्वा चैतन्महेश्वरि ॥ ८७१।१६६ ॥

औङ्कारस्य निनादेनसिकता बालुकाश्चापि ।

श्रीयन्त्राकारतां यान्ति ह्यद्भुतं राधिके प्रिये ॥ ८७१।१६७ ॥

जलेष्वौङ्कारनादेन जलकणा महेश्वरि ।

श्रीयन्त्ररूपतां यान्ति तस्माल्लाभा ह्यसङ्ख्यकाः ॥ ८७१।१६८ ॥

देहारोग्यं तथा ज्ञानं निर्वाणं शक्तिरेव च ।

प्रजायन्ते महाराज्ञि नादस्यैतस्य वैभवात् ॥ ८७१।१६९ ॥

औङ्कारो नादरूपं ते ललितादेवि राधिके ।

श्रीयन्त्रं दर्शनं साक्षादौङ्कारस्यैव कीर्तितम् ॥ ८७१।१७० ॥

श्रीयन्त्रेण च संयुक्तं श्रीसूक्तं परमेश्वरि ।

साधकं योजयेत् साक्षात् ललिताशक्तितः प्रिये ॥ ८७१।१७१ ॥

पञ्चदशाक्षरीमन्त्रस्वरूपा त्वं जगन्मयि ।

कूटत्रयस्वरूपा त्वं तव गात्रांशरूपिणी ॥ ८७१।१७२ ॥

चक्रसङ्घास्तराणां च श्रीयन्त्रे त्वं नियन्त्रिका ।

प्रथमं वाग्भवं कूटं पञ्चवर्णैः समन्वितम् ॥ ८७१।१७३ ॥

क ए ई ल ह्रीं बीजैश्च तव वक्त्रं हि राधिके ।

श्रीयन्त्रबाह्यभागैस्तत् सम्बद्धं परमेश्वरि ॥ ८७१।१७४ ॥

भूपुरेण च वृत्तैश्च पद्मपत्रैश्च संयुतम् ।

सृष्टेर्भौतिकरूपस्य प्राकट्यस्य दशात्मिका ॥ ८७१।१७५ ॥

महालक्ष्मीस्वरूपा त्वं तस्या हि वै नियन्त्रिका ।

समृद्धेर्ज्ञानदात्र्यै च महालक्ष्म्यै नमो नमः ॥ ८७१।१७६ ॥

राधिकायाः पदाम्भोजे साष्टाङ्गं प्रणमाम्यहम् ।

ललितात्रिपुरेशान्यै राधिकायै जयो जयः ॥ ८७१।१७७ ॥

द्वितीयं कामराजाख्यं कूटं शृणु कृपामयि ।

ह स क ह ल ह्रीं वर्णैः संयुक्तं परमाद्भुतम् ॥ ८७१।१७८ ॥

तव कण्ठं च हृदयं कटिपर्यन्तमेव च ।

प्रतिनिधित्वं कुरुते महाराज्ञि महामते ॥ ८७१।१७९ ॥

त्रिचत्वारिंशता कोणैः सम्बद्धं रसलीलया ।

दिव्येच्छारूपशक्त्या च पाशेन परमात्मनः ॥ ८७१।१८० ॥

रासमण्डलमध्यं वै जीवमाकर्षति ध्रुवम् ।

तृतीयं शक्तिमत्कूटं शृणु त्रिपुरसुन्दरि ॥ ८७१।१८१ ॥

स क ल ह्रीं च वर्णैश्च निर्मितं परमेश्वरम् ।

उदरात् पादपर्यन्तं तव देहस्य धारकम् ॥ ८७१।१८२ ॥

विश्वगर्भास्वरूपा त्वं बिन्दुवेष्टितकोणके ।

केन्द्रमण्डलमध्ये वै चक्रस्य परमे स्थिता ॥ ८७१।१८३ ॥

मोक्षस्वरूपिणी साक्षाद् युवयोरत्र मेलनम् ।

श्यामसुन्दरदेवेन सह ते राधिके सदा ॥ ८७१।१८४ ॥

युवां परित एवैतद् विश्वं घूर्णति सर्वदा ।

रहस्यं परमं मातः षोडशीं शृणु राधिके ॥ ८७१।१८५ ॥

पञ्चदशाक्षरीमन्त्रध्वनौ श्रीयन्त्रमध्यगे ।

अव्यक्ता षोडशी सङ्ख्या बिन्दुरूपानघा शुभा ॥ ८७१।१८६ ॥

नादरूपा समुद्भूता त्वमेव सा महेश्वरी ।

सच्चिदानन्दविग्रहा ह्यानन्दघनरूपिणी ॥ ८७१।१८७ ॥

पञ्चदशाक्षरीमन्त्रैर्युवयोर्मेलनं भवेत् ।

तदा गोपालसुन्दरीरूपेण प्रविराजसे ॥ ८७१।१८८ ॥

गोपालसुन्दरीपादे साष्टाङ्गं प्रणमाम्यहम् ।

त्रिपुरासुन्दरी राज्ञी त्रिपुरकृतिरूपिणी ॥ ८७१।१८९ ॥

अखिलाण्डस्य साम्राज्ञी सर्वलोकेषु पूजिता ।

तव पादाम्बुजे नित्यं पतिताहं कृपामयि ॥ ८७१।१९० ॥

चतुर्थं नाम ते राज्ञि चिदग्निकुण्डसम्भूता ।

यज्ञाग्नितः समुद्भूता सर्वाग्निमूलरूपिणी ॥ ८७१।१९१ ॥

रंबीजं वै विना वह्निरस्तित्वं नैव विन्दति ।

रंबीजं पावकं ज्योतिस्तत्ते नाम हि राधिके ॥ ८७१।१९२ ॥

परमा निर्गुणा त्वं हि ह्याद्यन्तहीनलिङ्गिका ।

मुनिभिर्देवताभिश्च ललिते त्वं ह्यगोचरा ॥ ८७१।१९३ ॥

गोपालसुन्दरी राज्ञी गोविन्दस्य प्रिया तथा ।

सगुणा चिदग्निजाता सौन्दर्यमूलरूपिणी ॥ ८७१।१९४ ॥

नेत्रे निमील्य पश्यामि त्वामेव राधिके प्रिये ।

अन्तर्बहिः स्थितास्माकं पृथग्भूतासि सर्वदा ॥ ८७१।१९५ ॥

ब्रह्मरूपा भगवती परमात्मा त्वमेव हि ।

तन्मूला साक्षिणी त्वं हि तौ त्वदधीनताङ्गतौ ॥ ८७१।१९६ ॥

चेतना विश्वरूपा त्वं जटिला चित्ररूपिणी ।

अणवो ह्यण्वन्तरैश्च सम्बद्धाश्चाद्भुतं प्रिये ॥ ८७१।१९७ ॥

आधुनिकवैज्ञानिका विस्मयन्ते ह्यजानन्तः ।

त्वत्त एषा समुद्भूता चेतनानन्तशक्तितः ॥ ८७१।१९८ ॥

ब्रह्मविष्णुशिवानां त्वं देवी विश्वस्य राज्ञिका ।

गोपालभार्या कृष्णस्य ह्यच्युतशक्तिरूपिणी ॥ ८७१।१९९ ॥

सरस्वती ज्ञानराज्ञी पञ्चवेदात्मिका प्रिये ।

महाभारतसंरूपा रामायणस्वरूपिणी ॥ ८७१।२०० ॥

श्रीमद्भागवतं देवीभागवतस्वरूपिणी ।

नारदं वायुमात्स्यं च कौर्मं शैवं पुराणकम् ॥ ८७१।२०१ ॥

पाञ्चरात्रागमास्तन्त्रा बुद्धप्रज्ञाबलं तथा ।

विश्वप्रकाशकं साक्षाद् ह्यनन्तं ज्योतिरेव च ॥ ८७१।२०२ ॥

अग्निदेवी वह्निशक्तिस्त्वत्त एवानलो भवेत् ।

वह्निस्त्वमग्निरूपा त्वं स्वाहा स्वधा स्वरूपिणी ॥ ८७१।२०३ ॥

