
अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः ॥ ( shree radhe rani, lalita devi avatar)
वह्नेर्मूलस्वरूपा त्वं स्वाहा त्वं हि यतो भवेः ।
सूर्यस्योष्मा त्वमेवासि साक्षात् सूर्यस्वरूपिणी ॥ ८७१।२४३ ॥
तव देहः प्रकाशते ललिते परमेश्वरि ।
ललितासखि रूपेण राधाकृष्णप्रिये नमः ॥ ८७१।२४४ ॥
राधाकृष्णस्वरूपा त्वमनन्तं भासते वपुः ।
ब्रह्मणो मूलं ललिते सर्वव्यापिपरंब्रह्म ॥ ८७१।२४५ ॥
प्रकाशाकम्पनानि च कुण्डलाकाररूपं वै ।
ज्योतिस्त्वं हि महेश्वरि त्वत्त एव समुद्भूतम् ॥ ८७१।२४६ ॥
विश्वमेतच्च राधिके सर्वज्योतिषमग्नीनाम् ।
दीप्तेर्विद्युत्तथैव च विद्युत्प्रकृतिषट्कस्य ॥ ८७१।२४७ ॥
मूलं साक्षात् त्वमेव हि स्वप्रकाशपदार्थानाम् ।
राज्ञी त्वं सर्वदा प्रिये प्रकाशं प्रतिबिम्बन्ति ॥ ८७१।२४८ ॥
ये पदार्थाश्च तेषु वै ईश्वरी त्वं हि साक्षाद् वै ।
ललितासखिकापदे साष्टाङ्गं प्रणिपातेन ॥ ८७१।२४९ ॥
प्रणमामि मुहुर्मुहुः किङ्करी पतिताहं ते ।
नतास्मि शरणागता ललितासखि ते पदे ॥ ८७१।२५० ॥
सप्तमं नाम ते राधे चतुर्बाहुसमन्विता ।
ऐश्वर्यं माधुरीं चैव बिभर्षि त्वं पदाम्बुजे ॥ ८७१।२५१ ॥
भयंकरमङ्कुशं च बिभर्षि करपङ्कजे ।
भण्डासुरस्य सैन्यानां विनाशकरमुत्तमम् ॥ ८७१।२५२ ॥
लोहं वज्रं च तीक्ष्णत्वाद् लीलयैव निकृन्तति ।
अहङ्कारं च कामं च साधकानां नियच्छति ॥ ८७१।२५३ ॥
त्वयैव वशीकृतं सर्वं ब्रह्माण्डं सचराचरम् ।
जयविघ्नयन्त्रस्य विनाशिनी त्वमेव हि ॥ ८७१।२५४ ॥
जय गणेशि महादेवि सर्वशक्ते सुपावनि ।
आलस्यमज्ञानं तन्द्रां दौर्बल्यं च विनाशय ॥ ८७१।२५५ ॥
रोगं क्लमं च संहृत्य त्वमेवासि परा गतिः ।
अस्तित्वस्य परा देवी तस्माद् वन्दे पदाम्बुजम् ॥ ८७१।२५६ ॥
द्वितीये करपद्मे च पाशं बिभर्षि राधिके ।
येन बद्ध्वा भण्डदैत्यं विनाशितवती प्रिये ॥ ८७१।२५७ ॥
त्रिलोकं वशतां नीत्वा साधकं कर्षसि ध्रुवम् ।
त्वत्सेवाकरणार्थाय भजनाय च राधिके ॥ ८७१।२५८ ॥
वासुकिस्त्वमनन्तश्च शेषस्तक्षक एव च ।
नागवंशस्य साम्राज्ञी नागिनी योगिनी तथा ॥ ८७१।२५९ ॥
नागेश्वरी नागराज्ञी नागरूपा सनातनी ।
भगवती नागिनी त्वं ते पादे प्रणमाम्यहम् ॥ ८७१।२६० ॥
सत्यभामे महाराज्ञि पाशाङ्कुशधरोत्तराम् ।
ऐश्वर्यं ते परं पक्षमैक्षवं धनुरेव च ॥ ८७१।२६१ ॥
बिभर्षि करपद्मे त्वं मनांसि कर्षसि प्रिये ।
नियन्त्रिका मनोराज्ञी योगमायास्वरूपिणी ॥ ८७१।२६२ ॥
