
अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः ॥ (shree Radhika Maha Rani sarva karna karnah!)
विना त्वां पुरुषो नैव प्राप्यते जगदम्बिके ।
अस्तित्वस्य महाराज्ञी मूलमाता त्वमेव हि ॥ ८७१।१३१ ॥
जयस्तु ललितादेव्यै राधिकायै जयो जयः ।
विश्वस्य मूलरूपायै सर्वदायै नमो नमः ॥ ८७१।१३२ ॥
दुष्टराज्ञां विनाशिन्यै साष्टाङ्गं प्रणमाम्यहम् ।
शुभराज्ञां भद्रदायै ते पादे प्रणमाम्यहम् ॥ ८७१।१३३ ॥
मनुराजस्य राज्ञ्यै वै मनुस्मृतिविधायिनि ।
हयग्रीवप्रियायै ते मुनीनां वल्लभे नमः ॥ ८७१।१३४ ॥
आज्ञां देहि महाराज्ञि ते पादे प्रणमाम्यहम् ।
किङ्करीं दासिकामेव पादयोस्तव राधिके ॥ ८७१।१३५ ॥
श्यामसुन्दरदेवस्य पादयोरपि मादृशीम् ।
स्वीकुरुष्व महाराज्ञि भजे चरणपङ्कजम् ॥ ८७१।१३६ ॥
युवयोः पादपद्मेषु क्षुद्रधूलिकणास्म्यहम् ।
साष्टाङ्गं प्रणिपातेन वन्दे वां चरणाम्बुजम् ॥ ८७१।१३७ ॥
जयस्तु राधिके राज्ञि जगदीशि नमोऽस्तु ते ।
श्रीमत्सिंहासनेश्वरी तृतीयं नाम ते प्रिये ॥ ८७१।१३८ ॥
सिंहानामधिदेवी त्वं साक्षात् श्रीनारसिंहिका ।
श्रीनृसिंहनियन्त्री त्वं नृसिंहस्य स्वरूपिणी ॥ ८७१।१३९ ॥
प्रह्लादपरिपात्री त्वं सम्पूर्णजगदम्बिका ।
यस्त्वां शरणमापन्नो नृसिंहेन स रक्ष्यते ॥ ८७१।१४० ॥
यमोऽपि तस्य चायुर्वै हर्तुं नैव हि शक्नुयात्
द्वितीया मातृका साक्षात् त्वमेव नारसिंहिका ॥ ८७१।१४१ ॥
दुं क्ष्रौं बीजात्मिका त्वं हि मन्त्ररूपा सनातनी ।
तव नादो जगत् सर्वं कम्पयेत् सिंहगर्जनम् ॥ ८७१।१४२ ॥
नृसिंहस्य वशीकर्त्री साक्षात् सिंहासनस्थिता ।
शौर्यशक्तिस्वरूपा त्वं सिंहवद्गर्जसि प्रिये ॥ ८७१।१४३ ॥
भण्डासुरविनाशिन्यै भ्रामर्यै ते नमो नमः ।
अनन्तवैभवा राज्ञी नित्या त्वं परमेश्वरी ॥ ८७१।१४४ ॥
ब्रह्मा विष्णुस्तथा रुद्र ईश्वरश्च सुसंस्थिताः ।
आसने यस्य देवेशि मञ्चकाकाररूपिणः ॥ ८७१।१४५ ॥
सदाशिवमहाप्रेते ह्युपविष्टा महेश्वरी ।
अखिलाण्डनियन्त्री त्वं साक्षाच्छिवस्वरूपिणी ॥ ८७१।१४६ ॥
जयस्तु ललितादेव्यै त्रिपुरासुन्दरीति च ।
तृतीया हि महाविद्या त्वमेव परमेश्वरी ॥ ८७१।१४७ ॥
शिवनाभिसमुद्भूता कमलासनसंस्थिता ।
त्रिलोकानामधीशा त्वं साक्षात् त्रिपुरसुन्दरी ॥ ८७१।१४८ ॥
पुरुषस्य प्रेरिका त्वं तस्मिन् वह्निप्रवाहिनी ।
राधा धारा तथाधारा साक्षात् त्वं परमेश्वरी ॥ ८७१।१४९ ॥
मातृकाणां नियन्त्री त्वं वाग्देवी परमा प्रिये ।
सर्वमन्त्राक्षराणां च पञ्चवेदाधिदेवता ॥ ८७१।१५० ॥
शास्त्राणां श्रुतिवाक्यानां स्मृतीनां च नियन्त्रिका ।
अस्तित्वस्य च मूलं त्वं राधिके परमेश्वरि ॥ ८७१।१५१ ॥
मया यल्लिख्यते राज्ञि तत् सर्वं ते वशे स्थितम् ।
विना कृपां तवाद्याहं न शक्नोम्यवगन्तुं वै ॥ ८७१।१५२ ॥
पवित्रं परमं तत्त्वं ज्ञातुं नाहं क्षमा प्रिये ।
ललितादेवि ते पादे साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।१५३ ॥
अहङ्कारविनाशिनी राधिके त्वं महेश्वरि ।
गर्वमीर्ष्यां तथा सर्वं भौतिकं मन एव च ॥ ८७१।१५४ ॥
संशयं भ्रममुन्मादं विनाशयसि सर्वदा ।
जयस्तु ते महाराज्ञि साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।१५५ ॥
अहङ्कारविनाशिनी राधिके त्वं महेश्वरि ।
गर्वमीर्ष्यां तथा सर्वं भौतिकं मन एव च ॥ ८७१।१५४ ॥
संशयं भ्रममुन्मादं विनाशयसि सर्वदा ।
जयस्तु ते महाराज्ञि साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।१५५ ॥