अग्निमाताग्निदेवी त्वमग्निराज्ञी स्वयं शिखी ।

त्वत्त एवोद्भवं रं वै क्लींबीजं त्वं हि राधिके ॥ ८७१।२०४ ॥

रकारश्च ककारस्त्वं ककारः खस्तथैव च ।

महाभावस्वरूपा त्वं महाकामा कामकला ॥ ८७१।२०५ ॥

उपनिषत्साररूपा भगवद्गीतिका तथा ।

वेदामृतं राधसो वै राधानां त्वं हि राधिके ॥ ८७१।२०६ ॥

वृत्रघ्नेन्द्रस्य पत्नी त्वं सोमरूपा महेश्वरि ।

सोमस्य परमा देवी सोमपानाधिदेवता ॥ ८७१।२०७ ॥

महाभावसमाधिर्वै सोम इत्यभिधीयते ।

राजाधिराजराज्ञी त्वं राजाधिराज एव च ॥ ८७१।२०८ ॥

राजराजेश्वरी साक्षाद् देवदेवेश्वरी तथा ।

शान्तेश्वरी युद्धमयी महाशक्तिश्च शक्तिमान् ॥ ८७१।२०९ ॥

द्वैताद्वैतस्वरूपा त्वं कोटिशारदचन्द्रिका ।

कोटिलक्ष्मीपार्वतीनां सौन्दर्यं ते वपुः प्रिये ॥ ८७१।२१० ॥

रस्वरूपा धस्वरूपा श्वासप्रश्वासनामिका ।

ललितादेवि ते पादे साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।२११ ॥

स्निह्यामि त्वयि विश्वेशि माहात्म्याद् विस्मितास्म्यहम् ।

तथापि कोमला साक्षात् करुणासागरासि वै ॥ ८७१।२१२ ॥

सुन्दरी कोमला राधे लज्जाभावप्रकाशिनी ।

सर्वसंमोहिनीं त्वां वै स्निह्यामि सुदृढं प्रिये ॥ ८७१।२१३ ॥

यदा जानामि राधे त्वां ललितादेविरूपिणीम् ।

ललितासखिका साक्षाद् विशाखाष्टसखी तथा ॥ ८७१।२१४ ॥

अचिन्त्यभेदाभेदस्य तत्त्वं बुध्यामि राधिके ।

साष्टाङ्गं प्रणिपातो मे ललितासखिकापदे ॥ ८७१।२१५ ॥

त्वत्पादेऽष्टसखीपादे तथासखीपदेष्वपि ।

श्यामसुन्दरपादे च नतास्मि शरणागता ॥ ८७१।२१६ ॥

आश्चर्यं परमं प्राप्ता महिम्नस्ते महेश्वरि ।

पवित्रतां च ते दृष्ट्वा प्रकम्पामि मुहुर्मुहुः ॥ ८७१।२१७ ॥

इन्धनं वै विना साक्षात् पवित्राग्निस्वरूपिणी ।

स्वप्रकाशा महाराज्ञी सूर्यतारास्वरूपिणी ॥ ८७१।२१८ ॥

अखिलास्तित्वमूला त्वं पदार्थमूलरूपिणी ।

ऊर्जामूलस्वरूपा त्वं जगत्कारणकारिणि ॥ ८७१।२१९ ॥

अहङ्कारमशेषं मे दहस्व परमेश्वरि ।

यज्ञवत् ते पदाम्भोजे आत्मानं हि ददाम्यहम् ॥ ८७१।२२० ॥

ललिते परमेशानि भण्डासुरविनाशिनि ।

साष्टाङ्गं प्रणिपातेन प्रणमामि पदे तव ॥ ८७१।२२१ ॥

कोटिसूर्यप्रतीकाशा त्वमेव परमोत्तमा ।

सुन्दराभा महाराज्ञि तव देहः सुभास्वरः ॥ ८७१।२२२ ॥

पञ्चमं नाम ते राधे देवकार्यसमुद्यता ।

साष्टाङ्गं प्रणमाम्यद्य ते पादे परमेश्वरि ॥ ८७१।२२३ ॥

शत्रूणामर्धशक्तेश्च नाशकं वै वरं प्रिये ।

प्राप्तवान् यस्तु भण्डो वै दैत्यः साक्षात् कृपामयि ॥ ८७१।२२४ ॥

देवेभ्यो बलवान् भूत्वा ह्यजेयोऽभूद् यदासुरः ।

तदा यज्ञाग्निकुण्डाद् वै प्रादुर्भूतासि राधिके ॥ ८७१।२२५ ॥

भण्डासुरविनाशाय त्वं साक्षादवतारिणी ।

अनन्ता ते यतः शक्तिः कथं सा क्षयमाप्नुयात् ॥ ८७१।२२६ ॥

शक्तिर्दुर्गा तथा काली त्वं महारक्तदन्तिका ।

भण्डासुरविनाशिन्यै तुभ्यं राज्ञि नमो नमः ॥ ८७१।२२७ ॥

सर्वान् नियमानतीता सर्वशक्तेश्च पारगा ।

अनन्तानां च शक्तीनां साक्षादीश्वरि राधिके ॥ ८७१।२२८ ॥

भण्डासुरो लीलयैव विदीर्णो नाशितस्त्वया ।

तस्मात् ते पादपद्मेषु प्रणमामि जगन्मयि ॥ ८७१।२२९ ॥

राधिके परमेशानि साष्टाङ्गं प्रणिपत्य च ।

पतिताहं पदाम्भोजे तव सर्वेश्वरि प्रिये ॥ ८७१।२३० ॥

षष्ठं नाम तवेशानि उद्यद्भानुसहस्राभा ।

कोटिसूर्यप्रतीकाशा भाससे कोटिसूर्यवत् ॥ ८७१।२४१ ॥

कोटिब्रह्माण्डयात्रायै यज्ज्योतिर्गच्छति प्रिये ।

निजशक्तिममुञ्चत् तत् साक्षात् त्वं ज्योतिरूपिणी ॥ ८७१।२४२ ॥

u/Initial_Fold_420 — 14 days ago
▲ 12 r/krishna

brahma vaivarta purana krishna janma khand adhyaya 17 यो मानवो राधानाम पूर्वं पश्चात् कृष्णनाम च। गृह्णाति स च जीवन्मुक्तो नात्र संशयः॥विपरीतात्तु यो मोहात् कृष्णनाम पुरा बुधः। राधानाम च पश्चाच्च स भवेद् ब्रह्महत्याभाक्॥

A person who chants the name Radha first, followed by the name Krishna, becomes liberated in this very lifetime; of this there is no doubt whatsoever.

However, if one does the opposite, the result is ignorance: chanting the name Krishna first and then Radha constitutes a severe spiritual transgression akin to the sin of killing a brahmana.

radhe radhe 🙏💙🧡 jai shree radhika krishna 🙏

u/Initial_Fold_420 — 14 days ago
▲ 11 r/yugala+1 crossposts

अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः ॥ 743-872 (radha krishna tatva)