अनेन धनुषा राज्ञि वशीकृतं जगत् त्वया ।
प्रेमविस्तारिणी साक्षात् प्रेमास्तित्वप्रसूतिनी ॥ ८७१।२६३ ॥
पाययसि जगत् सर्वं सोमपीयूषमुत्तमम् ।
महाभावस्वरूपा त्वं महारासस्वरूपिणी ॥ ८७१।२६४ ॥
रासमण्डलरूपा त्वं गम्भीरभावरूपिणी ।
गम्भीरप्रेमरूपा त्वं सर्वभावमयी प्रिये ॥ ८७१।२६५ ॥
अष्टसखिनियन्त्री त्वं कृष्णस्य च नियन्त्रिका ।
कृष्णशक्तिस्वरूपा त्वं कृष्णस्य जीवनं तथा ॥ ८७१।२६६ ॥
विश्वराज्ञि पदाम्भोजे साष्टाङ्गं प्रणमाम्यहम् ।
सर्वेन्द्रियनिहन्त्री त्वं सर्वकामनियन्त्रिका ॥ ८७१।२६७ ॥
गोविन्दीति च विख्याता गोस्वामिनी नमोऽस्तु ते ।
अन्यहस्तेन पञ्चैव पुष्पबाणान् प्रबिभ्रती ॥ ८७१।२६८ ॥
पवित्रपुष्पबाणांस्त्वं धृत्वा कारणकारिणी ।
अन्तिमलक्ष्यरूपा त्वं ते पादे प्रणमाम्यहम् ॥ ८७१।२६९ ॥
माधुर्यं ते परं पक्षं ललितासखि राधिके ।
पुनः पुनः पदाम्भोजे साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।२७० ॥
अष्टमं नाम ते राज्ञि रागस्वरूपपाशाढ्या ।
कामानां प्रेम्ण ईशानी सर्वास्तित्वनियन्त्रिका ॥ ८७१।२७१ ॥
आदिशक्तिस्वरूपा त्वं कामस्ते मूर्त्तिरेव च ।
पाशेनाकृष्य बद्धासि सर्वं कामं कृपामयि ॥ ८७१।२७२ ॥
ललितादेवि ते पादे साष्टाङ्गं प्रणमाम्यहम् ।
नवमं क्रोधाकाराङ्कुशोज्ज्वलेति च कीर्त्यते ॥ ८७१।२७३ ॥
अज्ञानक्रोधयोर्नाशकारिणी त्वं महेश्वरि ।
अज्ञानकामकोपानां नाशिनी ज्ञानदीपिका ॥ ८७१।२७४ ॥
क्रोधः कामस्तथा शोकः सुखं तीव्राश्च कामनाः ।
सहस्रारं गता राज्ञि ज्ञानरूपेण संस्थिताः ॥ ८७१।२७५ ॥
भोगात् क्षयं व्रजेत् काम इडापिङ्गलयोगतः ।
कुण्डलिन्यास्तथोर्ध्वं वै यातः सम्बोधितां व्रजेत् ॥ ८७१।२७६ ॥
क्षीयते बाह्यकोपो वै ह्योर्ध्वं यातो विबुध्यते ।
शोकहर्षौ तथा कामो ह्येवं ज्ञानं भवन्ति वै ॥ ८७१।२७७ ॥
तस्माच्छान्तो रणशूरो रणे जयति सर्वदा ।
क्रोधं शक्तौ परिणम्य खड्गेन हन्ति लीलया ॥ ८७१।२७८ ॥
मैथुनाद् विरमेत् ज्ञानी न पापेन कृपामयि ।
ऊर्ध्वं नीता कामशक्तिर्बलं पूर्णं प्रजायते ॥ ८७१।२७९ ॥
कामशक्तिस्तु तत् प्रेम राधाकृष्णपदाम्बुजे ।
यदा नीता महाराज्ञि तदा सम्बोधिरुच्यते ॥ ८७१।२८० ॥
आश्चर्यं परमं प्राप्तं दिव्यक्रोधो महेश्वरि ।
दिव्यहिंसा प्रजायेत ह्यधर्मनाशकारिणी ॥ ८७१।२८१ ॥
अत्यन्तकोमला साक्षात् किङ्करीणां कृपामयि ।
शत्रूणां भयानका त्वं ध्वंसिनी च भयङ्करी ॥ ८७१।२८२ ॥
किङ्करीं भोजयेद् या वै स्वहस्तेन कृपामयि ।