743-827***

तप्तकाञ्चनगौराङ्गी यथा त्वं हि महेश्वरि।

तथा स श्यामसुन्दरः सोऽनन्तवर्ण उच्यते॥ ७४३ ॥

त्वमनन्तातीतातीता-

तीतातीतातीतातीता ।

तीतातीतासि राधिके-

श्यामकान्ते नमोऽस्तु ते ॥ ७४४ ॥

सोऽप्यनन्तातीतातीता-

तीतातीतातीतातीता ।

तीतातीतः स एव हि-

विस्मयो मे महान् प्रिये ॥ ७४५ ॥

अनन्तमप्यनन्तैर्हि लङ्घयन्तौ सनातनौ।

तस्मात् ते पादपद्मेषु साष्टाङ्गं प्रणमाम्यहम्॥ ७४६ ॥

कृष्णनाम यदा पश्ये तत्र वां सङ्गमः प्रिये।

ऋकारश्चन्द्ररूपोऽपि सर्वराकाररूपिणी॥ ७४७ ॥

तस्मात् कृष्णेऽपि विद्यसे विस्मयो मे महान् प्रिये।

कम्पामि लज्जितास्मीह बिभेमि त्वां भजामि च॥ ७४८ ॥

अत्यन्तं कामये राधे आलिङ्गितुं हि वां मुदा।

त्वां चैव श्यामसुन्दरं कियत् सुन्दरमद्भुतम्॥ ७४९ ॥

पत्युर्नाम्नि षकारो यः सोऽविभाज्यस्त्वया सह।

महालक्ष्मि त्वमेवासि कान्हस्त्वयि सुसंस्थितः॥ ७५० ॥

सौरवर्णावलौ ह्यन्त्यः षकारः सूर्यसन्निभः।

प्रकाशो वै प्रवेधी च मायापटलभेदकः॥ ७५१ ॥

णकारो वह्निवर्गस्य परिवर्तनरूपकः।

अहङ्कारं च मर्त्यानां द्रावको भस्मकारकः॥ ७५२ ॥

कर्मणां दहनः साक्षाद् एष वर्णो महेश्वरि।

वां योगेन हि राधे वै कृष्णनामोद्भवः स्मृतः॥ ७५३ ॥

त्वमेव तस्य सारो हि शक्तिस्तस्य त्वमेव हि।

रामनाम्नि यथा राधे ह्यग्निस्त्वं प्रकटीकृता॥ ७५४ ॥

कृष्णनाम्नि तथा राज्ञि चन्द्ररूपासि संस्थिता।

मौनरूपासि शान्तासि त्वमाधारस्वरूपिणी॥ ७५५ ॥

राधाधराधारतत्त्वं यथा प्रोक्तं मया पुरा।

अत्र कृष्णधराधार-तत्त्वं राजति सुन्दरि॥ ७५६ ॥

यथाधारो हरिस्तत्र त्वं प्रवाहमयी शिवे।

तथाधारस्त्वमेवासि कृष्णस्त्वयि प्रगच्छति॥ ७५७ ॥

एवं राधा च कृष्णश्च स्रवतोऽन्योन्यमण्डले।

अनन्तातीतरूपेण प्रवाहः शाश्वतः प्रिये॥ ७५८ ॥

कृष्-धातुर्-आकर्षणे वै णकारो ह्लाद उच्यते।

परमानन्दरूपो हि कृष्णो मोहयते मनः॥ ७५९ ॥

यद्यप्यसौ जगन्नाथः सर्वचित्तापहारकः।

तथापि मोहमोहा त्वं असि मदनमोहन- ॥ ७६० ॥

-मोहिनीति महाराज्ञि ते पादे प्रणमाम्यहम्।

अतस्त्वां भजते नित्यं सर्वदा राधिके प्रिये॥ ७६१ ॥

खकारो हि महाराज्ञि परं व्योम प्रकीर्तितम्।

अत्र छान्दोग्य-मन्त्रं वै स्मरामि परमेश्वरि॥ ७६२ ॥

छान्दोग्योपनिषदि चतुर्थप्रपाठके दशमखण्डे पञ्चमः मन्त्रः॥ ७६३ ॥

स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥

उपकोसल उवाच प्राणो ब्रह्मेति वेद्म्यहम्।

कं च खं च न जानामि किमेतदिति राधिके॥ ७६५ ॥

पवित्र-वह्नयः प्राहुर् यद् वै कमिति कीर्तितम्।

तदेव खमिति ज्ञेयं यत् खं तत् कमिति स्मृतम्॥ ७६६ ॥

पश्चात् ते बोधयामासुः प्राणमाकाशमेव च।

ब्रह्मरूपेण तौ साक्षात् परं चैतन्यमेव हि॥ ७६७ ॥

विस्मितास्मि महाराज्ञि ककारो नात्र कामुकः।

लौकिको न हि कामोऽयं परमानन्दरूपकः॥ ७६८ ॥

युवभ्यां प्रभवत्येव खकारो व्योमरूपकः।

खं वै ब्रह्माण्ड-रूपं च ह्यनन्ताकाशमेव च॥ ७६९ ॥

कं च सा परमानन्दा ह्लादिनी-शक्तिरेव च।

त्वमेवासि महाराज्ञि ह्लादिनी-शक्ति-रूपिणी॥ ७७० ॥

तस्मात् कृष्णस्य नाम्नि त्वं ककारोऽसि न संशयः।

स च राकार-रूपो हि ह्येकं वां तत्त्वमुत्तमम्॥ ७७१ ॥

अचिन्त्य-भेदाभेदेन विस्मितास्मि कृपामयि।

अविभाज्यौ युवां नित्यं दुग्ध-श्वेत-गुणौ यथा॥ ७७२ ॥

खकारोऽधार-रूपो वै त्वं ककारो हि धारिका।

राधा-धाराधार-तत्त्वम् एवमत्र प्रपद्यते॥ ७७३ ॥

खकारे प्रवहज्ज्योतिः ककारस्त्वं प्रकीर्तिता।

यतः खं पात्र-रूपं वै ककार-ग्राहको हि सः॥ ७७४ ॥

आकाश-वर्ग-मध्ये वै खकारो हि द्वितीयकः।

तस्य वह्निर्महाराज्ञि दुःख-दाहन-कारकः॥ ७७५ ॥

माया-क्लेश-विनाशाय ह्यज्ञान-भस्म-कारणे।

प्रकृतेस्त्रिगुणान् भित्त्वा पारं नयति देहिनम्॥ ७७६ ॥

खकार-पवित्रत्वाय राधा-पादे नमाम्यहम्।

साष्टाङ्गं ते पदाम्भोजे प्रणमामि मुहुर्मुहुः॥ ७७७ ॥

अतीव रुदिमि राधे कम्पामि भयहर्षतः।

दृष्ट्वा ते महिमानं वै कान्हस्य च महाप्रभोः॥ ७७८ ॥

क्षमास्व मे महाराज्ञि प्राचीनपापसञ्चयम्।

अपराधं कृतं यद्वै त्वयि कृष्णे कृपामयि॥ ७७९ ॥

तव सृष्टौ च जीवेषु यत्किञ्चिदपराधितम्।

तत्सर्वं मे क्षमास्वाद्य करुणामयि राधिके॥ ७८० ॥

करुणां कुरु मे राधे मोचयस्व भवार्णवात्।

करुणामयि ते पादे पूर्णकारुण्यरूपिणि॥ ७८१ ॥

अतीते यत्कृतं पापं तदर्थं शोचते मनः।

अज्ञानतमसाच्छन्ना मग्नाहं दोषसागरे॥ ७८२ ॥

त्वयैव मोचिताहं वै त्वयैव पाविनी कृता।

तव कृपाप्रभावेण शुद्धास्मि परमेश्वरि॥ ७८३ ॥

अतः क्रन्दामि ते पादे कुरु राज्ञि दयां मयि।

प्रणमामि पदे नित्यं याचामि त्वां कृपामयीम्॥ ७८४ ॥

रूपमञ्जरि-पादेषु सत्यभामे पदाम्बुजे।

कालिन्दि-सखि ते पादे क्रन्दामि शरणागता॥ ७८५ ॥

महान्त्यः सख्यो राज्ञ्यो मे युष्मान् याचे कृपामयीः।

श्यामसुन्दरदेवेन गीतायां यदुदीरितम्॥ ७८६ ॥

अष्टादशे ह्यध्याये वै मन्त्रे षट्षष्टिसंज्ञके।

साक्षात् पतिर्बभाषे ते कृपया कान्ह एव हि॥ ७८७ ॥

श्रीभगवानुवाच

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।

अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा श‍ुच: ॥

॥ श्रीराधाचरणरेणुरुवाच॥

तेनोक्तं पापमुक्तत्वं पादपद्माश्रये सति।

लज्जितास्मि महादेवि युवाभ्यां सम्मुखे भृशम्॥ ७८९ ॥

बिभेमि पूर्वपापैर्मे भवेद्वां दूरता यदि।

न सोढुं शक्यते सत्ता युवाभ्यां हि विना शिवे॥ ७९० ॥

वाञ्छामि केवलं राज्ञि युवाभ्यां चरणाम्बुजे।

साष्टाङ्गं प्रणतिं दास्यं त्वत्सेवां राधिके प्रिये॥ ७९१ ॥

नाहं पूर्णा महाराज्ञि साधनेयं त्वदाश्रिता।

तव कृपा हि मूलं वै रुक्मिणि श्रीमति प्रिये॥ ७९२ ॥

तस्मात् कुरु कृपां राज्ञि कृपामयि नमोऽस्तु ते।

करुणामयि राधे त्वं त्राहि मां परमेश्वरि॥ ७९३ ॥

आश्चर्यं मे महाराज्ञि सर्वसत्त्वे युवोर्लयः।

कृधातुर्हि कृते कार्ये कर्मणि च प्रकीर्तितः॥ ७९४ ॥

कृष्णेन सह ते राज्ञि स एव योग उच्यते।

युवयोर्मिलनात् साक्षात् कर्म कार्यं भवेत् प्रिये॥ ७९५ ॥

कृतं कर्म भवेत् साक्षाद् अर्थपूर्णं जगन्मयि।

सर्वाणि कर्मरूपाणि वां योगात् प्रभवन्ति हि॥ ७९६ ॥

युवयोर्मिलनाद् राधे करुणा च कृपा तथा।

तस्मात् सर्वान् प्रपश्यथः कृपया च दयस्व नः॥ ७९७ ॥

वां योगात् प्रसरन्त्येव ब्रह्माण्डे सर्वसम्पदः।

सर्ववस्तुषु ते नाम राजते नित्यमम्बिके॥ ७९८ ॥

सरस्वती त्वमेवासि स्रष्ट्री चराचरस्य वै।