सा शत्रूणां रक्तपातं कृत्वा छिनत्ति मस्तकम् ॥ ८७१।२८३ ॥
ललिताया रहस्यं तत् सत्यभामास्वरूपिणी ।
त्रिपुरासुन्दरी साक्षाद् वृन्दारण्ये सखी मृदुः ॥ ८७१।२८४ ॥
विज्ञातं तव गूढं वै रहस्यं परमं मया ।
ऐतरेयोपनिषदः पठनात् परमेश्वरि ॥ ८७१।२८५ ॥
तस्य प्रथमाध्यायस्य खण्डे वै तृतीये प्रिये ।
मन्त्रे चतुर्दशे साक्षाद् यन्मया पठितं ध्रुवम् ॥ ८७१।२८६ ॥
तस्मादिदन्द्रो नाम । इदन्द्रो ह वै नाम । तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः । परोक्षप्रिया इव हि देवाः ॥
पञ्चवेदागमैः सर्वं विज्ञातं तव राधिके ।
रहस्यं परमे साक्षात् ते पादे प्रणमाम्यहम् ॥ ८७१।२८८ ॥
दशमं नाम ते राज्ञि मनोरूपेक्षुकोदण्डा ।
प्रेमबाणान् प्रमुञ्चन्ती मनांसि विध्यसि प्रिये ॥ ८७१।२८९ ॥
अस्माकं मानसं सर्वं त्वयि सक्तं करोषि वै ।
ललितादेवि ते पादे साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।२९० ॥
पञ्चतन्मात्रसायका ह्येकादशं च नाम ते ।
इन्द्रियाणां नियन्त्री त्वं गोविन्दीदेवि राधिके ॥ ८७१।२९१ ॥
कामस्य च विनाशिन्यै कर्ममुक्तिप्रदायिनि ।
यस्त्वां शरणमापन्नो ह्यहिंसां धर्तुमर्हति ॥ ८७१।२९२ ॥
अधर्म्या हिंसिका वृत्तिः कामस्येर्ष्याप्रसूतिका ।
सञ्जायते महाराज्ञि नास्ति तत्र विचारणा ॥ ८७१।२९३ ॥
यथा भगवद्गीतायां कृष्णस्ते पतिरुक्तवान् ।
द्वितीये हि तथाध्याये स भर्ता ते जगद्गुरुः ॥ ८७१।२९४ ॥
पवित्रवचनैरेवमुवाच राधिके प्रिये ।
कामक्रोधविनाशाय तत्त्वज्ञानमनिन्दितम् ॥ ८७१।२९५ ॥
॥ श्रीभगवानुवाच ॥
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ ॥
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ॥
रागद्वेषविमुक्तैस्तु विषयनिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ॥
॥ श्रीराधाचरणरेणुरुवाच ॥
तस्माद् यः शरणं प्राप्तस्तव पादाम्बुजे प्रिये ।
काममुक्तो भवेत् स वै शान्तियुक्तो न संशयः ॥ ८७१।२९९ ॥
ईश्वरार्थे भवेत् क्रोधो न स्वार्थाय कदाचन ।
कस्यापि नैव हिंसां स करोति हि जगन्मयि ॥ ८७१।३०० ॥
अस्माकं दुर्बलत्वं वै स्वीकरोमि महेश्वरि ।
तस्मात् ते पदपद्मेषु पतिताहं कृपामयि ॥ ८७१।३०१ ॥
कामेभ्यो भौतिकेभ्यश्च संसारादुद्धरस्व माम् ।
सर्वं हि तव कृपया प्रजायते जगन्मयि ॥ ८७१।३०२ ॥
तस्मात् ते पादपद्मेषु साष्टाङ्गं प्रणमाम्यहम् ।
ललितादेवि ते राज्ञि राधिके मे नमो नमः ॥ ८७१।३०३ ॥