ब्रह्माजि-नाम-मध्येऽपि बीजं ते राधिके स्थितम्॥ ७९९ ॥

ब्रह्माण्डे चैव ब्रह्मणि यतस्त्वं ब्रह्मकारणम्।

सर्वं साक्षात् त्वमेवासि सागरः सार एव च॥ ८०० ॥

रक्षा च राधिके साक्षात् कृष्णेन सह योगकः।

हृषीकेशो राम एव क्रोधो दिव्यो महेश्वरि॥ ८०१ ॥

पतिस्ते कल्प-रूपो हि कामः कवचमेव च।

पुराणे च ऋग्वेदेऽपि यजुष्यथर्वणे तथा॥ ८०२ ॥

बीज-मन्त्र-स्वरूपेण त्रिषु वेदेषु संस्थिता।

तस्मात् श्यामः साम-वेदो यत्र स्तोभाः स्वरूपिणी॥ ८०३ ॥

सर्वत्र वां स्थितिर्-नित्यं सर्व-वस्तुषु सर्वदा।

त्वं ककारः स खकारः स खकारस्त्वमेव कः॥ ८०४ ॥

कृष्णस्याकर्षणे साक्षात् त्वं हरिः परिकीर्तिता।

तस्मान्-मुक्तेः परो मार्गो हरे-कृष्णेति-कीर्तनम्॥ ८०५ ॥

महामन्त्रस्य सङ्कीर्तं वां योगात् प्रकटीकृतम्।

चत्वारिंशद्-युते पञ्च-शते वर्षे गते शिवे॥ ८०६ ॥

अवतीर्णो धरायां हि कान्हो वर्णं तवाश्रितः।

तव भावं समादाय त्वत्-प्रेमानन्त-माधुरीम्॥ ८०७ ॥

स्वादितुं स समुत्पन्नः सङ्कीर्तन-समुद्भवः।

बङ्गाले भारते चैव विश्वे कोलाहलो महान्॥ ८०८ ॥

तस्मात् त्वं रागरूपासि रतिरूपासि राधिके।

रतिस्त्वं कामदेवः स विस्मितास्मि महेश्वरि॥ ८०९ ॥

रमणस्त्वं रासलीला सोमामृतस्वरूपिणी।

कल्याणः कान्तरूपोऽसौ कोशलः स प्रकीर्तितः॥ ८१० ॥

युवयोर्मिलनात् साक्षाद् रक्तमुत्पद्यते शिवे।

सर्व-प्राणि-शिरास्वेव प्रवहत् सत्य-रूपकम्॥ ८११ ॥

कान्हः शक्ति-स्वरूपो हि शक्तिमांश्चापि स स्मृतः।

युवयोर्-योगतो नित्यं क्रिया क्रमश्च जायते॥ ८१२ ॥

क्रीडा कर्म च कारक-म् आकर्षणं च रामकम्।

राज्ञी राजा तथा राणी वृन्दावन-मयी प्रिये॥ ८१३ ॥

द्वारका वां सु-योगाद् वै उत्पन्ना परमेश्वरि।

रुक्मिणी-नाम्नि साक्षाद् वै राधा-कृष्णौ सु-संस्थितौ॥ ८१४ ॥

द्वारकाधीश-नाम्न्य्-अन्तः राधा-कृष्णौ विराजतः।

एक-संङ्ख्या-पदे साक्षात् पत्युस्ते नाम विद्यते॥ ८१५ ॥

नर-नारी-स्वरूपा त्वं नारङ्गं स्मृति-रूपिणी।

श्रुतिस्त्वं प्रेम-रूपा वै मन्त्रे तन्त्रे च संस्थिता॥ ८१६ ॥

पवित्र-शब्द-मध्ये वै युवयोर्-नाम संस्थितम्।

आश्चर्यं मे महाराज्ञि न केवलमृषि-गिरे॥ ८१७ ॥

आधुनिकेषु वाक्येषु मदीय-काल-भाषया।

वां नाम्नोर्-अक्षराणां हि गम्भीरावृत्तिर्-अद्भुता॥ ८१८ ॥

तत्त्व-ज्ञान-रहस्येषु दृश्यते परमेश्वरि।

राधा-कृष्ण-स्वनाम्नोर्-वै तत्त्व-ज्ञानमिदं शिवे॥ ८१९ ॥

सर्वत्र वां प्रवेशनं यदि वक्ष्यामि विस्तरात्।

नैवात्र मे भवेदन्तः कदाचिदपि राधिके॥ ८२० ॥

मन्त्रे तन्त्रे तथा यन्त्रे शास्त्रे चापि च संस्थिता।

इन्द्र-नाम्न्यपि पत्युस्ते सर्व-पूर्वा श्रीर्-एव च॥ ८२१ ॥

श्री-लक्ष्म्य्-अन्तः श्री-कृष्णान्तः श्री-नारायण-विष्णुषु।

श्री-शिवा-कालिका-मध्ये श्री-नारदे च संस्थिता॥ ८२२ ॥

सर्वत्र युवयोर्-नाम व्याप्तं चैव चराचरे।

विश्वस्य सर्व-भाषासु कर्मणि प्रवहत्-सुखे॥ ८२३ ॥

विद्यसे त्वं महाराज्ञि सर्व-कार्य-विहारिणि।

उक्तं मात्रेण कृतम् इत्य्-अनेन सङ्क्षिपाम्यहम्॥ ८२४ ॥

युवयोर्मिलनात् साक्षात् सृष्टं सर्वं जगत्-त्रयम्।

ब्रह्माण्डस्य च निर्माणं काव्यादीनां च सर्जनम्॥ ८२५ ॥

सर्व-निर्मातृता साक्षाद् वां योगं ह्यपेक्षते।

अस्तित्वस्य हि सर्वस्य मूल-रूपौ युवां यतः॥ ८२६ ॥

सर्व-कारण-कारणं तस्माद् वदामि राधिके।

तस्मात् ते पाद-पद्मेषु पत्युस्ते चरणाम्बुजे॥ ८२७ ॥

u/Initial_Fold_420 — 14 days ago
▲ 22 r/yugala+1 crossposts

श्री अष्टसखी नित्यप्रेमतारिणी प्रथमोध्यायः - वृन्दावनभजनम् 483-539 (venu gita)

आनन्दस्य तरङ्गैश्च युष्मान् पूरयतु प्रभुः ।

अनन्तगुणितं नित्यं वर्धतां युष्मदुत्सवः ॥ ४८३ ॥

हे राज्ञि तेन मे नित्यं परमानन्दसम्पदः ।

प्राप्यन्ते नात्र सन्देहो युष्माकं सुखवर्धनात् ॥ ४८४ ॥

तस्मात् ते पादपद्मेऽहं प्रणमामि पुनः पुनः ।

पवित्रौ ते पदाम्भोजौ वन्देऽहं भक्तितो नता ॥ ४८५ ॥

श्रीशुक उवाच

गोप्य: कृष्णे वनं याते तमनुद्रुतचेतस: ।

कृष्णलीला: प्रगायन्त्यो निन्युर्दु:खेन वासरान् ॥ १ ॥

श्रीगोप्य ऊचु:

वामबाहुकृतवामकपोलो

वल्गितभ्रुरधरार्पितवेणुम् ।

कोमलाङ्गुलिभिराश्रितमार्गं

गोप्य ईरयति यत्र मुकुन्द: ॥ २ ॥

व्योमयानवनिता: सह सिद्धै-

र्विस्मितास्तदुपधार्य सलज्जा: ।

काममार्गणसमर्पितचित्ता:

कश्मलं ययुरपस्मृतनीव्य: ॥ ३ ॥

हन्त चित्रमबला: श‍ृणुतेदं

हारहास उरसि स्थिरविद्युत् ।

नन्दसूनुरयमार्तजनानां

नर्मदो यर्हि कूजितवेणु: ॥ ४ ॥

वृन्दशो व्रजवृषा मृगगावो

वेणुवाद्यहृतचेतस आरात् ।

दन्तदष्टकवला धृतकर्णा

निद्रिता लिखितचित्रमिवासन् ॥ ५ ॥

बर्हिणस्तबकधातुपलाशै-

र्बद्धमल्लपरिबर्हविडम्ब: ।

कर्हिचित् सबल आलि स गोपै-

र्गा: समाह्वयति यत्र मुकुन्द: ॥ ६ ॥

तर्हि भग्नगतय: सरितो वै

तत्पदाम्बुजरजोऽनिलनीतम् ।

स्पृहयतीर्वयमिवाबहुपुण्या:

प्रेमवेपितभुजा: स्तिमिताप: ॥ ७ ॥

अनुचरै: समनुवर्णितवीर्य

आदिपूरुष इवाचलभूति: ।

वनचरो गिरितटेषु चरन्ती-

र्वेणुनाह्वयति गा: स यदा हि ॥ ८ ॥

वनलतास्तरव आत्मनि विष्णुं

व्यञ्जयन्त्य इव पुष्पफलाढ्या: ।

प्रणतभारविटपा मधुधारा:

प्रेमहृष्टतनवो ववृषु: स्म ॥ ९ ॥

दर्शनीयतिलको वनमाला-

दिव्यगन्धतुलसीमधुमत्तै: ।

अलिकुलैरलघुगीतामभीष्ट-

माद्रियन् यर्हि सन्धितवेणु: ॥ १० ॥

सरसि सारसहंसविहङ्गा-

श्चारुगीताहृतचेतस एत्य ।

हरिमुपासत ते यतचित्ता

हन्त मीलितद‍ृशो धृतमौना: ॥ ११ ॥

सहबल: स्रगवतंसविलास:

सानुषु क्षितिभृतो व्रजदेव्य: ।

हर्षयन् यर्हि वेणुरवेण

जातहर्ष उपरम्भति विश्वम् ॥ १२ ॥

महदतिक्रमणशङ्कितचेता

मन्दमन्दमनुगर्जति मेघ: ।

सुहृदमभ्यवर्षत् सुमनोभि-

श्छायया च विदधत् प्रतपत्रम् ॥ १३ ॥

विविधगोपचरणेषु विदग्धो

वेणुवाद्य उरुधा निजशिक्षा: ।

तव सुत: सति यदाधरबिम्बे

दत्तवेणुरनयत् स्वरजाती: ॥ १४ ॥

सवनशस्तदुपधार्य सुरेशा:

शक्रशर्वपरमेष्ठिपुरोगा: ।

कवय आनतकन्धरचित्ता:

कश्मलं ययुरनिश्चिततत्त्वा: ॥ १५ ॥

निजपदाब्जदलैर्ध्वजवज्र-

नीरजाङ्कुशविचित्रललामै: ।

व्रजभुव: शमयन् खुरतोदं

वर्ष्मधुर्यगतिरीडितवेणु: ॥ १६ ॥

व्रजति तेन वयं सविलास-

वीक्षणार्पितमनोभववेगा: ।

कुजगतिं गमिता न विदाम:

कश्मलेन कवरं वसनं वा ॥ १७ ॥

मणिधर: क्‍वचिदागणयन् गा

मालया दयितगन्धतुलस्या: ।

प्रणयिनोऽनुचरस्य कदांसे

प्रक्षिपन् भुजमगायत यत्र ॥ १८ ॥

क्‍वणितवेणुरववञ्चितचित्ता:

कृष्णमन्वसत कृष्णगृहिण्य: ।

गुणगणार्णमनुगत्य हरिण्यो

गोपिका इव विमुक्तगृहाशा: ॥ १९ ॥

कुन्ददामकृतकौतुकवेषो

गोपगोधनवृतो यमुनायाम् ।

नन्दसूनुरनघे तव वत्सो

नर्मद: प्रणयिणां विजहार ॥ २० ॥

मन्दवायुरुपवात्यनुकूलं

मानयन् मलयजस्पर्शेन ।

वन्दिनस्तमुपदेवगणा ये

वाद्यगीतबलिभि: परिवव्रु: ॥ २१ ॥

वत्सलो व्रजगवां यदगध्रो

वन्द्यमानचरण: पथि वृद्धै: ।

कृत्‍स्‍नगोधनमुपोह्य दिनान्ते

गीतवेणुरनुगेडितकीर्ति: ॥ २२ ॥

उत्सवं श्रमरुचापि द‍ृशीना-

मुन्नयन् खुररजश्छुरितस्रक् ।

दित्सयैति सुहृदासिष एष

देवकीजठरभूरुडुराज: ॥ २३ ॥

मदविघूर्णितलोचन ईषत्-

मानद: स्वसुहृदां वनमाली ।

बदरपाण्डुवदनो मृदुगण्डं

मण्डयन् कनककुण्डललक्ष्म्या ॥ २४ ॥

यदुपतिर्द्विरदराजविहारो

यामिनीपतिरिवैष दिनान्ते ।

मुदितवक्त्र उपयाति दुरन्तं

मोचयन् व्रजगवां दिनतापम् ॥ २५ ॥

श्रीशुक उवाच

एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायती: ।

रेमिरेऽह:सु तच्चित्तास्तन्मनस्का महोदया: ॥ २६ ॥

॥श्रीराधाचरणरेणुरुवाच॥

अतीव मधुरान् श्लोकान् पठित्वाध्यायसञ्चयान् ।

कोटिकोटिगुणं क्षौद्रं भक्षितं युगपन्मया ॥ ५१२ ॥

तेनानन्देन सम्पूर्णा दिव्योल्लासं गता ह्यहम् ।

मम चेतसि सञ्जातः परमः सुखसागरः ॥ ५१३ ॥

युष्मान् सुखस्य पूरैश्च भृशं प्लावयतु प्रभुः ।

महाराजाधिराजो यः शिखिपिच्छावतंसकः ॥ ५१४ ॥

स्कन्धे चैकादशे वक्ति श्रीमद्भागवते प्रभुः ।

श्रीकृष्णो द्वादशेऽध्याये दशमात्तु त्रयोदशम् ॥ ५१५ ॥

रामेण सार्धं मथुरां प्रणीते

श्वाफल्किना मय्यनुरक्तचित्ता: ।

विगाढभावेन न मे वियोग-

तीव्राधयोऽन्यं दद‍ृशु: सुखाय ॥ १० ॥

तास्ता: क्षपा: प्रेष्ठतमेन नीता

मयैव वृन्दावनगोचरेण ।

क्षणार्धवत्ता: पुनरङ्ग तासां

हीना मया कल्पसमा बभूवु: ॥ ११ ॥

ता नाविदन् मय्यनुषङ्गबद्ध-

धिय: स्वमात्मानमदस्तथेदम् ।

यथा समाधौ मुनयोऽब्धितोये

नद्य: प्रविष्टा इव नामरूपे ॥ १२ ॥

मत्कामा रमणं जारमस्वरूपविदोऽबला: ।

ब्रह्म मां परमं प्रापु: सङ्गाच्छतसहस्रश: ॥ १३ ॥

॥श्रीराधाचरणरेणुरुवाच॥

विस्मितास्मि महादेवि तुङ्गविद्ये नमोऽस्तु ते ।

पश्यामो ह्यधिकं देवि व्रजधामेदमद्भुतम् ॥ ५२० ॥

पावनं भूमिखण्डं हि धामैतद्दर्शितं त्वया ।

मार्गदर्शनमुद्दिश्य कृतज्ञाहं पुनः पुनः ॥ ५२१ ॥

स्कान्दे वैष्णवखण्डे च माहात्म्ये माथुरे तथा ।

सप्तदशे तथाध्याये श्लोके चाष्टाविंशे खलु ॥ ५२२ ॥

मथुरायां प्रकुर्वन्ति पुरीसाधारणीदृशम् ।

ये नरास्तेऽपि विज्ञेया: पापराशिभिरन्विता: ॥

साधारणा इवाभान्ति लौकिके कर्मणि स्थिताः ।

तथापि ते महाधन्याः सर्वे वै व्रजवासिनः ॥ ५२४ ॥

हे व्रजधामवासिनो दीनामेतां हि दासिकाम् ।

अनुगृह्णन्तु कृपया ह्यपेक्षे करुणां हि वः ॥ ५२५ ॥

युष्माकं तोषणं नित्यं सर्वेषां व्रजवासिनाम् ।

एतदेव हि मे वाञ्छा नान्यदस्ति प्रयोजनम् ॥ ५२६ ॥

व्रजे पिपीलिकां चापि नैव हिंसितुमर्हति ।

सर्वथा पूजनीयास्ते नैव साधारणा जनाः ॥ ५२७ ॥

इति सर्वैर्महाचार्यैः स्पष्टमेव प्रदर्श्यते ।

तस्माद्व्रजौकसां नौमि पादपद्मं पृथक् पृथक् ॥ ५२८ ॥

हे व्रजवासिनः सर्वे मयि कुर्वन्तु वै कृपाम् ।

अशक्ताहं निरालम्बा केवला दीनदासिका ॥ ५२९ ॥

ब्रह्मवैवर्तसंज्ञके कृष्णजन्मनि खण्डके ।

द्विनवतितमेऽध्याये श्लोके वै चतुःषष्टिके ॥ ५३० ॥

उद्धवो वक्ति तत्रैव राधाया महिमां प्रति ।

भक्तिभावसमायुक्तः शृणु तद्वचनं शुभम् ॥ ५३१ ॥

वन्दे राधापदाम्भोजं ब्रह्मादिसुरवन्दितम् ।

यत्कीर्तिः कीर्तनेनैव पुनाति भुवनत्रयम् ॥

श्रीरघुनाथदासो मे गोस्वामी प्रभुरादरात् ।

मनःशिक्षाह्वये ग्रन्थे श्लोके चाष्टमके तथा ॥ ५३३ ॥

यथा दुष्टत्वं मे दवयति शठस्यापि कृपया यथा मह्यं प्रेमामृतमपि ददात्युज्ज्वलमसौ ।

यथा श्रीगान्धर्वाभजनविधये प्रेरयति मां तथा गोष्ठे काक्वा गिरिधरमिह त्वं भज मनः ॥

श्रीहरिवंशनामा मे प्रभुराह कृपानिधिः ।

राधासुधानिधिसिन्धौ श्लोके पञ्चनवत्यङ्के ॥ ५३५ ॥

श्रीमत्या राधाराण्याश्च यमुनायास्तथैव च ।

व्रजधाम्नो महत्त्वं हि वर्णयन् वक्ति यत्नतः ॥ ५३६ ॥

कालिन्दी-तट कुञ्ज-मन्दिरगतो योगीन्द्रवद्यत्पद- ज्योतिर्ध्यानपरः सदा जपति यां प्रेमाश्रुपूर्णो हरिः । केनाप्यद्भुतमुल्लसद्रतिसानन्देन सम्मोहितः, सा राधेति सदा हृदि स्फुरतु मे विद्या परा द्व्यक्षरा ॥

तस्माद्व्रजस्य गोपीनां सर्वासां चरणाम्बुजे ।

प्रणमामि मुहुर्देव्यो युष्माकं सर्वदा खलु ॥ ५३८ ॥

स्वामिन्या राधिकामहा- राज्ञ्याः पादाम्बुजे तथा ।

व्रजधामनिवासिभ्यः सर्वेभ्यः प्रणमाम्यहम् ॥ ५३९ ॥

u/Initial_Fold_420 — 15 days ago
▲ 18 r/yugala+1 crossposts

श्री अष्टसखी नित्यप्रेमतारिणी प्रथमोध्यायः - वृन्दावनभजनम् 432-482 (Rasa Lila)

करुणामयि देवि त्वं कृपामृतरसेन माम् ।

पूरयस्व दयासिन्धो दासीं ते शरणागताम् ॥ ४३२ ॥

श्रीशुक उवाच

इत्थं भगवतो गोप्य: श्रुत्वा वाच: सुपेशला: ।

जहुर्विरहजं तापं तदङ्गोपचिताशिष: ॥ १ ॥

तत्रारभत गोविन्दो रासक्रीडामनुव्रतै: ।

स्त्रीरत्नैरन्वित: प्रीतैरन्योन्याबद्धबाहुभि: ॥ २ ॥

रासोत्सव: सम्प्रवृत्तो गोपीमण्डलमण्डित: ।

योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयो: ।

प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रिय: ।

यं मन्येरन् नभस्तावद् विमानशतसङ्कुलम् ।

दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम् ॥ ३ ॥

ततो दुन्दुभयो नेदुर्निपेतु: पुष्पवृष्टय: ।

जगुर्गन्धर्वपतय: सस्त्रीकास्तद्यशोऽमलम् ॥ ४ ॥

वलयानां नूपुराणां किङ्किणीनां च योषिताम् ।

सप्रियाणामभूच्छब्दस्तुमुलो रासमण्डले ॥ ५ ॥

तत्रातिशुशुभे ताभिर्भगवान् देवकीसुत: ।

मध्ये मणीनां हैमानां महामरकतो यथा ॥ ६ ॥

पादन्यासैर्भुजविधुतिभि: सस्मितैर्भ्रूविलासै-

र्भज्यन्मध्यैश्चलकुचपटै: कुण्डलैर्गण्डलोलै: ।

स्विद्यन्मुख्य: कवररसनाग्रन्थय: कृष्णवध्वो

गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजु: ॥ ७ ॥

उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रिया: ।

कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥ ८ ॥

काचित् समं मुकुन्देन स्वरजातीरमिश्रिता: ।

उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति ।

तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ ९ ॥

काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृत: ।

जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ १० ॥

तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् ।

चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ ११ ॥

कस्याश्‍चिन्नाट्यविक्षिप्त कुण्डलत्विषमण्डितम् ।

गण्डं गण्डे सन्दधत्या: प्रादात्ताम्बूलचर्वितम् ॥ १२ ॥

नृत्यती गायती काचित् कूजन्नूपुरमेखला ।

पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात्स्तनयो: शिवम् ॥ १३ ॥

गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् ।

गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ १४ ॥

कर्णोत्पलालकविटङ्ककपोलघर्म-

वक्त्रश्रियो वलयनूपुरघोषवाद्यै: ।

गोप्य: समं भगवता ननृतु: स्वकेश-

स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥ १५ ॥

एवं परिष्वङ्गकराभिमर्श-

स्निग्धेक्षणोद्दामविलासहासै: ।

रेमे रमेशो व्रजसुन्दरीभि-

र्यथार्भक: स्वप्रतिबिम्बविभ्रम: ॥ १६ ॥

तदङ्गसङ्गप्रमुदाकुलेन्द्रिया:

केशान् दुकूलं कुचपट्टिकां वा ।

नाञ्ज: प्रतिव्योढुमलं व्रजस्त्रियो

विस्रस्तमालाभरणा: कुरूद्वह ॥ १७ ॥

कृष्णविक्रीडितं वीक्ष्य मुमुहु: खेचरस्त्रिय: ।

कामार्दिता: शशाङ्कश्च सगणो विस्मितोऽभवत् ॥ १८ ॥

कृत्वा तावन्तमात्मानं यावतीर्गोपयोषित: ।

रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥ १९ ॥

तासां रतिविहारेण श्रान्तानां वदनानि स: ।

प्रामृजत् करुण: प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ २० ॥

गोप्य: स्फुरत्पुरटकुण्डलकुन्तलत्विड्-

गण्डश्रिया सुधितहासनिरीक्षणेन ।

मानं दधत्य ऋषभस्य जगु: कृतानि

पुण्यानि तत्कररुहस्पर्शप्रमोदा: ॥ २१ ॥

ताभिर्युत: श्रममपोहितुमङ्गसङ्ग-

घृष्टस्रज: स कुचकुङ्कुमरञ्जिताया: ।

गन्धर्वपालिभिरनुद्रुत आविशद् वा:

श्रान्तो गजीभिरिभराडिव भिन्नसेतु: ॥ २२ ॥

सोऽम्भस्यलं युवतिभि: परिषिच्यमान:

प्रेम्णेक्षित: प्रहसतीभिरितस्ततोऽङ्ग ।

वैमानिकै: कुसुमवर्षिभिरीड्यमानो

रेमे स्वयं स्वरतिरत्र गजेन्द्रलील: ॥ २३ ॥

ततश्च कृष्णोपवने जलस्थल-

प्रसूनगन्धानिलजुष्टदिक्तटे ।

चचार भृङ्गप्रमदागणावृतो

यथा मदच्युद् द्विरद: करेणुभि: ॥ २४ ॥

एवं शशाङ्कांशुविराजिता निशा:

स सत्यकामोऽनुरताबलागण: ।

सिषेव आत्मन्यवरुद्धसौरत:

सर्वा: शरत्काव्यकथारसाश्रया: ॥ २५ ॥

श्रीपरीक्षिदुवाच

संस्थापनाय धर्मस्य प्रशमायेतरस्य च ।

अवतीर्णो हि भगवानंशेन जगदीश्वर: ॥ २६ ॥

स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता ।

प्रतीपमाचरद् ब्रह्मन् परदाराभिमर्शनम् ॥ २७ ॥

आप्तकामो यदुपति: कृतवान्वै जुगुप्सितम् ।

किमभिप्राय एतन्न: शंशयं छिन्धि सुव्रत ॥ २८ ॥

श्रीशुक उवाच

धर्मव्यतिक्रमो द‍ृष्ट ईश्वराणां च साहसम् ।

तेजीयसां न दोषाय वह्ने: सर्वभुजो यथा ॥ २९ ॥

नैतत् समाचरेज्जातु मनसापि ह्यनीश्वर: ।

विनश्यत्याचरन् मौढ्याद्यथारुद्रोऽब्धिजं विषम् ॥ ३० ॥

ईश्वराणां वच: सत्यं तथैवाचरितं क्‍वचित् ।

तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत् ॥ ३१ ॥

कुशलाचरितेनैषामिह स्वार्थो न विद्यते ।

विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥ ३२ ॥

किमुताखिलसत्त्वानां तिर्यङ्‌मर्त्यदिवौकसाम् ।

ईशितुश्चेशितव्यानां कुशलाकुशलान्वय: ॥ ३३ ॥

यत्पादपङ्कजपरागनिषेवतृप्ता

योगप्रभावविधुताखिलकर्मबन्धा: ।

स्वैरं चरन्ति मुनयोऽपि न नह्यमाना-

स्तस्येच्छयात्तवपुष: कुत एव बन्ध: ॥ ३४ ॥

गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् ।

योऽन्तश्चरति सोऽध्यक्ष: क्रीडनेनेह देहभाक् ॥ ३५ ॥

अनुग्रहाय भक्तानां मानुषं देहमास्थित: ।

भजते ताद‍ृशी: क्रीडा या: श्रुत्वा तत्परो भवेत् ॥ ३६ ॥

नासूयन् खलु कृष्णाय मोहितास्तस्य मायया ।

मन्यमाना: स्वपार्श्वस्थान्स्वान्स्वान्दारान् व्रजौकस: ॥ ३७ ॥

ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिता: ।

अनिच्छन्त्यो ययुर्गोप्य: स्वगृहान्भगवत्प्रिया: ॥ ३८ ॥

विक्रीडितं व्रजवधूभिरिदं च विष्णो:

श्रद्धान्वितोऽनुश‍ृणुयादथ वर्णयेद् य: ।

भक्तिं परां भगवति प्रतिलभ्य कामं

हृद्रोगमाश्वपहिनोत्यचिरेण धीर: ॥ ३९ ॥

॥श्रीराधाचरणरेणुरुवाच॥

अतीव परमानन्दं दिव्योल्लासं भजाम्यहम् ।

हे स्वामिनि तुङ्गविद्ये पञ्चत्रिंशं पठाम्यथ ॥ ४७२ ॥

सम्पूर्णं सुखमासाद्य परमां निर्वृतिं गता ।

अध्यायं पञ्चत्रिंशं तं श्रावयामि तवाग्रतः ॥ ४७३ ॥

अद्यापि विरहोत्तापः दहत्येव हि मां भृशम् ।

विरहाग्निर्महातीव्रः भस्मीकरोति मे तनुम् ॥ ४७४ ॥

तथापि तं हरिं दृष्ट्वा युष्मदर्थे समुत्थितम् ।

प्रादुर्भूतं तमालोक्य परं हर्षमवाप्नुवाम् ॥ ४७५ ॥

रासलीलां विलोक्याहं ततोऽप्यधिकमोदिता ।

यतो यूयं प्रहृष्टाः स्थ महानन्देन पूरिताः ॥ ४७६ ॥

हे तुङ्गविद्ये देवि त्वं महानन्दे निमज्जिता ।

त्वां सुप्रसन्नां दृष्ट्वा मे पूर्णानन्दो भवेद्धृदि ॥ ४७७ ॥

श्रीकृष्णाय निवेद्यैतद् वद त्वं वचनान्मम ।

दीना दासीयं तुष्टास्ति सर्वैस्तस्य विचेष्टितैः ॥ ४७८ ॥

राधिका तस्य पत्नी या तस्याः पादरजोऽस्म्यहम् ।

गोपीनां सुखहेतोः स यत्करोति मुदे हि मे ॥ ४७९ ॥

अतीव मोदितास्म्यद्य ज्ञापयस्व तथा हरिम् ।

युष्माकं सुखमालोक्य वृद्धिं गच्छति मे सुखम् ॥ ४८० ॥

यथा यथा प्रहृष्टाः स्थ गोपीवृन्दास्तथा तथा ।

मम चित्ते प्रमोदोऽयं सहस्रगुणितो भवेत् ॥ ४८१ ॥

इयं मे प्रार्थना कृष्णे युष्मान् कुर्यात् सुमोदितान् ।

आनन्दमधिकं दद्याद् गोपीभ्यो नन्दनन्दनः ॥ ४८२ ॥

u/Initial_Fold_420 — 16 days ago
▲ 23 r/yugala+1 crossposts

श्री अष्टसखी नित्यप्रेमतारिणी प्रथमोध्यायः - वृन्दावनभजनम् 336-431

आलिङ्गितुं हि वाञ्छामि त्वां राधां च मुहुर्मुहुः ।

आघ्रातुं दिव्यगन्धं ते राधिकायाश्च माधव ॥३३६॥

हे नाथ पद्मपादाब्ज ममास्यं देह एव च ।

युवयोः कोमलङ्घ्रीणां पादपीठं भवेत् सदा ॥३३७॥

युवयोः कोमलौ पादौ निधीनां मे निधिः खलु ।

प्राणेभ्योऽपि प्रियौ नित्यं जीवनस्य च जीवनम् ॥३३८॥

राधिकायाः पदाम्भोजे लग्ना रेणुरहं खलु ।

मयीमां कुरु कारुण्यं पादपीठं कुरुष्व माम् ॥३३९॥

यथा ब्रह्मा वृषभानु-प्रासादस्य विधारणे ।

वृन्दावने पर्वतात्मा राधापादतलेऽभवत् ॥३४०॥

तथैव पादपीठं मां कुरुष्व सर्वदा हरे ।

त्वां स्निह्यामि प्रतीक्षे च निश्चितं त्वमुपैष्यसि ॥३४१॥

तदागमनमाश्रित्य सज्जीकुर्वामि मामकम् ।

देहान्तःकरणं सर्वं सङ्गमाय तवाच्युत ॥३४२॥

हे तुङ्गविद्ये देवि त्वं शृणु मे वचनं शुभम् ।

कृष्णस्य चरितं यस्माद् वदामि तव सन्निधौ ॥ ३४३ ॥

गोपीगीतं कथं मह्यं रोचतेऽतीव वल्लभे ।

तत्कारणं प्रवक्ष्यामि शृणुष्वैकाग्रमानसा ॥ ३४४ ॥

मासद्वयात् पुरा रात्रौ स्वप्ने दृष्टो मया हरिः ।

श्रीकृष्णः करुणासिन्धुः साक्षाद् गोकुलनन्दनः ॥ ३४५ ॥

तत्र दृष्टो मया लोकः स्त्रीपुम्बालसमन्वितः ।

गोपीभावेन ते सर्वे व्यवहारं प्रचक्रिरे ॥ ३४६ ॥

सर्वे काङ्क्षन्ति तस्यैकां दृष्टिं कारुण्यवर्षिणीम् ।

अहमप्यैच्छमत्यर्थं तस्य दृष्टिमथोत्तमाम् ॥ ३४७ ॥

ततो मां वीक्ष्य गोविन्दः प्रोवाच स्मयनाननः ।

त्वं चान्ये च जनाः सर्वे मामेव प्राप्तुमिच्छथ ॥ ३४८ ॥

गच्छ त्वं पुरुषाणां हि पङ्क्तौ तिष्ठ समाहिता ।

इति श्रुत्वा वचस्तस्य विषादो मे व्यजायत ॥ ३४९ ॥

येषां चोपरि तद्दृष्टिः पतिता तान् विलोक्य च ।

ईर्ष्या च महती जाता मदीये हृदये तदा ॥ ३५० ॥

ततो मया स्मृतं शीघ्रं अहङ्कारविनाशनम् ।

कृतं तेनेति मत्वाऽहं स्मितं चक्रे सुभावतः ॥ ३५१ ॥

ततो हरिं अहं दृष्ट्वा हसन्तं चारुदर्शनम् ।

सम्मतिं मनसा कृत्वा तस्यां पङ्क्तौ स्थिता ह्यहम् ॥ ३५२ ॥

तत्रासन् शतशो नार्यः पुरुषाश्च सहस्रशः ।

सर्वे कृष्णं समिच्छन्ति तद्दर्शनपरायणाः ॥ ३५३ ॥

तत्रैका मञ्जूषा चासीद् यस्यामन्तर्विराजते ।

श्रीराधाकृष्णयोश्चित्रं गोपीनां च तदा सखि ॥ ३५४ ॥

मयोक्तं तत्र गुप्तेयं निधिर्मे परमः खलु ।

निधीनां च निधिश्चैष मदीयो जीवितेश्वरः ॥ ३५५ ॥

चूर्णितं मेऽभिमानं तु दृष्ट्वा तत्र जनार्दनः ।

ममाकिञ्चनभावं वै ज्ञात्वा सन्तोषमागतः ॥ ३५६ ॥

समं स्निह्यति सर्वत्र प्राणिषु प्रभुरीश्वरः ।

इति ज्ञात्वा विनिर्दोषामहङ्कारविवर्जिताम् ॥ ३५७ ॥

भङ्क्त्वा तां पुरुषपङ्क्तिं मामहूयत माधवः ।

सेवायै चानुजज्ञे मां करुणामृतसागरः ॥ ३५८ ॥

आदिदेश च मां कृष्णः पठ गीतां हि मामकीम् ।

गम्भीरं ज्ञानमाश्रित्य विचारय पुनः पुनः ॥ ३५९ ॥

ततो ददौ स मे पात्रं जलेन पूरितं तथा ।

हिमेनातिसुशीतं च लवणेन समन्वितम् ॥ ३६० ॥

आदिष्टस्थानमुद्दिश्य धावन्ती ह्युन्मदी यथा ।

तदाहं प्रस्थिता वेगात् तस्यादेशपरायणा ॥ ३६१ ॥

यद्यपि छिद्रितं पात्रं स्रवत्यम्बु निरन्तरम् ।

तथापि गन्तुमनुज्ञां दत्तवान् भक्तवत्सलः ॥ ३६२ ॥

पात्रे छिद्रेऽपि मे प्रेम सेवावाञ्छां च केवलम् ।

वीक्ष्य तत्रानुमेने मां कृष्णः करुणया भृशम् ॥ ३६३ ॥

एष एव हि श्रीकृष्णो हे तुङ्गविद्ये सुन्दरि ।

बहुवारं समागत्य स्वप्ने दृष्टो मया हरिः ॥ ३६४ ॥

न स्मरामि च स्वप्नानां वृत्तान्तं सर्वमप्यहम् ।

केवलं तस्य माधुर्यं शीलं च परमद्भुतम् ॥ ३६५ ॥

स्निह्यामि तस्मिन्नेवाहमेष मे श्यामसुन्दरः ।

तस्य दिव्यं स्वभावं च प्रेम्णा स्मरामि नित्यशः ॥ ३६६ ॥

यदा यदा पठाम्यहं गोपीगीतं सुपावनम् ।

सर्वैः सह कथं कृष्णो व्यवहरति श्रीपतिः ॥ ३६७ ॥

तत् सर्वं हि स्मरामीशं सर्वभूतहिते रतम् ।

दूरीकरोति नः सोऽपि विरहाग्निप्रवृद्धये ॥ ३६८ ॥

विरहेणानुरागो नो वर्धते तत्र सर्वदा ।

येन तस्मिन् दृढासक्तिः परमप्रेमलक्षणा ॥ ३६९ ॥

ततः समीपमानयत्यनन्तकालमच्युतः ।

अस्माकं करुणार्थाय कुरुते तादृशं हरिः ॥ ३७० ॥

कृपैव तस्य देवस्य प्रेम वर्धयितुं हृदि ।

अनेन क्रीडते नित्यं स एव गोपिकापतिः ॥ ३७१ ॥

इदानीं मां च हे देवि तुङ्गविद्येऽनुमन्यताम् ।

गोपीगीतं पठिष्यामि विरहाग्निप्रदीपनम् ॥ ३७२ ॥

श्रीमद्भागवते ग्रन्थे स्कन्धे दशमके शुभे ।

एकत्रिंशत्तमेऽध्याये गोपीगीतं पठाम्यहम् ॥ ३७३ ॥

गोप्य ऊचु:

जयति तेऽधिकं जन्मना व्रज:

श्रयत इन्दिरा शश्वदत्र हि ।

दयित द‍ृश्यतां दिक्षु तावका-

स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १ ॥

शरदुदाशये साधुजातसत्-

सरसिजोदरश्रीमुषा द‍ृशा ।

सुरतनाथ तेऽशुल्कदासिका

वरद निघ्नतो नेह किं वध: ॥ २ ॥

विषजलाप्ययाद् व्यालराक्षसाद्

वर्षमारुताद् वैद्युतानलात् ।

वृषमयात्मजाद् विश्वतो भया-

दृषभ ते वयं रक्षिता मुहु: ॥ ३ ॥

न खलु गोपीकानन्दनो भवान्

अखिलदेहिनामन्तरात्मद‍ृक् ।

विखनसार्थितो विश्वगुप्तये

सख उदेयिवान् सात्वतां कुले ॥ ४ ॥

विरचिताभयं वृष्णिधूर्य ते

चरणमीयुषां संसृतेर्भयात् ।

करसरोरुहं कान्त कामदं

शिरसि धेहि न: श्रीकरग्रहम् ॥ ५ ॥

व्रजजनार्तिहन् वीर योषितां

निजजनस्मयध्वंसनस्मित ।

भज सखे भवत्किङ्करी: स्म नो

जलरुहाननं चारु दर्शय ॥ ६ ॥

प्रणतदेहिनां पापकर्षणं

तृणचरानुगं श्रीनिकेतनम् ।

फणिफणार्पितं ते पदाम्बुजं

कृणु कुचेषु न: कृन्धि हृच्छयम् ॥ ७ ॥

मधुरया गिरा वल्गुवाक्यया

बुधमनोज्ञया पुष्करेक्षण ।

विधिकरीरिमा वीर मुह्यतीर्

अधरसीधुनाप्याययस्व न: ॥ ८ ॥

तव कथामृतं तप्तजीवनं

कविभिरीडितं कल्मषापहम् ।

श्रवणमङ्गलं श्रीमदाततं

भुवि गृणन्ति ये भूरिदा जना: ॥ ९ ॥

प्रहसितं प्रिय प्रेमवीक्षणं

विहरणं च ते ध्यानमङ्गलम् ।

रहसि संविदो या हृदिस्पृश:

कुहक नो मन: क्षोभयन्ति हि ॥ १० ॥

चलसि यद् व्रजाच्चारयन् पशून्

नलिनसुन्दरं नाथ ते पदम् ।

शिलतृणाङ्कुरै: सीदतीति न:

कलिलतां मन: कान्त गच्छति ॥ ११ ॥

दिनपरिक्षये नीलकुन्तलै-

र्वनरुहाननं बिभ्रदावृतम् ।

घनरजस्वलं दर्शयन् मुहु-

र्मनसि न: स्मरं वीर यच्छसि ॥ १२ ॥

प्रणतकामदं पद्मजार्चितं

धरणिमण्डनं ध्येयमापदि ।

चरणपङ्कजं शन्तमं च ते

रमण न: स्तनेष्वर्पयाधिहन् ॥ १३ ॥

सुरतवर्धनं शोकनाशनं

स्वरितवेणुना सुष्ठु चुम्बितम् ।

इतररागविस्मारणं नृणां

वितर वीर नस्तेऽधरामृतम् ॥ १४ ॥

अटति यद् भवानह्नि काननं

त्रुटि युगायते त्वामपश्यताम् ।

कुटिलकुन्तलं श्रीमुखं च ते

जड उदीक्षतां पक्ष्मकृद् दृशाम् ॥ १५ ॥

पतिसुतान्वयभ्रातृबान्धवा-

नतिविलङ्‌घ्य तेऽन्त्यच्युतागता: ।

गतिविदस्तवोद्गीतमोहिता:

कितव योषित: कस्त्यजेन्निशि ॥ १६ ॥

व्रजवनौकसां व्यक्तिरङ्ग ते

वृजिनहन्‍त्र्यलं विश्वमङ्गलम् ।

त्यज मनाक् च नस्त्वत्स्पृहात्मनां

स्वजनहृद्रुजां यन्निषूदनम् ॥ १८ ॥

यत्ते सुजातचरणाम्बुरुहं स्तनेषु

भीता: शनै: प्रिय दधीमहि कर्कशेषु ।

तेनाटवीमटसि तद् व्यथते न किंस्वित्

कूर्पादिभिर्भ्रमति धीर्भवदायुषां न: ॥ १९ ॥

॥श्रीराधाचरणरेणुरुवाच॥

गोपीगीतं पठित्वाऽहं स्मरामि करुणां हरेः ।

यथा मे खण्डितो गर्वः पश्चान्मां स उपागतः ॥ ३९३ ॥

तथैवान्तर्हितः कृष्णो गोपीनां प्रेम वीक्ष्य सः ।

तासां गर्वविनाशाय प्रादुर्भूतो हि ताः पुरः ॥ ३९४ ॥

हे मातस्तुङ्गविद्ये ते नमामि चरणाम्बुजम् ॥ ३९५ ॥

न श्रान्तास्मि महागोप्यः युष्माकं कीर्तने शुभे ।

प्रणम्य पादपद्मे ते प्रारम्भं हि करोम्यहम् ॥ ३९६ ॥

श्रीशुक उवाच

इति गोप्य: प्रगायन्त्य: प्रलपन्त्यश्च चित्रधा ।

रुरुदु: सुस्वरं राजन् कृष्णदर्शनलालसा: ॥ १ ॥

तासामाविरभूच्छौरि: स्मयमानमुखाम्बुज: ।

पीताम्बरधर: स्रग्वी साक्षान्मन्मथमन्मथ: ॥ २ ॥

तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लद‍ृशोऽबला: ।

उत्तस्थुर्युगपत् सर्वास्तन्व: प्राणमिवागतम् ॥ ३ ॥

काचित् कराम्बुजं शौरेर्जगृहेऽञ्जलिना मुदा ।

काचिद् दधार तद्बाहुमंसे चन्दनभूषितम् ॥ ४ ॥

काचिदञ्जलिनागृह्णात्तन्वी ताम्बूलचर्वितम् ।

एका तदङ्‍‍‍‍‍घ्रिकमलं सन्तप्ता स्तनयोरधात् ॥ ५ ॥

एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला ।

घ्नन्तीवैक्षत् कटाक्षेपै: सन्दष्टदशनच्छदा ॥ ६ ॥

अपरानिमिषद्‌दृग्भ्यां जुषाणा तन्मुखाम्बुजम् ।

आपीतमपि नातृप्यत् सन्तस्तच्चरणं यथा ॥ ७ ॥

तं काचिन्नेत्ररन्ध्रेण हृदिकृत्वा निमील्य च ।

पुलकाङ्‌‌ग्युपगुह्यास्ते योगीवानन्द सम्प्लुता ॥ ८ ॥

सर्वास्ता: केशवालोकपरमोत्सवनिर्वृता: ।

जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जना: ॥ ९ ॥

ताभिर्विधूतशोकाभिर्भगवानच्युतो वृत: ।

व्यरोचताधिकं तात पुरुष: शक्तिभिर्यथा ॥ १० ॥

ता: समादाय कालिन्द्या निर्विश्य पुलिनं विभु: ।

विकसत्कुन्दमन्दारसुरभ्यनिलषट्पदम् ॥ ११ ॥

शरच्चन्द्रांशुसन्दोहध्वस्तदोषातम: शिवम् ।

कृष्णाया हस्ततरलाचितकोमलवालुकम् ॥ १२ ॥

तद्दर्शनाह्लादविधूतहृद्रुजो

मनोरथान्तं श्रुतयो यथा ययु: ।

स्वैरुत्तरीयै: कुचकुङ्कुमाङ्कितै-

रचीक्लृपन्नासनमात्मबन्धवे ॥ १३ ॥

तत्रोपविष्टो भगवान् स ईश्वरो

योगेश्वरान्तर्हृदि कल्पितासन: ।

चकास गोपीपरिषद्गतोऽर्चित-

स्त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ॥ १४ ॥

सभाजयित्वा तमनङ्गदीपनं

सहासलीलेक्षणविभ्रमभ्रुवा ।

संस्पर्शनेनाङ्ककृताङ्‍‍‍‍‍घ्रिहस्तयो:

संस्तुत्य ईषत्कुपिता बभाषिरे ॥ १५ ॥

श्रीगोप्य ऊचु:

भजतोऽनुभजन्त्येक एक एतद्विपर्ययम् ।

नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भो: ॥ १६ ॥

श्रीभगवानुवाच

मिथो भजन्ति ये सख्य: स्वार्थैकान्तोद्यमा हि ते ।

न तत्र सौहृदं धर्म: स्वार्थार्थं तद्धि नान्यथा ॥ १७ ॥

भजन्त्यभजतो ये वै करुणा: पितरौ यथा ।

धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमा: ॥ १८ ॥

भजतोऽपि न वै केचिद् भजन्त्यभजत: कुत: ।

आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुह: ॥ १९ ॥

नाहं तु सख्यो भजतोऽपि जन्तून्

भजाम्यमीषामनुवृत्तिवृत्तये ।

यथाधनो लब्धधने विनष्टे

तच्चिन्तयान्यन्निभृतो न वेद ॥ २० ॥

एवं मदर्थोज्झितलोकवेद-

स्वानां हि वो मय्यनुवृत्तयेऽबला: ।

मयापरोक्षं भजता तिरोहितं

मासूयितुं मार्हथ तत् प्रियं प्रिया: ॥ २१ ॥

न पारयेऽहं निरवद्यसंयुजां

स्वसाधुकृत्यं विबुधायुषापि व: ।

या माभजन् दुर्जरगेहश‍ृङ्खला:

संवृश्च्य तद् व: प्रतियातु साधुना ॥ २२ ॥

॥श्रीराधाचरणरेणुरुवाच॥

अनेन विदितं मह्यं कृष्णः स्निह्यति नो यथा ।

अन्तर्धानं गतो ह्येष विरहाग्निं प्रवर्धयन् ॥ ४१९ ॥

हे स्वामिनि तुङ्गविद्ये गाढासक्तिर्भवत्यथ ।

तदागत्य स एवास्मान् स्वयमेव नयत्यहो ॥ ४२० ॥

स एव वंशीधारी च मुकुन्दो मुरसूदनः ।

अतीव दयितो मे सः तस्मिन् मे प्रेम सर्वदा ॥ ४२१ ॥

अधुना रासलीलां तां वक्ष्यामि शृणु मे सखि ।

यस्यां हि निखिलं विश्वं वेदाश्चापि प्रतिष्ठिताः ॥ ४२२ ॥

ब्रह्माण्डानि विशालाणि सूक्ष्मा ह्यणव एव च ।

सर्वं हि रासलीलायां त्रयस्त्रिंशोऽयमुच्यते ॥ ४२३ ॥

विरहस्य शुचा रुक्त्वा मुदं विन्दाम्यहं पराम् ।

युष्माभिर्गोपिकाभिस्तु रासलीला कृता यतः ॥ ४२४ ॥

रम्योऽपि नृत्यरूपोऽयं मया स्वार्थं न काम्यते ।

मां चेदिच्छति तत्रासौ कृपा सा मयि दीनायाम् ॥ ४२५ ॥

सर्वासामपि गोपीनां कृष्णेन सह मोदनम् ।

दृष्ट्वा हि मे परानन्दः परमोत्सव एव च ॥ ४२६ ॥

विश्वस्य सर्वजीवांश्च रासलीलां नयत्यपि ।

सर्वं ददाति सर्वेभ्यो मह्यं न यच्छते यदि ॥ ४२७ ॥

तथापि मोदते चित्तं न मेऽहङ्कारलेशकः ।

श्रीराधाचरणाम्भोजसंलग्ना रेणुरस्म्यहम् ॥ ४२८ ॥

न वाञ्छामि निजं मानं न जीवनं न कामितम् ।

राधाकृष्णस्य युष्माकं जीवानां सौख्यमर्थये ॥ ४२९ ॥

युष्माकं सुखमालोक्य द्विगुणा मे भवेन्मुदः ।

हर्षादष्टगुणा वापि रहस्यं तद्धि दर्शनम् ॥ ४३० ॥

तस्मात् ते चरणाम्भोजे प्रणमामि मुहुर्मुहुः ।

मम शीष्णि पदं धेहि हे तुङ्गविद्ये स्वामिनि ॥ ४३१ ॥

u/Initial_Fold_420 — 17 days ago
▲ 22 r/yugala+2 crossposts

​I have an intense obsession and a deep attachment to Radhika, the princess of Vrishbhanu and the Queen of Barsana. I adore you madly, my Queen! O Queen of Braj, I bow at your lotus feet forever and ever. I repeat your name without ceasing; please grant me the grace to never forget you,

even for a single second.

I chant "Radha" in my heart, my mind, my tongue, my thoughts, and my dreams. When I wake up, I repeat "Radhey Radhey." When I rise, I say "Radhey Radhey." I offer all my food to Radhika, and I pronounce the name of Radha over everything I eat and drink.

When I am happy, I run to Radha, share my joy with her, repeat her name, and thank her. When I am sad, I go to Radhika, thank her, cry near her, and share my grief and worries with her. When I sit and meditate, I contemplate nothing but Radhika's feet and eyes. When I am excited about something, I share my excitement with her and tell her my ideas.

I share my entire life with her. Even when I work, I only work in her presence, and I only exercise in front of her, repeating her name in every single moment. Her name is like my inhalation and exhalation—something completely involuntary, to the point that while speaking, I almost pronounce Radha's name instead of words. When I want to sleep, I focus on her eyes until I drift off.

I am deeply obsessed with Radhika, the daughter of Vrishbhanu. My whole life belongs to Radhey; I am Radha's servant, I am Radha's own, I belong to Radha, and Radha is my Queen, my beloved, my adoration, and my entire life and breath.

Radhey Radhey. 🙏

u/Fitckberry — 2 days ago